॥ वाग् यज्ञेन कल्पताम् ॥

See Listen and Chant

These Chanting are to Inspire You for, to Practice and Learn to Chanting Bhagavat Stotram. The occasional drift while highlighting is negligible and unavoidable because of the chanting styles. Some Chanting are collected from Internet, for educative and guided chanting practice and not to infringe any Copyrights.

Ready... Play...

Bhagavata Puranam C5S1

प्रियव्रतचरित्रम् । The historical story of Priyavrata.

॥ श्रीमद्भागवतमहापुराणम् ॥

ॐ श्रीमद्भागवते पञ्चमस्कन्धे अथ प्रथमोऽध्यायः।
राजोवाच।
प्रियव्रतो भागवत आत्मारामः कथं मुने।
गृहेऽरमत यन्मूलः कर्मबन्धः पराभवः॥१॥
न नूनं मुक्तसङ्गानां तादृशानां द्विजर्षभ।
गृहेष्वभिनिवेशोऽयं पुंसां भवितुमर्हति॥२॥
महतां खलु विप्रर्षे उत्तमश्लोकपादयोः।
छायानिर्वृतचित्तानां न कुटुम्बे स्पृहा मतिः॥३॥
संशयोऽयं महान् ब्रह्मन् दारागारसुतादिषु।
सक्तस्य यत्सिद्धिरभूत्कृष्णे च मतिरच्युता॥४॥
श्रीशुक उवाच।
बाढमुक्तं भगवत उत्तमश्लोकस्य श्रीमच्चरणारविन्द-
मकरन्दरस आवेशितचेतसो भागवत परमहंस-
दयितकथां किञ्चिदन्तरायविहतां स्वां शिवतमां
पदवीं न प्रायेण हिन्वन्ति॥५॥
यर्हि वाव ह राजन् स राजपुत्रः प्रियव्रतः
परमभागवतो नारदस्य चरणोपसेवयाञ्जसावगत-
परमार्थसतत्त्वो ब्रह्मसत्रेण दीक्षिष्यमाणोऽवनितल-
परिपालनायाम्नातप्रवरगुणगणैकान्तभाजनतया
स्वपित्रोपामन्त्रितो भगवति वासुदेव एवाव्यवधान-
समाधियोगेन समावेशितसकलकारकक्रियाकलापो
नैवाभ्यनन्दद्यद्यपि तदप्रत्याम्नातव्यं तदधिकरण
आत्मनोऽन्यस्मादसतोऽपि पराभवमन्वीक्षमाणः॥६॥
अथ ह भगवानादिदेव एतस्य गुणविसर्गस्य
परिबृंहणानुध्यानव्यवसितसकलजगदभिप्राय
आत्मयोनिरखिलनिगमनिजगणपरिवेष्टितः
स्वभवनादवततार॥७॥
स तत्र तत्र गगनतल उडुपतिरिव विमानावलिभि-
रनुपथममरपरिवृढैरभिपूज्यमानः पथि पथि च
वरूथशः सिद्धगन्धर्वसाध्यचारणमुनिगणैरुपगीयमानो
गन्धमादनद्रोणीमवभासयन्नुपससर्प॥८॥
तत्र ह वा एनं देवर्षिर्हंसयानेन पितरं भगवन्तं
हिरण्यगर्भमुपलभमानः सहसैवोत्थायार्हणेन सह
पितापुत्राभ्यामवहिताञ्जलिरुपतस्थे॥९॥
भगवानपि भारत तदुपनीतार्हणः सूक्तवाकेनातितरा-
मुदितगुणगणावतारसुजयः प्रियव्रतमादिपुरुषस्तं
सदयहासावलोक इति होवाच॥१०॥
श्रीभगवानुवाच।
निबोध तातेदमृतं ब्रवीमि
मासूयितुं देवमर्हस्यप्रमेयम्।
वयं भवस्ते तत एष महर्षि-
र्वहाम सर्वे विवशा यस्य दिष्टम्॥११॥
न तस्य कश्चित्तपसा विद्यया वा
न योगवीर्येण मनीषया वा।
नैवार्थधर्मैः परतः स्वतो वा
कृतं विहन्तुं तनुभृद्विभूयात्॥१२॥
भवाय नाशाय च कर्म कर्तुं
शोकाय मोहाय सदा भयाय।
सुखाय दुःखाय च देहयोग-
मव्यक्तदिष्टं जनताङ्ग धत्ते॥१३॥
यद्वाचि तन्त्यां गुणकर्मदामभिः
सुदुस्तरैर्वत्स वयं सुयोजिताः।
सर्वे वहामो बलिमीश्वराय
प्रोता नसीव द्विपदे चतुष्पदः॥१४॥
ईशाभिसृष्टं ह्यवरुन्ध्महेऽङ्ग
