॥ वाग् यज्ञेन कल्पताम् ॥

See Listen and Chant

These Chanting are to Inspire You for, to Practice and Learn to Chanting Bhagavat Stotram. The occasional drift while highlighting is negligible and unavoidable because of the chanting styles. Some Chanting are collected from Internet, for educative and guided chanting practice and not to infringe any Copyrights.

Ready... Play...

Bhagavata Puranam C4S31

गृहात्प्रव्रजितानां प्रचेतसां नारदोपदेशान्मुक्तिः । Prachetas who left home, obtained liberation from the discourse of Narada Maharshi etc.

॥ श्रीमद्भागवतमहापुराणम् ॥

ॐ श्रीमद्भागवते चतुर्थस्कन्धे अथ एकत्रिंशोऽध्यायः।
मैत्रेय उवाच।
तत उत्पन्नविज्ञाना आश्वधोक्षजभाषितम्।
स्मरन्त आत्मजे भार्यां विसृज्य प्राव्रजन् गृहात्॥१॥
दीक्षिता ब्रह्मसत्रेण सर्वभूतात्ममेधसा।
प्रतीच्यां दिशि वेलायां सिद्धोऽभूद्यत्र जाजलिः॥२॥
तान्निर्जितप्राणमनोवचोदृशो
जितासनान् शान्तसमानविग्रहान्।
परेऽमले ब्रह्मणि योजितात्मनः
सुरासुरेड्यो ददृशे स्म नारदः॥३॥
तमागतं त उत्थाय प्रणिपत्याभिनन्द्य च।
पूजयित्वा यथादेशं सुखासीनमथाब्रुवन्॥४॥
प्रचेतस ऊचुः।
स्वागतं ते सुरर्षेऽद्य दिष्ट्या नो दर्शनं गतः।
तव चङ्क्रमणं ब्रह्मन्नभयाय यथा रवेः॥५॥
यदादिष्टं भगवता शिवेनाधोक्षजेन च।
तद्गृहेषु प्रसक्तानां प्रायशः क्षपितं प्रभो॥६॥
तन्नः प्रद्योतयाध्यात्मज्ञानं तत्त्वार्थदर्शनम्।
येनाञ्जसा तरिष्यामो दुस्तरं भवसागरम्॥७॥
मैत्रेय उवाच।
इति प्रचेतसां पृष्टो भगवान् नारदो मुनिः।
भगवत्युत्तमश्लोक आविष्टात्माब्रवीन्नृपान्॥८॥
नारद उवाच।
तज्जन्म तानि कर्माणि तदायुस्तन्मनो वचः।
नृणां येनेह विश्वात्मा सेव्यते हरिरीश्वरः॥९॥
किं जन्मभिस्त्रिभिर्वेह शौक्लसावित्रयाज्ञिकैः।
कर्मभिर्वा त्रयीप्रोक्तैः पुंसोऽपि विबुधायुषा॥१०॥
श्रुतेन तपसा वा किं वचोभिश्चित्तवृत्तिभिः।
बुद्ध्या वा किं निपुणया बलेनेन्द्रियराधसा॥११॥
किं वा योगेन साङ्ख्येन न्यासस्वाध्याययोरपि।
किं वा श्रेयोभिरन्यैश्च न यत्रात्मप्रदो हरिः॥१२॥
श्रेयसामपि सर्वेषामात्मा ह्यवधिरर्थतः।
सर्वेषामपि भूतानां हरिरात्माऽऽत्मदः प्रियः॥१३॥
यथा तरोर्मूलनिषेचनेन
तृप्यन्ति तत्स्कन्धभुजोपशाखाः।
प्राणोपहाराच्च यथेन्द्रियाणां
तथैव सर्वार्हणमच्युतेज्या॥१४॥
यथैव सूर्यात्प्रभवन्ति वारः
पुनश्च तस्मिन् प्रविशन्ति काले।
भूतानि भूमौ स्थिरजङ्गमानि
तथा हरावेव गुणप्रवाहः॥१५॥
एतत्पदं तज्जगदात्मनः परं
सकृद्विभातं सवितुर्यथा प्रभा।
यथासवो जाग्रति सुप्तशक्तयो
द्रव्यक्रियाज्ञानभिदा भ्रमात्ययः॥१६॥
यथा नभस्यभ्रतमः प्रकाशा
भवन्ति भूपा न भवन्त्यनुक्रमात्।
एवं परे ब्रह्मणि शक्तयस्त्वमू
रजस्तमःसत्त्वमिति प्रवाहः॥१७॥
