॥ वाग् यज्ञेन कल्पताम् ॥

See Listen and Chant

These Chanting are to Inspire You for, to Practice and Learn to Chanting Bhagavat Stotram. The occasional drift while highlighting is negligible and unavoidable because of the chanting styles. Some Chanting are collected from Internet, for educative and guided chanting practice and not to infringe any Copyrights.

Ready... Play...

Amara Kosha Lingadhi Varga

Amara Kosha is one of the most popular Sanaskrit kosha which is by-heart memorized and this page will facilitate you to learn, listen, see and chant. There are about 25 Varga and each varga is shown in individual page.

॥ अमरकोषः ॥

॥अथ लिङ्गादिसंग्रहवर्गः॥
सलिङ्गशास्त्रैः सन्नाऽऽदि कृत् तद्धित समासजैः।
अनुक्तैः संग्रहे लिङ्गं संकीर्णवदिहोन्नयेत्॥
लिङ्गशेषविधिर्व्यापी विशेषैर्यद्यबाधितः।
स्त्रियामीदूद्विरामैकाऽच् सयोनिप्राणिनाम च॥
नाम विद्युन्निशावल्लीवीणादिग्भूनदीह्रियाम्।
अदन्तैर्द्विगुरेकाऽर्थः न स पात्रयुगाऽऽदिभिः॥
तल्वृन्दे येनिकट्यत्रा वैरमैथुनिकाऽऽदिवुन्।
स्त्रीभावाऽऽदावनिक्तिण्ण्वुल्णच्ण्वुल्क्यब्युजिञङ्निशाः॥
उणाऽऽदिषु निरूरीश्च ङ्याबूङन्तं चलं स्थिरम्।
तत्क्रीडायां प्रहरणं चेन् मौष्टा पाल्लवा ण दिक्॥
घञो ञः सा क्रियाऽस्यां चेद् दाण्डपाता हि फाल्गुनी।
श्यैनम्पाता च मृगया तैलम्पाता स्वधेति दिक्॥
स्त्री स्यात्काचिन् मृणाल्यादिः विवक्षाऽपचये यदि।
लङ्का शेफालिका टीका धातकीपञ्चिकाऽऽढकी॥
सिध्रका सारिका हिक्का प्राचिकोल्का पिपीलिका।
तिन्दुकी कणिका भङ्गिः सुरङ्गासूचिमाढयः॥
पिच्छा वितण्डा काकिण्यश्चूर्णिः शाणी द्रुणी दरत्।
सातिः कन्था तथाऽऽसन्दी नाभी राजसभाऽपि च॥
झल्लरी चर्चरी पारी होरा लट्वा च सिध्मला।
लाक्षा लिक्षा च गण्डूषा गृध्रसी चमसी मसी॥
पुंस्त्वे सभेदाऽनुचराः सपर्यायाः सुराऽसुराः।
स्वर्गयागाऽद्रिमेघाऽब्धि द्रुकालाऽसिशराऽरयः॥
करगण्डोष्ठदोर्दन्त कण्ठकेशनखस्तनाः।
अह्नाऽहाऽन्ताः क्ष्वेडभेदाः रात्राऽन्ताः प्रागसंख्यकाः॥
श्रीवेष्टाद्याश्च निर्यासाः असन्नन्ता अबाधिताः।
कशेरुजतुवस्तूनि हित्वा तुरुविरामकाः॥
कषणभमरोपान्ताः यद्यदन्ता अमी अथ।
पथनयसटोपान्ताः गोत्राख्याश्चरणाऽऽह्वयाः॥
नाम्न्यकर्तरि भावे च घञजब्नङ्णघाऽथुचः।
ल्युः कर्तरीमनिच्भावे को घोः किः प्राऽऽदितोन्यतः॥
द्वन्द्वेऽश्ववडवावश्ववडवान समाहृते।
कान्तः सूर्येन्दुपर्यायपूर्वोऽयः पूर्वको।पि च॥
वटकश्चाऽनुवाकश्च रल्लकश्च कुडङ्गकः।
पुङ्खो न्यूङ्खः समुद्रश्च विटपट्टधटाः खटाः॥
कोट्टारघट्टहट्टाश्च पिण्डगोण्डपिचण्डवत्।
गडुः करण्डो लगुडः करण्डश्च किणो घुणः॥
दृतिसीमन्तहरितः रोमन्थोद्गीथबुद्बुदाः।
कासमर्दोऽर्बुदः कुन्दः फेनस्तूपौ सयूपकौ॥
आतपः क्षत्रिये नाभिः कुणपक्षुरकेदराः।
पूरक्षुरप्रचुक्राश्च गोलहिङ्गुलपुद्गलाः॥
वेतालभल्लमल्लाश्च पुरूडाशोऽपि पट्टिशः।
कुल्माषो रभसश्चैव सकटाहः पतद्रहः॥
द्विहीनेऽन्यच्च खाऽरण्यपर्णश्वभ्रहिमोदकम्।
शीतोष्णमांसरुधिर मुखाऽक्षिद्रविणं बलम्॥
फलहेमशुल्बलोहसुखदुःखशुभाऽशुभम्।
जलपुष्पाणि लवणं व्यञ्जनान्यनुलेपनम्॥
कोट्याः शताऽऽदिसंख्याऽन्या वा लक्षा नियुतं च तत्।
द्वयष्कमसिसुसन्नन्तं यदनाऽन्तमकर्तरि॥
