॥अथ वैश्यवर्गः॥
ऊरव्य ऊरुज अर्या वैश्या भूमिस्पृशो विशः।
आजीवो जीविका वार्ता वृत्तिर्वर्तनजीवने॥
स्त्रियां कृषिः पाशुपाल्यं वाणिज्यं चेति वृत्तयः।
सेवा श्ववृत्तिरनृतं कृशिरुञ्छशिलं त्वृतम्॥
द्वे याचिताऽयाचितयोः यथासंख्य्ं मृताऽमृते।
सत्यानृतं वणिग्भावः स्यादृणं पर्युदञ्चनम्॥
उद्धारोऽर्थप्रयोगस्तु कुसीदं वृद्धिजीविका।
याञ्चयाऽऽप्तं याचितकं निमयादापमित्यकम्॥
उत्तमर्णाऽधमर्णौ द्वौ प्रयोक्तृ ग्राहकौ क्रमात्।
कुसीदिको वार्धुषिकः वृद्ध्याजीवश्च वार्धुषिः॥
क्षेत्राजीवः कर्षकश्च कृषिकश्च कृषीवलः।
क्षेत्रं व्रैहेयशालेयं व्रीहिशाल्युद्भवोचितम्॥
यव्यं यवक्यं षष्टिक्यं यवाऽऽदिभवनं हि यत्।
तिल्यं तैलीनवन् माषोमाऽणुभङ्गाद्विरूपता॥
मौद्गीनकौद्रवीणाऽऽदि शेषधान्योद्भवक्षमम्।
शाकक्षेत्राऽऽदिके शाकशाकटं शाकशाकिनम्॥
बीजाकृतं तूप्रकृष्टे सीत्यं कृष्टं च हल्यवत्।
त्रिगुणाकृतं तृतीयाकृतं त्रिहल्यं त्रिसीत्यमपि तस्मिन्॥
द्विगुणाकृते तु तत्सर्वं द्विपूर्वं शम्बाकृतमपीह।
द्रोणाऽऽढकाऽऽदि वापाऽऽदौ द्रौणिकाऽऽढकिकाऽऽदयः॥
खारीवापस्तु खारीक उत्त्मर्र्णाऽऽदयस्त्रिषु।
पुन्नपुंसकयोर्वप्रः केदारः क्षेत्रमस्य तु॥
कैदारकं स्यात् कैदार्यं क्षेत्रं कैदारिकं गणे।
लोष्टानि लेष्टवः पुंसि कोटिशो लोष्टभेदनः॥
प्राजनं तोदनं तोत्रं खनित्रमवदारणे।
दात्रं लवित्रमाबन्धः योत्रं योक्त्रमथो फलम्॥
निरीषं कुटकं फालः कृषको लांगलं हलम्।
गोदारणं च सीरोऽथ शम्या स्त्री युगकीलकः॥
ईषा लांगलदण्डः स्यात् सीत लाङ्गलपद्धतिः।
पुंसि मेधिः खले दारु न्यस्तं यत् पशुबन्धने॥
आशुर्व्रीहिः पाटलः स्यात् शितशूकयवौ समौ।
तोक्मस्तु तत्र हरिते कलायस्तु सतीनकः॥
हरेणुरेणुकौ चाऽस्मिन् कोरदूषस्तु कोद्रवः।
मंगल्यको मसूरोऽथ मकुष्ठक मयुष्ठकौ॥
वनमुद्गे सर्षपे तु द्वौ तंतुभकदम्बकौ।
सिद्धार्थस्त्वेष धवलः गोधूमः सुमनः समौ॥
स्याद् यावकस्तु कुल्माषः चणको हरिमन्थकः।
द्वौ तिले तिलपेजश्च तिलपिञ्जश्च निष्फले॥
क्षवः क्षुताभिजननः राजिका कृष्णिकाऽऽसुरी।
स्त्रियौ कङ्गुप्रियङ्गू द्वे अतसी स्यादुमा क्षुमा।
मातुलानी तु भङ्गायां व्रीहि भेदस्त्वणुः पुमान्॥
किंशारुः सस्यशूकं स्यात् कणिशं सस्यमञ्जरी।
धान्यं व्रीहिः स्तम्बकरिः स्तम्बो गुच्छस्तृणादिनः॥
नाडी नालं च काण्डोऽस्य पलालोस्त्री स निष्फलः।
