॥ वाग् यज्ञेन कल्पताम् ॥

See Listen and Chant

These Chanting are to Inspire You for, to Practice and Learn to Chanting Bhagavat Stotram. The occasional drift while highlighting is negligible and unavoidable because of the chanting styles. Some Chanting are collected from Internet, for educative and guided chanting practice and not to infringe any Copyrights.

Ready... Play...

Amara Kosha Shudra Varga

Amara Kosha is one of the most popular Sanaskrit kosha which is by-heart memorized and this page will facilitate you to learn, listen, see and chant. There are about 25 Varga and each varga is shown in individual page.

॥ अमरकोषः ॥

॥अथ शूद्रवर्गः॥
शूद्राश्चाऽवरवर्णाश्च वृषलाश्च जघन्यजाः।
आचण्डालात् तु संकीर्णाः अम्बष्ठकरणाऽदयः॥
शूद्राविशोस्तु करणः अम्बष्ठो वैश्याद्विजन्मनोः।
शूद्राक्षत्रिययोरुग्रः मागधः क्षत्रियाविशोः॥
माहिषोऽर्याक्षत्रिययोः क्षत्ताऽर्याशूद्रयोः सुतः।
ब्राह्मण्यां क्षत्रियात् सूतः तस्यां वैदेहको विशः॥
रथकारस्तु माहिष्यात् करण्यां यस्य संभवः।
स्याच् चण्डालस्तु जनितः ब्राह्मण्यां वृषलेन यः॥
कारुः शिल्पी संहतैस्तैः द्वयोः श्रेणिः सजातिभिः।
कुलकः स्यात् कुलश्रेष्ठी मालाकारस्तु मालिकः॥
कुम्भकारः कुलालः स्यात् पलगण्डस्तु लेपकः।
तन्तुवायः कुविन्दः स्यात् तुन्नवायस्तु सौचिकः॥
रङ्गाजीवश्चित्रकरः शस्त्रमार्जोऽसि धावकः।
पादकृच् चर्मकारः स्याद् व्योकारो लोहकारकः॥
नाडिन्धमः स्वर्णकारः कलादो रुक्मकारकः।
स्याच्छाङ्खिकः काम्बविकः शौल्बिकस्ताम्रकुट्टकः॥
तक्षा तु वर्धकिस्त्वष्टा रथकारश्च काष्ठतट्।
ग्रामाऽधीनो ग्रामतक्षः कौटतक्षोऽनधीनकः॥
क्षुरी मुण्डी दिवाकीर्तिः नापिताऽन्तावसायिनः।
निर्णेजकः स्याद् रजकः शौण्डिको मण्डहारकः॥
जाबालः स्यादजाजीवः देवाजीवस्तु देवलः।
स्यान् माया शाम्बरी मायाकारस्तु प्रतिहारकः॥
शैलालिनस्तु शैलूषा जायाजीवाः कृशाश्विनः।
भरता इत्यपि नटाः चारणास्तु कुशीलवाः॥
मार्दङ्गिका मौरजिकाः पाणिवादास्तु पाणिघाः।
वेणुध्माः स्युर्वैणविकाः वीणावादास्तु वैणिकाः॥
जीवान्तकः शाकुनिकः द्वौ वागुरिकजालिकौ।
वैतंसिकः कौटिकश्च मांसिकश्च समं त्रयम्॥
भृतको भृतिभुक् कर्मकरो वैतनिकोऽपि सः।
वार्तावहो वैवधिकः भारवाहस्तु भारिकः॥
विवर्णः पामरो नीचः प्राकृतश्च पृथग्जनः।
निहीनोऽपसदो जाल्मः क्षुल्लकश्चेतरश्च सः॥
भृत्ये दासेरदासेय दासगोप्यकचेटकाः।
नियोज्यकिङ्करप्रैष्य भुजिष्यपरिचारकाः॥
पराचितपरिस्कन्दपरजातपरैधिताः।
मन्दस्तुन्दपरिमृज आलस्यः शीतकोऽलसोऽनुष्णः॥
दक्षे तु चतुरपेशलपटवः सूत्थान उष्णश्च।
चण्डालप्लवमातङ्गदिवाकीर्तिजनङ्गमाः॥
निषादश्वपचावन्तेवासिचाण्डालपुक्कसाः।
भेदाः किरातशबरपुलिन्दा म्लेच्छजातयः॥
व्याधो मृगवधाजीवो मृगयुर्लुब्धकोऽपि सः।
कौलेयकः सारमेयः कुक्कुरो मृगदंशकः॥
शुनको भपकः श्वा स्यात् अलर्कस्तु स योगितः।
श्वा विश्वकद्रुर्मृगया कुशलः सरमा शुनी॥
विट्चरः सूकरो ग्राम्यः वर्करस्तरुणः पशुः।
आच्छोदनं मृगव्यं स्यात् आखेटोमृगया स्त्रियाम्॥
दक्षिणाऽरुर्लुब्धयोगाद् दक्षिणेर्मा कुरङ्गकः।
चौरैकागारिकस्तेनदस्युतस्करमोषकाः॥
प्रतिरोधिपरास्कन्दि पाटच्चरमलिम्लुचाः।