त्रान्तंसलोपधंशिष्टं रात्रं प्राक्संख्ययाऽन्वितम्।
पात्राऽऽद्यदन्तैरेकाऽर्थः द्विगुर्लक्ष्याऽनुसारतः॥
द्वन्द्वैक्त्वाऽऽव्ययीभावौ पथः संख्याऽव्ययात्परः।
शड्याश्छाया बहूनां चेत् विच्छायं संहतौ सभा॥
शालाऽर्थाऽपि परा राजाऽमनुष्याऽर्थादराजकात्।
दासीसभं नृपसभं रक्षस्सभमिमा दिशः॥
उपज्ञोपक्रमाऽन्तश्च तदाऽऽदित्वप्रकाशने।
कोपज्ञकोपक्रमाऽऽदि कन्थोशीनर नामसु॥
भावे नणकचिद्भ्योऽन्ये समूहे भावकर्मणोः।
अदन्तप्रत्ययाः पुण्यसुदिनाभ्यां त्वहः परः॥
क्रियाऽव्ययानां भेदकान्येकत्वेऽप्युक्थतोटके।
चोचं पिच्छं गृहस्थूणं तिरीटं मर्म योजनम्॥
राजसूयं वाजपेयं गद्यपद्ये कृतौ कवेः।
माणिक्यभाष्यसिन्दूर चीरचीवरपिञ्जरम्॥
लोकायतं हरितालं विदलस्थालबाह्लिकम्।
पुन्नपुंसकयोः शेषः अर्धर्चपिण्याककण्टकाः॥
मोदकस्तण्डकष्टङ्कः शाटकः कर्पटोऽर्बुदः।
पातकोद्योगचरकतमालामलका नडः॥
कुष्ठं मुण्डं शीधु बुस्तं क्ष्वेडितं क्षेमकुट्टिमम्।
संगमं शतमानाऽर्मशम्बलाऽव्ययताण्डवम्॥
कवियं कन्दकार्पासं पारावारं युगन्धरम्।
यूपं प्रग्रीवपात्रीवे यूषं चमसचिक्कसौ॥
अर्धर्चाऽऽदौ घृताऽऽदीनां पुंस्त्वाऽऽद्यं वैदिकं ध्रुवम्।
तन् नोक्तमिह लोकेऽपि तच् चेदस्त्यस्तु शेषवत्॥
स्त्रीपुंसयोरपत्याऽन्ताः द्विचतुष्षट्पदोरगाः।
जातिभेदाः पुमाख्याश्च स्त्रीयोगैः सह मल्लकः॥
ऊर्मिर्वराटकः स्वातिः वर्णको झाटलिर्मनुः।
मूषा सृपाटी कर्कन्धूः यष्टिः शाटी कटी कुटी॥
स्त्रीनपुंसकयोर्भावक्रिययोः ष्यञ्क्वचिच्च वुञ्।
औचित्यमौचिती मैत्री मैत्र्यं वुञ् प्रागुदाहृतः॥
षष्ठ्यन्तप्राक्पदाः सेनाछायाशालासुरानिशाः।
स्याद्वा नृसेनं श्वनिशं गोशालमितरे च दिक्॥
आबन्नन्तोत्तरपदः द्विगुश्चाऽपुंसि नश्च लुप्।
त्रिखट्वं च त्रिखट्वी च त्रितक्षं च त्रितक्ष्यपि॥
त्रिषु पात्री पुटी वाटी पेटी कुवलदाडिमौ।
परं लिङ्गं स्वप्रधाने द्वन्द्वे तत्पुरुषेऽपि तत्॥
अर्थाऽन्ताः प्राद्यलम्प्राप्ताऽऽपन्नपूर्वाः परोपगाः।
तद्धिताऽर्थो द्विगुः संख्या सर्वनामतदन्तकाः॥
बहुर्व्रीहिरिदिङ्नाम्नामुन्नेयं तदुदाहृतम्।
गुणद्रव्यक्रियायोगोपाधिभिः परगामिनः॥
कृतह्कर्तर्यसंज्ञायां कृत्याः कर्तरि कर्मणि।
अणाद्यन्तास्तेन रक्ताद्यर्थे नानाऽर्थभेदकाः॥
षट्संज्ञकास्त्रिषु समा युष्मदस्मत्तिङ्व्ययम्।
परं विरोधे शेषं तु ज्ञेयं शिष्टप्रयोगतः॥
॥इति लिङ्गादिसंग्रहवर्गः॥
॥इत्यमरसिंहकृतौ नामलिङ्गाऽनुशासने
सामान्यकाण्डस्तृतीयः साऽङ्ग एव समर्थितः॥

प्रियव्रतचरित्रम् । The historical story of Priyavrata. ...
गृहात्प्रव्रजितानां प्रचेतसां नारदोपदेशान्मुक्तिः । Prachetas who left home, obtained liberation from the discourse of Narada ...
दशप्रचेतसां भगवद्दर्शानं वरप्राप्तिश्च तेभ्यो मारिषागर्भाद्दक्षोत्पत्तिश्च । Sighting of Lord Vishnu by Dashaprachetas and getting boon, ...
पुरञ्जनोपाख्यानस्य तात्पर्यं नारदोपदेशः प्राचीनबर्हिषो मुक्तिश्च । The inner meaniing of Puranjana discourse and advise of ...
Loading story text...
https://www.krishnadhevalipi.org/wp-content/uploads/stories/txt/ra_story_words1924.txt
https://www.krishnadhevalipi.org/wp-content/uploads/stories/json/ra_story1924.json

Details of update

last updated - 23rd May, 2026