कडङ्गरो बुसं क्लीबे धान्यत्वचि तुषः पुमान्॥
शूकोऽस्त्री श्लक्ष्णतीक्ष्णाऽग्रे शमी शिम्बा त्रिषूत्तरे।
ऋद्धमावसितं धान्यं पूतं तु बहुलीकृतम्॥
माषाऽऽदयः शमीधान्ये शूकधान्ये यवाऽऽदयः।
शालयः कलमाद्याश्च षष्टिकाद्याश्च पुंस्यमी॥
तृणधान्यानि नीवाराः स्त्री गवेधुर्गवेधुका।
अयोग्रं मुसलोऽस्त्री स्यात् उदूखलमुलूखलम्॥
प्रस्फोटनं शूर्पमस्त्री चालनी तितउः पुमान्।
स्यूतप्रसेवौ कण्डोलपिटौ कटकिलिञ्जकौ॥
समानौ रसवत्यां तु पाकस्थानमहानसे।
पौरोगवस्तदध्यक्षः सूपकारास्तु बल्लवाः॥
आरालिका आन्धसिकाः सूदा औदनिका गुणाः।
आपूपिकः कान्दविकः भक्ष्यकार इमे त्रिषु॥
अश्मन्तमुद्धानमधिश्रयणी चुल्लिरन्तिका।
अङ्गारधानिकाङ्गारशकट्यपि हसन्त्यपि॥
हसन्यप्यथ न स्त्री स्यात् अङ्गारोऽलातमुल्मुकम्।
क्लीबेऽम्बरीपं भ्राष्ट्रो ना कन्दुर्वा स्वेदनी स्त्रियाम्॥
अलिञ्जरः स्यान्मणिकः कर्कर्यालुर्गलन्तिका।
पिठरः स्थाल्युखा कुण्डं कलशस्तु त्रिषु द्वयोः॥
घटः कुटनिपावस्त्री शरावो वर्धमानकः।
ऋजीषं पिष्टपचनं कंसोऽस्त्री पानभाजनम्॥
कुतूः कृत्तेः स्नेहपात्रं सैवाऽल्पा कुतुपः पुमान्।
सर्वमावपनं भाण्डं पात्रामत्रं च भाजनम्॥
दर्विः कम्बिः खजाका च स्यात् तद्दूर्दारुहस्तकः।
अस्त्री शाकं हरितकं शिग्रुरस्य तु नाडिका॥
कलम्बश्च कदम्बश्च वेषवार उपस्करः।
तिन्तिडीकं च चुक्रं च वृक्षाम्लमथ वेल्लजम्॥
मरीचं कोलकं कृष्णभूषणं धर्मपत्तनम्।
जीरको जरणोऽजाजि कणाः कृष्णे तु जीरके।
सुषवी कारवी पृथ्वी पृथुः कालोपकुञ्जिका॥
आर्द्रकं शृङ्गबेरं स्यात् अथ छत्रा वितुन्नकम्।
कुस्तुम्बरु च धान्याकम् अथ शुण्ठी महौषधम्॥
स्त्रीनपुंसकयोर्विश्वं नागरं विश्वभेषजम्।
आरनालकसौवीर कुल्माषऽभिशुतानि च॥
अवन्तिसोमधान्याम्ल कुञ्जलानि च काञ्जिके।
सहस्रवेधि जतुकं बाह्लीकं हिङ्गु रामठम्॥
तत्पत्री कारवी पृथ्वी बाष्पिका कबरी पृथुः।
निशाऽऽख्या काञ्चनी पीता हरिद्रा वरवर्णिनी॥
सामुद्रं यत् तु लवणम् अक्षीवं वशिरं च तत्।
सैन्धवोऽस्त्री शीतशिवं माणिमन्थं च सिन्धुजे॥
रौमकं वसुकं पाक्यं बिडं च कृतके द्वयम्।
सौवर्चलेऽक्षरुचके तिलकं तत्र मेचके॥
मत्स्यण्डी फाणितं खण्डविकारे शर्करा सिता।
कूर्चिका क्षीरविकृतिः स्याद्रसाला तु मार्जिता॥
स्यात्तेमनं तु निष्ठानं त्रिलिङ्गा वासिताऽवधेः।