दुःखं सुखं वा गुणकर्मसङ्गात्।
आस्थाय तत्तद्यदयुङ्क्त नाथ-
श्चक्षुष्मतान्धा इव नीयमानाः॥१५॥
मुक्तोऽपि तावद्बिभृयात्स्वदेह-
मारब्धमश्नन्नभिमानशून्यः।
यथानुभूतं प्रतियातनिद्रः
किं त्वन्यदेहाय गुणान्न वृङ्क्ते॥१६॥
भयं प्रमत्तस्य वनेष्वपि स्या-
द्यतः स आस्ते सह षट्सपत्नः।
जितेन्द्रियस्यात्मरतेर्बुधस्य
गृहाश्रमः किं नु करोत्यवद्यम्॥१७॥
यः षट्सपत्नान् विजिगीषमाणो
गृहेषु निर्विश्य यतेत पूर्वम्।
अत्येति दुर्गाश्रित ऊर्जितारीन्
क्षीणेषु कामं विचरेद्विपश्चित्॥१८॥
त्वं त्वब्जनाभाङ्घ्रिसरोजकोश-
दुर्गाश्रितो निर्जितषट्सपत्नः।
भुङ्क्ष्वेह भोगान् पुरुषातिदिष्टान्
विमुक्तसङ्गः प्रकृतिं भजस्व॥१९॥
श्रीशुक उवाच।
इति समभिहितो महाभागवतो भगवतस्त्रिभुवनगुरो-
रनुशासनमात्मनो लघुतयावनतशिरोधरो बाढमिति
सबहुमानमुवाह॥२०॥
भगवानपि मनुना यथावदुपकल्पितापचितिः
प्रियव्रतनारदयोरविषममभिसमीक्षमाणयोरात्म-
समवस्थानमवाङ्मनसं क्षयमव्यवहृतं प्रवर्तयन्नगमत्॥२१॥
मनुरपि परेणैवं प्रतिसन्धितमनोरथः सुरर्षिवरानुमतेना-
त्मजमखिलधरामण्डलस्थितिगुप्तय आस्थाप्य स्वयमति-
विषमविषयविषजलाशयाशाया उपरराम॥२२॥
इति ह वाव स जगतीपतिरीश्वरेच्छयाधिनिवेशित-
कर्माधिकारोऽखिलजगद्बन्धध्वंसनपरानुभावस्य
भगवत आदिपुरुषस्याङ्घ्रियुगलानवरतध्यानानुभावेन
परिरन्धितकषायाशयोऽवदातोऽपि मानवर्धनो
महतां महीतलमनुशशास॥२३॥
अथ च दुहितरं प्रजापतेर्विश्वकर्मण उपयेमे बर्हिष्मतीं
नाम तस्यामु ह वाव आत्मजानात्मसमानशीलगुणकर्म-
रूपवीर्योदारान् दश भावयाम्बभूव कन्यां च यवीयसी-
मूर्जस्वतीं नाम॥२४॥
आग्नीध्रेध्मजिह्वयज्ञबाहुमहावीरहिरण्यरेतोघृतपृष्ठ-
सवनमेधातिथिवीतिहोत्रकवय इति सर्व एवाग्निनामानः॥२५॥
एतेषां कविर्महावीरः सवन इति त्रय आसन्नूर्ध्वरेतसस्त
आत्मविद्यायामर्भभावादारभ्य कृतपरिचयाः पारमहंस्य-
मेवाश्रममभजन्॥२६॥
तस्मिन्नु ह वा उपशमशीलाः परमर्षयः सकलजीव-
निकायावासस्य भगवतो वासुदेवस्य भीतानां शरणभूतस्य
श्रीमच्चरणारविन्दाविरतस्मरणाविगलितपरमभक्तियोगा-
नुभावेन परिभावितान्तर्हृदयाधिगते भगवति सर्वेषां भूताना-
मात्मभूते प्रत्यगात्मन्येवात्मनस्तादात्म्यमविशेषेण समीयुः॥२७॥
अन्यस्यामपि जायायां त्रयः पुत्रा आसन्नुत्तमस्तामसो
रैवत इति मन्वन्तराधिपतयः॥२८॥
एवमुपशमायनेषु स्वतनयेष्वथ जगतीपतिर्जगती-
मर्बुदान्येकादशपरिवत्सराणामव्याहताखिलपुरुषकार-
सारसम्भृतदोर्दण्डयुगलापीडितमौर्वीगुणस्तनित-
विरमितधर्मप्रतिपक्षो बर्हिष्मत्याश्चानुदिनमेधमानप्रमोद-
प्रसरणयौषिण्यव्रीडाप्रमुषितहासावलोकरुचिरक्ष्वेल्यादिभिः
पराभूयमानविवेक इवानवबुध्यमान इव महामना बुभुजे॥२९॥
यावदवभासयति सुरगिरिमनुपरिक्रामन् भगवानादित्यो
वसुधातलमर्धेनैव प्रतपत्यर्धेनावच्छादयति तदा हि
भगवदुपासनोपचितातिपुरुषप्रभावस्तदनभिनन्दन्
समजवेन रथेन ज्योतिर्मयेन रजनीमपि दिनं करिष्यामीति
सप्तकृत्वस्तरणिमनुपर्यक्रामद्द्वितीय इव पतङ्गः॥३०॥
