॥ वाग् यज्ञेन कल्पताम् ॥

See Listen and Chant

These Chanting are to Inspire You for, to Practice and Learn to Chanting Bhagavat Stotram. The occasional drift while highlighting is negligible and unavoidable because of the chanting styles. Some Chanting are collected from Internet, for educative and guided chanting practice and not to infringe any Copyrights.

Ready... Play...

Panini Ashtadhyayi Sutra C2S1

These entire Panini Sutra of all the eight Chapters and four Sections in each chapter, is traditionally chanted and by-heart memorized. This page facilitate you to listen, see and learn to memorize.

॥ पाणिनीय अष्टाध्यायी ॥

॥द्वितीयोऽध्यायः॥
॥प्रथमः पादः॥
समर्थः पदविधिः।
सुबामन्त्रिते पराङ्गवत्स्वरे।
प्राक्कडारात्समासः।
सह सुपा।
अव्ययीभावः।
अव्ययं विभक्तिसमीपसमृद्धि
व्यृद्ध्यर्थाभावात्ययासम्प्रति
शब्दप्रादुर्भावपश्चाद्यथानुपू्र्व्य
यौगपद्यसादृश्य
सम्पत्तिसाकल्यान्तवचनेषु।
यथासादृश्ये।
यावदवधारणे।
सुप्प्रतिना मात्रार्थे।
अक्षशलाकासङ्ख्याः परिणा।
विभाषा।
अपपरिबहिरञ्चवः पञ्चम्या।
आङ् मर्यादाभिविध्योः।
लक्षणेनाभिप्रती आभिमुख्ये।
अनुर्यत्समया।
यस्य चायामः।
तिष्ठद्गुप्रभृतीनि च।
पारे मध्ये षष्ठ्या वा।
सङख्या वंश्येन।
नदीभिश्च।
अन्यपदार्थे च सञ्ज्ञायाम्‌।
तत्पुरुषः।
द्विगुश्च।
द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः।
स्वयं क्तेन।
खट्वा क्षेपे।
सामि।
कालाः।
अत्यन्तसंयोगे च।
तृतीया तत्कृतार्थेन गुणवचनेन।
पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः।
कर्तृकरणे कृता बहुलम्‌।
कृत्यैरधिकार्थवचने।
अन्नेन व्यञ्जनम्‌।
भक्ष्येण मिश्रीकरणम्‌।
चतुथी तदर्थार्थबलिहितसुखरक्षितैः।
पञ्चमी भयेन।
अपेतापोढमुक्तपतितापत्रस्तैरल्पशः।
स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन।
सप्तमी शोण्डैः।
सिद्धशुष्कपक्वबन्धैश्च।
ध्वाङ्क्षेण क्षेपे।
कृत्यैर्ऋणे।
सञ्ज्ञायाम्‌।
क्तेनाहोरात्रावयवाः।
तत्र।
क्षेपे।
पात्रेसमितादयश्च।
पूर्वकालैकसर्वजरत्पुराणनव
केवलाः समानाधिकरणेन।
दिक्सङ्ख्ये सञ्ज्ञायाम्‌।
तद्धितार्थोत्तरपदसमाहारे च।
सङ्ख्यापूर्वो द्विगुः।
कुत्सितानि कुत्सनैः।
पापाणके कुत्सितैः।
उपमानानि सामान्यवचनैः।
उपमितं व्याघ्रादिभिः सामान्याप्रयोगे।
विशेषणं विशेष्येण बहुलम्‌।
पूर्वापरप्रथमचरमजघन्य
समानमध्यमध्यमवीराश्च।
श्रेण्यादयः कृतादिभिः।
क्तेन नञ्विशिष्टेनानञ्‌।
सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः।
वृन्दारकनागकुञ्जरैः पूज्यमानम्‌।
कतरकतमौ जातिपरिप्रश्ने।
किं क्षेपे।
पोटायुवतिस्तोककतिपय
गृष्टिधेनुवशावेहद्बष्कयणी
प्रवक्तृश्रोत्रियाध्यापकधूर्तैर्जातिः।
प्रशंसावचनैश्च।
युवा खलतिपलितवलिनजरतीभिः।
कृत्यतुल्याख्या अजात्या।
वर्णो वर्णेन।
कुमारः श्रमणादिभिः।
चतुष्पादो गर्भिण्या।
मयूरव्यंसकादयश्च।
॥इति प्रथमः पादः॥

प्रियव्रतचरित्रम् । The historical story of Priyavrata. ...
गृहात्प्रव्रजितानां प्रचेतसां नारदोपदेशान्मुक्तिः । Prachetas who left home, obtained liberation from the discourse of Narada ...
दशप्रचेतसां भगवद्दर्शानं वरप्राप्तिश्च तेभ्यो मारिषागर्भाद्दक्षोत्पत्तिश्च । Sighting of Lord Vishnu by Dashaprachetas and getting boon, ...
पुरञ्जनोपाख्यानस्य तात्पर्यं नारदोपदेशः प्राचीनबर्हिषो मुक्तिश्च । The inner meaniing of Puranjana discourse and advise of ...
Loading story text...
https://www.krishnadhevalipi.org/wp-content/uploads/stories/txt/ra_story_words2055.txt
https://www.krishnadhevalipi.org/wp-content/uploads/stories/json/ra_story2055.json

Details of update

last updated - 23rd May, 2026