शूलाकृतं भटित्रं स्यात् शूल्यमुख्यं तु पैठरम्॥
प्रणीतमुपसम्पन्नं प्रयस्तं स्यात्सुसंस्कृतम्।
स्यात्पिच्छिलं तु विजिलं संमृष्टं शोधितं समे॥
चिक्कणं मसृणं स्निग्धं तुल्ये भावितवासिते।
आपक्वं पौलिरभ्यूषः लाजाः पुंभूम्नि चाऽक्षताः॥
पृथकः स्याच्चिपिटकः धाना भृष्टयवे स्त्रियः।
पूपोऽपूपः पिष्टकः स्यात्करम्भो दधिसक्तवः॥
भिस्सा स्त्री भक्तमन्धोऽन्नम् ओदनोऽस्त्री स दीदिविः।
भिस्सटा दग्धिका सर्वरसाऽग्रे मण्डमस्त्रियाम्॥
मासराऽऽचामनिस्रावा मण्डे भक्तसमुद्भवे।
यवागूरुष्णिका श्राणा विलेपी तरला च सा॥
म्रक्षणाऽभ्यञ्जने तैलं कृसरस्तु तिलौदनः।
गव्यं त्रिषु गवां सर्वं गोविड्गोमयस्त्रियाम्॥
तत्तु शुष्कं करीषोऽस्त्री दुग्धं क्षीरं पयस्समम्।
पयस्यमाज्यदध्याऽऽदि त्रप्स्यं दधि धनेतरत्॥
घृतमाज्यं हविः सर्पिः नवनीतं नवोद्घृतम्।
तत्तु हैयङ्गवीनं यत् ह्योघोदोहोद्भवं घृतम्॥
दण्डाहतं कालशेयम् अरिष्टमपि गोरसः।
तक्रं ह्युदश्विन् मथितं पादाम्ब्वर्धाम्बु निर्जलम्।
मण्डम् दधिभवं मस्तु पीयूषोऽभिनवं पयः॥
अशनाया बुभुक्षा क्षुद् ग्रासस्तु कवलः पुमान्।
सपीतिः स्त्री तुल्यपानं सग्धिः स्त्री सहभोजनम्॥
उदन्या तु पिपासा तृट् तर्पो जग्धिस्तु भोजनम्।
जेमनं लेह आहारः निघासो न्याद इत्यपि॥
सौहित्यं तर्पणं तृप्तिः फेला भुक्तसमुज्झितम्।
कामं प्रकामं पर्याप्तं निकामेष्टं यथेप्सितम्॥
गोपो गोपाल गोसंख्य गोधुगा भीर वल्लवाः।
गोमहिष्याऽऽदिकं पादबन्धनं द्वौ गवीश्वरे॥
गोमान् गोमी गोकुलं तु गोधनं स्यात्गवां व्रजे।
त्रिष्वाशितंगवीनं तद्गावो यत्राऽशिताः पुरा॥
उक्षा भद्रो बलीवर्दः ऋषभो वृषभो वृषः।
अनड्वान् सौरभेयो गौः उक्ष्णां संहतिरौक्षकम्॥
गव्या गोत्रा गवां वत्सधेन्वोर्वात्सकधैनुके।
वृषो महान् महोक्षः स्याद्वृद्धोक्षस्तु जरद्गवः॥
उत्पन्न उक्षा जातोक्षः सद्यो जातस्तु तर्णकः।
शकृत्करिस्तु वत्सस्याद् दम्यवत्सतरौ समौ॥
आर्षभ्यः षण्डतायोग्यः षण्डो गोपतिरिट्चरः।
स्कन्धदेशे स्वस्य वहः सास्ना तु गलकम्बलः॥
स्यान्नस्तितस्तु नस्योतः प्रष्ठवाड् युगपार्श्वगः।
युगाऽऽदीनां तु वोढारः युग्यप्रासंग्यशाकटाः॥
खनति तेन तद्वोढाऽस्येदं हालिकसैरिकौ।
धुर्वहे धुर्य धौरेय धुरीणाः सधुरन्धराः॥
उभावेकधुरीणैकधुरावेकधुरावहे।
स तु सर्वधुरीणः स्याद्यो वै सर्वधुराऽऽवहः॥
माहेयी सौरभेयी गौः उस्रा माता च शृङ्गिणी।
