॥ वाग् यज्ञेन कल्पताम् ॥

See Listen and Chant

These Chanting are to Inspire You for, to Practice and Learn to Chanting Bhagavat Stotram. The occasional drift while highlighting is negligible and unavoidable because of the chanting styles. Some Chanting are collected from Internet, for educative and guided chanting practice and not to infringe any Copyrights.

Ready... Play...

Panini Ashtadhyayi Sutra C2S4

These entire Panini Sutra of all the eight Chapters and four Sections in each chapter, is traditionally chanted and by-heart memorized. This page facilitate you to listen, see and learn to memorize.

॥ पाणिनीय अष्टाध्यायी ॥

॥चतुर्थः पादः॥
द्विगुरेकवचनम्‌।
द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम्‌।
अनुवादे चरणानाम्‌।
अध्वर्युक्रतुरनपुंसकम्‌।
अध्ययनतोऽविप्रकृष्टाख्यानाम्‌।
जातिरप्राणिनाम्‌।
विशिष्टलिङ्गो नदीदेशोऽग्रामाः।
क्षुद्रजन्तवः।
येषां च विरोधः शाश्वतिकः।
शूद्राणामनिरवसितानाम्‌।
गवाश्वप्रभृतीनि च।
विभाषा वृक्षमृगतृणधान्य
व्यञ्जनपशुशकुन्यश्व
वडवपूर्वापराधरोत्तराणाम्‌।
विप्रतिषिद्धं चानधिकरणवाचि।
न दधिपय आदीनि।
अधिकरणैतावत्त्वे च।
विभाषा समीपे।
स नपुंसकम्‌।
अव्ययीभावश्च।
तत्पुरुषोऽनञ्कर्मधारयः।
सञ्ज्ञायां कन्थोशीनरेषु।
उपज्ञोपक्रमं तदाद्याचिख्यासायाम्‌।
छाया बाहुल्ये।
सभा राजाऽमनुष्यपूर्वा।
अशाला च।
विभाषा सेनासुराच्छायाशालानिशानाम्‌।
परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः।
पूर्ववदश्ववडवौ।
हेमन्तशिशिरावहोरात्रे चच्छन्दसि।
रात्राह्नाहाः पुंसि।
अपथं नपुंसकम्‌।
अर्धर्चाः पुंसि च।
इदमोऽन्वादेशेऽशनुदात्तस्‌ तृतीयादौ।
एतदस्त्रतसोस्त्रतसौ चानुदात्तौ।
द्वितीयाटौस्स्वेनः।
आर्धधातुके।
अदो जग्धिर्ल्यप्ति किति।
लुङ्सनोर्घस्लृ।
घञपोश्च।
बहुलं छन्दसि।
लिट्‌ यन्यतरस्याम्‌।
वेञो वयिः।
हनो वध लिङि।
लुङि च।
आत्मनेपदेष्वन्यतरस्याम्‌।
इणो गा लुङि।
णौ गमिरबोधने।
सनि च।
इङश्च।
गाङ् लिटि।
विभाषा लुङ्लृङोः।
णौ च संश्चङोः।
अस्तेर्भूः।
ब्रुवो वचिः।
चक्षिङः ख्याञ्‌।
वा लिटि।
अजेर्व्यघञपोः।
वा यौ।
ण्यक्षत्रियार्षञितो यूनि लुगणिञोः।
पैलादिभ्यश्च।
इञः प्राचाम्‌।
न तौल्वलिभ्यः।
तद्राजस्य बहुषु तेनैवास्त्रियाम्‌।
यस्कादिभ्यो गोत्रे।
यञञोश्च।
अत्रिभृगुकुत्सवसिष्ठगोतमाङ्गिरोभ्यश्च।
बह्वच इञः प्राच्यभरतेषु।
न गोपवनादिभ्यः।
तिककितवादिभ्यो द्वन्द्वे।
उपकादिभ्योऽन्यतरस्यामद्वन्द्वे।
आगस्त्यकौण्डिन्ययोरगस्तिकुण्डिनच्‌।
सुपो धातुप्रातिपदिकयोः।
अदिप्रभृतिभ्यः शपः।
बहुलं छन्दसि।
यङोऽचि च।
जुहोत्यादिभ्य: श्लुः।
बहुलं छन्दसि।
गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु।
विभाषा घ्राधेट् शाच्छासः।
तनादिभ्यस्तथासोः।
मन्त्रे घसह्वरणशवृदहाद्वृच्कृगमिजनिभ्यो लेः।
आमः।
अव्ययादाप्सुपः।
नाव्ययीभावादतोऽम्त्वपञ्चम्याः।
तृतीयासप्तम्योर्बहुलम्‌।
लुटः प्रथमस्य डारौरसः।
॥इति चतुर्थः पादः॥
॥इति द्वितीयोऽध्यायः॥

प्रियव्रतचरित्रम् । The historical story of Priyavrata. ...
गृहात्प्रव्रजितानां प्रचेतसां नारदोपदेशान्मुक्तिः । Prachetas who left home, obtained liberation from the discourse of Narada ...
दशप्रचेतसां भगवद्दर्शानं वरप्राप्तिश्च तेभ्यो मारिषागर्भाद्दक्षोत्पत्तिश्च । Sighting of Lord Vishnu by Dashaprachetas and getting boon, ...
पुरञ्जनोपाख्यानस्य तात्पर्यं नारदोपदेशः प्राचीनबर्हिषो मुक्तिश्च । The inner meaniing of Puranjana discourse and advise of ...
Loading story text...
https://www.krishnadhevalipi.org/wp-content/uploads/stories/txt/ra_story_words2058.txt
https://www.krishnadhevalipi.org/wp-content/uploads/stories/json/ra_story2058.json

Details of update

last updated - 23rd May, 2026