तेनैकमात्मानमशेषदेहिनां
कालं प्रधानं पुरुषं परेशम्।
स्वतेजसा ध्वस्तगुणप्रवाह-
मात्मैकभावेन भजध्वमद्धा॥१८॥
दयया सर्वभूतेषु सन्तुष्ट्या येन केन वा।
सर्वेन्द्रियोपशान्त्या च तुष्यत्याशु जनार्दनः॥१९॥
अपहतसकलैषणामलात्म-
न्यविरतमेधितभावनोपहूतः।
निजजनवशगत्वमात्मनो य-
न्न सरति छिद्रवदक्षरः सतां हि॥२०॥
न भजति कुमनीषिणां स इज्यां
हरिरधनात्मधनप्रियो रसज्ञः।
श्रुतधनकुलकर्मणां मदैर्ये
विदधति पापमकिञ्चनेषु सत्सु॥२१॥
श्रियमनुचरतीं तदर्थिनश्च
द्विपदपतीन् विबुधांश्च यत्स्वपूर्णः।
न भजति निजभृत्यवर्गतन्त्रः
कथममुमुद्विसृजेत्पुमान् कृतज्ञः॥२२॥
मैत्रेय उवाच।
इति प्रचेतसो राजन्नन्याश्च भगवत्कथाः।
श्रावयित्वा ब्रह्मलोकं ययौ स्वायम्भुवो मुनिः॥२३॥
तेऽपि तन्मुखनिर्यातं यशो लोकमलापहम्।
हरेर्निशम्य तत्पादं ध्यायन्तस्तद्गतिं ययुः॥२४॥
एतत्तेऽभिहितं क्षत्तर्यन्मां त्वं परिपृष्टवान्।
प्रचेतसां नारदस्य संवादं हरिकीर्तनम्॥२५॥
श्रीशुक उवाच।
य एष उत्तानपदो मानवस्यानुवर्णितः।
वंशः प्रियव्रतस्यापि निबोध नृपसत्तम॥२६॥
यो नारदादात्मविद्यामधिगम्य पुनर्महीम्।
भुक्त्वा विभज्य पुत्रेभ्य ऐश्वरं समगात्पदम्॥२७॥
इमां तु कौषारविणोपवर्णितां
क्षत्ता निशम्याजितवादसत्कथाम्।
प्रवृद्धभावोऽश्रुकलाकुलो मुने-
र्दधार मूर्ध्ना चरणं हृदा हरेः॥२८॥
विदुर उवाच।
सोऽयमद्य महायोगिन् भवता करुणात्मना।
दर्शितस्तमसः पारो यत्राकिञ्चनगो हरिः॥२९॥
श्रीशुक उवाच।
इत्यानम्य तमामन्त्र्य विदुरो गजसाह्वयम्।
स्वानां दिदृक्षुः प्रययौ ज्ञातीनां निर्वृताशयः॥३०॥
एतद्यः श‍ृणुयाद्राजन् राज्ञां हर्यर्पितात्मनाम्।
आयुर्धनं यशः स्वस्ति गतिमैश्वर्यमाप्नुयात्॥३१॥
इति श्रीमद्भागवते महापुराणे वैयासक्यामष्टादशसाहस्र्यां
पारमहंस्यां संहितायां चतुर्थस्कन्धे प्रचेतसो उपाख्यानं
नामैकत्रिंशोऽध्यायः॥३१॥
॥इति चतुर्थस्कन्धः समाप्तः ॥
॥ॐ॥

प्रियव्रतचरित्रम् । The historical story of Priyavrata. ...
दशप्रचेतसां भगवद्दर्शानं वरप्राप्तिश्च तेभ्यो मारिषागर्भाद्दक्षोत्पत्तिश्च । Sighting of Lord Vishnu by Dashaprachetas and getting boon, ...
पुरञ्जनोपाख्यानस्य तात्पर्यं नारदोपदेशः प्राचीनबर्हिषो मुक्तिश्च । The inner meaniing of Puranjana discourse and advise of ...
पुरध्वंसे पुरञ्जनस्य शोकः भयादिकृतयातनानुभवः जन्मान्तरे स्त्रीभावापत्तिः अविज्ञातनाम्नः सख्युरुपदेशान्मुक्तिश्च । On the destruction of Pura (body) ...
Loading story text...
https://www.krishnadhevalipi.org/wp-content/uploads/stories/txt/ra_story_words3092.txt
https://www.krishnadhevalipi.org/wp-content/uploads/stories/json/ra_story3092.json

Details of update

last updated - 23rd May, 2026