अर्जुन्यघ्न्या रोहिणी स्यात् उत्तमा गोषु नौचिकी॥
वर्णाऽऽदिभेदात्संज्ञाः स्युः शबलीधवलाऽऽदयः।
द्विहायनी द्विवर्षा गौः एकाऽब्दा त्वेकहायनी॥
चतुरब्दा चतुर्हायणी एवं त्र्यब्दा त्रिहायणी।
वशा वन्ध्याऽवतोका तु स्रवद्गर्भाऽथ संधिनी॥
आक्रान्ता वृषभेणाथ वेहद् गर्भोपघातिनी।
काल्योपसर्या प्रजने प्रष्ठौही बालगर्भिणी॥
स्यादचण्डी तु सुकरा बहुसूतिः परेष्टुका।
चिरप्रसूता बष्कयणी धेनुः स्यात्नवसूतिका॥
सुव्रता सुखसंदोह्या पीनोध्नी पीवरस्तनी।
द्रोणक्षीरा द्रोणदुग्धा धेनुष्या बन्धके स्थिता॥
समांसमीना सा यैव प्रतिवर्षप्रसूतये।
ऊधस्तु क्लीबमापीनं समौ शिवककीलकौ॥
न पुम्सि दाम संदानं पशुरज्जुस्तु दामनी।
वैशाखमन्थमन्थान मन्थानो मन्थदण्डके॥
कुठरो दण्डविष्कम्भः मन्थनी गर्गरी समे।
उष्ट्रे क्रमेलकमय महाङ्गाः करभः शिशुः॥
करभाः स्युः शृङ्खलका दारवैः पादबन्धनैः।
अजा च्छागी शुभच्छागबस्तच्छगलका अजे॥
मेढ्रोरभ्रोरणोर्णायु मेष वृष्णय एडके।
उष्ट्रोरभ्राऽजवृन्दे स्यात् औष्ट्रकौरभ्रकाऽऽजकम्॥
चक्रीवन्तस्तु वालेया रासभा गर्दभाः खराः।
वैदेहकः सार्थवाहः नैगमो वाणिजो वणिक्॥
पण्याजीवो ह्यापणिकः क्रयविक्रयिकश्च सः।
विक्रेता स्याद्विक्रयिकः क्रायिकक्रयिकौ समौ॥
वाणिज्यं तु वणिज्या स्यानत् मूल्यं वस्नोऽप्यवक्रयः।
नीवी परिपणो मूलधनं लाभोऽधिकं फलम्॥
परिदानं परीवर्तः नैमेयनियमावपि।
पुमानुपनिधिर्न्यासः प्रतिदानं तदर्पणम्॥
क्रये प्रसारितं क्रय्यं क्रेयं क्रेतव्यमात्रके।
विक्रेयं पणितव्यं च पण्यं क्रय्याऽऽदयस्त्रिषु॥
क्लीबे सत्यापनं सत्यङ्कारः सत्याकृतिः स्त्रियाम्।
विपणो विक्रयः संख्याः संख्येये ह्यादश त्रिषु॥
विंशत्याऽऽद्याः सदैकत्वे सर्वाः संख्येयसंख्ययोः।
संख्याऽर्थे द्विबहुत्वे स्तः तासु चाऽऽनवतेः स्त्रियः॥
पङ्क्तेः शतसहस्राऽऽदि क्रमाद्दशगुणोत्तरम्।
यौतवं द्रुवयं पाय्यम् इति मानाऽर्थकं त्रयम्॥
मानं तुलाङ्गुलिप्रस्थैः गुञ्जाः पञ्जाऽऽद्यमाषकः।
ते षोडशाऽक्षः कर्षोऽस्त्री पलं कर्षचतुष्टयम्॥
सुवर्णबिस्तौ हेम्नोऽक्षे कुरुबिस्तस्तु तत्पले।
तुला स्त्रियां पलशतं भारः स्याद्विंशतिस्तुलाः॥
आचितो दश भाराः स्युः शाकटो भार आचितः।
कार्षापणः कार्षिकः स्यात् कार्षिके ताम्रिके पणः॥
अस्त्रियामाढकद्रोणौ खारी वाहो निकुञ्चकः।
