॥अथ चतुर्थः पादः॥
रषाभ्यां नो णः समानपदे।
अट्कुप्वाङ्नुम्व्यवायेऽपि।
पूर्वपदात् संज्ञायामगः।
वनं पुरगामिश्रकासिध्रका शारिकाकोटराऽग्रेभ्यः।
प्रनिरन्तःशरे क्षुप्लक्षाम्रकार्ष्यखदिर पियूक्षाभ्योऽसंज्ञायामपि।
विभाषौषधिवनस्पतिभ्यः।
अह्नोऽदन्तात्।
वाहनमाहितात्।
पानं देशे।
वा भावकरणयोः।
प्रातिपदिकान्तनुम्विभक्तिषु च।
एकाजुत्तरपदे णः।
कुमति च।
उपसर्गादसमासेऽपि णोपदेशस्य।
हिनुमीना।
आनि लोट्।
नेर्गदनदपतपदघुमास्यति हन्तियातिवातिद्रातिप्साति वपतिवहतिशाम्यतिचिनोतिदेग्धिषु च।
शेषे विभाषाऽकखादावषान्त उपदेशे।
अनितेः।
अन्तः।
उभौ साभ्यासस्य।
हन्तेरत्पूर्वस्य।
वमोर्वा।
अन्तरदेशे।
अयनं च।
छन्दस्यृदवग्रहात्।
नश्च धातुस्थोरुषुभ्यः।
उपसर्गाद् बहुलम्।
कृत्यचः।
णेर्विभाषा।
हलश्च इजुपधात्।
इजादेः सनुमः।
वा निंसनिक्षनिन्दाम्।
न भाभूपूकमिगमिप्यायीवेपाम्।
षात् पदान्तात्।
नशेः षान्तस्य।
पदान्तस्य।
पदव्यवायेऽपि।
क्षुभ्नाऽऽदिषु च।
स्तोः श्चुना श्चुः।
ष्टुना ष्टुः।
न पदान्ताट्टोरनाम्।
तोः षि।
शात्।
यरोऽनुनासिकेऽनुनासिको वा।
अचो रहाभ्यां द्वे।
अनचि च।
नादिन्याक्रोशे पुत्रस्य।
शरोऽचि।
त्रिप्रभृतिषु शाकटायनस्य।
सर्वत्र शाकल्यस्य।
दीर्घादाचार्याणाम्।
झलां जश् झशि।
अभ्यासे चर्च्च।
खरि च।
वाऽवसाने।
अणोऽप्रगृह्यस्यानुनासिकः।
अनुस्वारस्य ययि परसवर्णः।
वा पदान्तस्य।
तोर्लि।
उदः स्थास्तम्भोः पूर्वस्य।
झयो होऽन्यतरस्याम्।
शश्छोऽटि।
हलो यमां यमि लोपः।
झरो झरि सवर्णे।
उदात्तादनुदात्तस्य स्वरितः।
नोदात्तस्वरितोदयमगार्ग्य काश्यपगालवानाम्।
अ अ इति।
॥इति चतुर्थः पादः॥