ये वा उ ह तद्रथचरणनेमिकृतपरिखातास्ते सप्तसिन्धव
आसन् यत एव कृताः सप्त भुवो द्वीपाः॥३१॥
जम्बूप्लक्षशाल्मलिकुशक्रौञ्चशाकपुष्करसंज्ञास्तेषां परिमाणं
पूर्वस्मात्पूर्वस्मादुत्तर उत्तरो यथासङ्ख्यं द्विगुणमानेन बहिः
समन्तत उपकॢप्ताः॥३२॥
क्षारोदेक्षुरसोदसुरोदघृतोदक्षीरोददधिमण्डोदशुद्धोदाः
सप्तजलधयः सप्तद्वीपपरिखा इवाभ्यन्तरद्वीपसमाना
एकैकश्येन यथानुपूर्वं सप्तस्वपि बहिर्द्वीपेषु पृथक्परित
उपकल्पितास्तेषु जम्ब्वादिषु बर्हिष्मतीपतिरनुव्रता-
नात्मजानाग्नीध्रेध्मजिह्वयज्ञबाहुहिरण्यरेतोघृतपृष्ठ-
मेधातिथिवीतिहोत्रसंज्ञान् यथासङ्ख्येनैकैकस्मि-
न्नेकमेवाधिपतिं विदधे॥३३॥
दुहितरं चोर्जस्वतीं नामोशनसे प्रायच्छद्यस्यामासी-
द्देवयानी नाम काव्यसुता॥३४॥
नैवंविधः पुरुषकार उरुक्रमस्य
पुंसां तदङ्घ्रिरजसा जितषड्गुणानाम्।
चित्रं विदूरविगतः सकृदाददीत
यन्नामधेयमधुना स जहाति बन्धम्॥३४॥
स एवमपरिमितबलपराक्रम एकदा तु देवर्षिचरणा-
नुशयनानुपतितगुणविसर्गसंसर्गेणानिर्वृतमिवात्मानं
मन्यमान आत्मनिर्वेद इदमाह॥३५॥
अहो असाध्वनुष्ठितं यदभिनिवेशितोऽहमिन्द्रियैरविद्या-
रचितविषमविषयान्धकूपे तदलमलममुष्या वनिताया
विनोदमृगं मां धिग्धिगिति गर्हयाञ्चकार॥३६॥
परदेवताप्रसादाधिगतात्मप्रत्यवमर्शेनानुप्रवृत्तेभ्यः पुत्रेभ्य
इमां यथादायं विभज्य भुक्तभोगां च महिषीं मृतकमिव
सह महाविभूतिमपहाय स्वयं निहितनिर्वेदो हृदि गृहीत-
हरिविहारानुभावो भगवतो नारदस्य पदवीं पुनरेवानुससार॥३७॥
तस्य ह वा एते श्लोकाः
प्रियव्रतकृतं कर्म को नु कुर्याद्विनेश्वरम्।
यो नेमिनिम्नैरकरोच्छायां घ्नन् सप्तवारिधीन्॥३८॥
भूसंस्थानं कृतं येन सरिद्गिरिवनादिभिः।
सीमा च भूतनिर्वृत्यै द्वीपे द्वीपे विभागशः॥३९॥
भौमं दिव्यं मानुषं च महित्वं कर्मयोगजम्।
यश्चक्रे निरयौपम्यं पुरुषानुजनप्रियः॥४०॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे प्रियव्रतविजये प्रथमोऽध्यायः॥१॥

गृहात्प्रव्रजितानां प्रचेतसां नारदोपदेशान्मुक्तिः । Prachetas who left home, obtained liberation from the discourse of Narada ...
दशप्रचेतसां भगवद्दर्शानं वरप्राप्तिश्च तेभ्यो मारिषागर्भाद्दक्षोत्पत्तिश्च । Sighting of Lord Vishnu by Dashaprachetas and getting boon, ...
पुरञ्जनोपाख्यानस्य तात्पर्यं नारदोपदेशः प्राचीनबर्हिषो मुक्तिश्च । The inner meaniing of Puranjana discourse and advise of ...
पुरध्वंसे पुरञ्जनस्य शोकः भयादिकृतयातनानुभवः जन्मान्तरे स्त्रीभावापत्तिः अविज्ञातनाम्नः सख्युरुपदेशान्मुक्तिश्च । On the destruction of Pura (body) ...
Loading story text...
https://www.krishnadhevalipi.org/wp-content/uploads/stories/txt/ra_story_words3093.txt
https://www.krishnadhevalipi.org/wp-content/uploads/stories/json/ra_story3093.json

Details of update

last updated - 23rd May, 2026