कुडवः प्रस्थ इत्याऽऽद्याः परिमाणाऽर्थकाः पृथक्॥
पादस्तुरीयो भागः स्यात् अंशभागौ तु वण्टके।
द्रव्यं वित्तं स्वापतेयं रिक्थमृक्थं धनं वसु॥
हिरण्यं द्रविणं द्युम्नम् अर्थरैविभवा अपि।
स्यात्कोशश्च हिरण्यं च हेमरूप्ये कृताऽकृते॥
ताभ्यां यदन्यत् तत्कुप्यं रूप्यं तद् द्वयमाहतम्।
गारुत्मतं मरकतम् अश्मगर्भो हरिन्मणिः॥
शोणरत्नं लोहितकः पद्मरागोऽथ मौक्तिकम्।
मुक्ताऽथ विद्रुमः पुंसि प्रवालं पुन्नपुंसकम्॥
रत्नं मणिर्द्वयोरश्मजातौ मुक्ताऽऽदिकेऽपि च।
स्वर्णं सुवर्णं कनकं हिरण्यं हेमहाटकम्॥
तपनीयं शातकुम्भं गाङ्गेयं भर्म कर्वुरम्।
चामीकरं जातरूपं महारजतकाञ्चने॥
रुक्मं कार्तस्वरं जाम्बूनदम् अष्टापदोऽस्त्रियाम्।
अलङ्कारसुवर्णं यत् शृङ्गीकनकमित्यदः॥
दुर्वर्णं रजतं रूप्यं खर्जूरं श्वेतमित्यपि।
रीतिः स्त्रियामारकूटः न स्त्रियामथ ताम्रकम्॥
शुल्बं म्लेच्छमुखं द्व्यष्ट वरिष्टोदुम्बराणि च।
लोहोऽस्त्री शस्त्रकं तीक्ष्णं पिण्डं कालायसाऽयसी॥
अश्मसारोऽथ मण्डूरं सिंहाणमपि तन्मले।
सर्वं च तैजसं लौहं विकारस्त्वयसः कुशी॥
क्षारः काचोऽथ चपलः रसः सूतश्च पारदे।
गवलं माहिषं शृङ्गम् अभ्रकं गिरिजाऽमले॥
स्रोतोञ्जनं तु मौवीरं कापोताञ्जनयामुने।
तुत्थाञ्जनं शिखिग्रीवं वितुन्नकमयूरके॥
कर्परी दाविंकाक्कातोद्भवं तुत्थं रसाञ्जनम्।
रसगर्भं तार्क्ष्यशैलं गन्धाश्मनि तु गन्धिकः॥
सौगन्धिकश्च चक्षुष्या कुलाल्यौ तु कुलत्थिका।
रीतिपुष्पं पुष्पके तु पुष्पकं कुसुमाञ्जनम्॥
पिञ्जरं पीतनं तालमालं च हरितालके।
गैरेयमर्थ्यं गिरिजमश्मजं च शिलाजतु॥
वोलगन्धरसप्राण पिण्डगोपरसाः समाः।
डिण्डीरोऽब्धिकफः फेनः सिन्दूरं नागसंभवम्॥
नागसीसकयोगेष्ट वप्राणि त्रिषु पिञ्चटम्।
रङ्गवङ्गे अथ पिचुः तूलोऽथ कमलोत्तरम्॥
स्यात्कुसुम्भं वह्निशिखं महारजनमित्यपि।
मेषकम्बल ऊर्णायुः शशोर्णं शशलोमनि॥
मधु क्षौद्रं माक्षिकाऽऽदि मधूच्छिष्टं तु सिक्थकम्।
मनःशिला मनोगुप्ता मनोह्वा नागजिह्विका॥
नैपाली कुनटी गोला यवक्षारो यवाग्रजः।
पाक्योऽथ सर्जिकाक्षारः कापोतः सुखवर्चकः॥
सौवर्चलं स्याद्रुचकं त्वक्क्षीरी वंशरोचना।
शिग्रुजं श्वेतमारिचं मोरटं मूलमैक्षवम्॥
ग्रन्थिकं पिप्पलीमूलं चटिकाशिर इत्यपि।
गोलोमी भूतकेशो ना पत्राङ्गं रक्तचन्दनम्॥
त्रिकटु त्र्यूषणं व्योषं त्रिफला तु फलत्रिकम्॥
॥इति वैश्यवर्गः॥