॥ वाग् यज्ञेन कल्पताम् ॥

See Listen and Chant

These Chanting are to Inspire You for, to Practice and Learn to Chanting Bhagavat Stotram. The occasional drift while highlighting is negligible and unavoidable because of the chanting styles. Some Chanting are collected from Internet, for educative and guided chanting practice and not to infringe any Copyrights.

Ready... Play...

Patanjali Yoga Sutram Kaivalya Pada

Patanjali Yoga Sutram contains, the various details to attain Kaivalyam. It is one of the very old and well known, Indian Astika Darshanam. Traditionally, people chant this sutram and this Yoga knowledge is spread to the entire world from India.

Patanjali Yoga Sutram

॥अथ चतुर्थः कैवल्यपादः॥
जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयः॥
जात्यन्तरपरिणामः प्रकृत्यापूरात्॥
निमित्तमप्रयोजकं प्रकृतीनां वरणभेदस्तु ततः क्षेत्रिकवत्॥
निर्माणचित्तान्यस्मितामात्रात्॥
प्रवृत्तिभेदे प्रयोजकं चित्तमेकमनेकेषाम्॥
तत्र ध्यानजमनाशयम्॥
कर्माशुक्लाकृष्णं योगिनस्त्रिविधमितरेषाम्॥
ततस्तद्विपाकानुगुणानामेवाभिव्यक्तिर्वासनानाम्॥
जातिदेशकालव्यवहिताना मप्यानन्तर्यं स्मृतिसंस्कारयोरेकरूपत्वात्॥
तासामनादित्वं चाशिषो नित्यत्वात्॥
हेतुफलाश्रयालम्बनैः सङ्गृहीतत्वादेषामभावे तदभावः॥
अतीतानागतं स्वरूपतोऽस्त्यध्वभेदाद्धर्माणाम्॥
ते व्यक्तसूक्ष्मा गुणात्मानः॥
परिणामैकत्वाद्वस्तुतत्त्वम्॥
वस्तुसाम्ये चित्तभेदात्तयोर्विभक्तः पन्थाः॥
न चैकचित्ततन्त्रं वस्तु तदप्रमाणकं तदा किं स्यात्॥
तदुपरागापेक्षित्वाच्चित्तस्य वस्तु ज्ञाताज्ञातम्॥
सदा ज्ञाताश्चित्तवृत्तयस्तत्प्रभोः पुरुषस्यापरिणामित्वात्॥
न तत्स्वाभासं दृश्यत्वात्॥
एकसमये चोभयानवधारणम्॥
चित्तान्तरदृश्ये बुद्धिबुद्धेरतिप्रसङ्गः स्मृतिसङ्करश्च॥
चितेरप्रतिसङ्क्रमायास्तदाकारापत्तौ स्वबुद्धिसंवेदनम्॥
द्रष्टृदृश्योपरक्तं चित्तं सर्वार्थम्॥
तदसङ्ख्येयवासनाभिश्चित्रमपि परार्थं संहत्यकारित्वात्॥
विशेषदर्शिन आत्मभावभावनाविनिवृत्तिः॥
तदा विवेकनिम्नं कैवल्यप्राग्भारं चित्तम्॥
तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः॥
हानमेषां क्लेशवदुक्तम्॥
प्रसङ्ख्यानेऽप्यकुसीदस्य सर्वथा विवेकख्यातेर्धर्ममेघः समाधिः॥
ततः क्लेशकर्मनिवृत्तिः॥
तदा सर्वावरणमलापेतस्य ज्ञानस्यानन्त्याज्ज्ञेयमल्पम्॥
ततः कृतार्थानां परिणामक्रमसमाप्तिर्गुणानाम्॥
क्षणप्रतियोगी परिणामापरान्तनिर्ग्राह्यः क्रमः॥
पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिरिति॥
॥इति चतुर्थः कैवल्यपादः॥

प्रियव्रतचरित्रम् । The historical story of Priyavrata. ...
गृहात्प्रव्रजितानां प्रचेतसां नारदोपदेशान्मुक्तिः । Prachetas who left home, obtained liberation from the discourse of Narada ...
दशप्रचेतसां भगवद्दर्शानं वरप्राप्तिश्च तेभ्यो मारिषागर्भाद्दक्षोत्पत्तिश्च । Sighting of Lord Vishnu by Dashaprachetas and getting boon, ...
पुरञ्जनोपाख्यानस्य तात्पर्यं नारदोपदेशः प्राचीनबर्हिषो मुक्तिश्च । The inner meaniing of Puranjana discourse and advise of ...
Loading story text...
https://www.krishnadhevalipi.org/wp-content/uploads/stories/txt/ra_story_words2086.txt
https://www.krishnadhevalipi.org/wp-content/uploads/stories/json/ra_story2086.json

Details of update

last updated - 23rd May, 2026