चौरिका स्तैन्यचौर्ये च स्तेयं लोप्त्रं तु तद्धने॥
वीतंसस्तूपकरणं बन्धने मृगपक्षिणाम्।
उन्माथः कूटयन्त्रं स्याद् वागुरा मृगबन्धनी॥
शुल्बं वराटकं स्त्री तु रज्जुस्त्रिषु वटी गुणः।
उद्घाटनं घटीयन्त्रं सलिलोद्वाहनं प्रहेः॥
पुंसि वेमा वायदण्डः सूत्राणि नरि तन्तवः।
वाणिर्व्यूतिः स्त्रियौ तुल्ये पुस्तं लेप्याऽऽदिकर्मणि॥
पाञ्चालिका पुत्त्रिका स्याद् वस्त्रदन्ताऽऽदिभिः कृता।
जतुत्रपुविकारे तु जातुषं त्रापुषं त्रिषु॥
पिटकः पेटकः पेटा मञ्जूषाऽथ विहङ्गिका।
भारयष्टिस्तदाऽऽलम्बि शिक्यं काचोऽथ पादुका॥
पादूरुपानत् स्त्री सैवाऽनुपदीना पदाऽऽयता।
नद्ध्नी वर्ध्नी वरत्रा स्यात् अश्वाऽऽदेस्ताडनी कशा॥
चाण्डालिका तु कण्डोल वीणा चण्डालवल्लकी।
नाराची स्यादेषणिका शाणस्तु निकषः कषः॥
व्रश्चनःपत्रपरशुरीषिका तूलिका समे।
तैजसावर्तनी मूषा भस्त्रा चर्मप्रसेविका॥
आस्फोटनी वेधनिका कृपाणी कर्तरी समे।
वृक्षादनी वृक्षभेदी टङ्कः पाषाणदारणः॥
क्रकचोऽस्त्री करपत्रमारा चर्मप्रभेधिका।
सूर्मी स्थूणाऽयःप्रतिमा शिल्पं कर्म कलाऽऽदिकम्॥
प्रतिमानं प्रतिबिम्बं प्रतिमा प्रतियातना प्रतिच्छाया।
प्रतिकृतिरर्चा पुंसि प्रतिनिधिरुपमोपमानं स्यात्॥
वाच्यलिङ्गाः समस्तुल्यः सदृक्षः सदृशः सदृक्।
साधारणः समानश्च स्युरुत्तरपदे त्वमी॥
निभसंकाशनीकाशप्रतीकाशोपमाऽऽदयः।
कर्मण्या तु विधाभृत्याभृतयो भर्म वेतनम्॥
भरण्यं भरणं मूल्यं निर्वेशः पण इत्यपि।
सुरा हलिप्रिया हाला परिस्रुद् वरुणात्मजा॥
गन्धोत्तमाप्रसन्नेरा कादम्बर्यः परिस्रुता।
मदिरा कश्यमद्ये चाप्यवदंशस्तु भक्षणम्॥
शुण्डापानं मदस्थानं मधुवारा मधुक्रमाः।
मध्वासवो माधवकः मधु माध्वीकमद्वयोः॥
मैरेयमासवः सीधुर्मेदको जगलः समौ।
संधानं स्यादभिषवः किण्वं पुंसि तु नग्नहूः॥
कारोत्तरः सुरामण्ड आपानं पानघोष्ठिका।
चषकोऽस्त्री पानपात्रं सरकोऽप्यनुतर्षणम्॥
धूर्तोऽक्षदेवी कितवः अक्षधूर्तो द्यूतकृत् समाः।
स्युर्लग्नकाः प्रतिभुवः सभिका द्यूतकारकाः॥
द्यूतोऽस्त्रियामक्षवती कैतवं पण इत्यपि।
पणोऽक्षेषु ग्लहोऽक्षास्तु देवनाः पाशकाश्च ते॥
परिणायस्तु शारीणां समन्तान् नयनेऽस्त्रियाम्।
अष्टापदं शारिफलं प्राणिवृत्तं समाह्वयः॥
उक्ता भूरिप्रयोगत्वात् एकस्मिन् येऽत्र यौगिकाः।
ताद्धर्म्यादन्यतो वृत्तावूत्द्या लिङ्गाऽन्तरेऽपि ते॥
॥इति शूद्रवर्गः॥
॥इत्यमरसिंहकृतौ नामलिङ्गानुशासने
द्वितीयः काण्डो
भूम्याऽऽदिः साऽङ्ग एव समर्थितः॥

प्रियव्रतचरित्रम् । The historical story of Priyavrata. ...
गृहात्प्रव्रजितानां प्रचेतसां नारदोपदेशान्मुक्तिः । Prachetas who left home, obtained liberation from the discourse of Narada ...
दशप्रचेतसां भगवद्दर्शानं वरप्राप्तिश्च तेभ्यो मारिषागर्भाद्दक्षोत्पत्तिश्च । Sighting of Lord Vishnu by Dashaprachetas and getting boon, ...
पुरञ्जनोपाख्यानस्य तात्पर्यं नारदोपदेशः प्राचीनबर्हिषो मुक्तिश्च । The inner meaniing of Puranjana discourse and advise of ...
Loading story text...
https://www.krishnadhevalipi.org/wp-content/uploads/stories/txt/ra_story_words1919.txt
https://www.krishnadhevalipi.org/wp-content/uploads/stories/json/ra_story1919.json

Details of update

last updated - 23rd May, 2026