॥ वाग् यज्ञेन कल्पताम् ॥

See Listen and Chant

These Chanting are to Inspire You for, to Practice and Learn to Chanting Bhagavat Stotram. The occasional drift while highlighting is negligible and unavoidable because of the chanting styles. Some Chanting are collected from Internet, for educative and guided chanting practice and not to infringe any Copyrights.

Ready... Play...

Amara Kosha Brahma Varga

Amara Kosha is one of the most popular Sanaskrit kosha which is by-heart memorized and this page will facilitate you to learn, listen, see and chant. There are about 25 Varga and each varga is shown in individual page.

॥ अमरकोषः ॥

॥अथ ब्रह्मवर्गः॥
संततिर्गोत्रजननकुलान्यभिजनान्वयौ।
वंशोऽन्ववायः संतानः वर्णाः स्युर्ब्राह्मणादयः॥
विप्रक्षत्रियविट् शूद्राः चातुर्वर्ण्यमिति स्मृतम्।
राजबीजी राजवंश्यः बीज्यस्तु कुलसंभवः॥
महाकुलकुलीनार्यसभ्यसज्जनसाधवः।
ब्रह्मचारी गृही वानप्रस्थो भिक्षुश्चतुष्टये॥
आश्रमोऽस्त्री द्विजात्यग्रजन्मभूदेववाडवाः।
विप्रश्च ब्राह्मणोऽसौ षट्कर्मा यागादिभिर्वृतः॥
विद्वान्विपश्चिद्दोषज्ञः सन्सुधीः कोविदो बुधः।
धीरो मनीषी ज्ञः प्राज्ञः संख्यावान्पण्डितः कविः॥
धीमान्सूरिः कृती कृष्टिः लब्धवर्णो विचक्षणः।
दूरदर्शी दीर्घदर्शी श्रोत्रियच्छान्दसौ समौ॥
मीमांसको जैमिनीये वेदान्ती ब्रह्मवादिनि।
वैशेषिके स्यादौलूक्यः सौगतः शून्यवादिनि॥
नैयायिकस्त्वक्षपादः स्यात्स्याद्वादिक आर्हकः।
चार्वाकलौकायतिकौ सत्कार्ये सांख्यकापिलौ॥
उपाध्यायोऽध्यापकोऽथ स्यान्निषेकादिकृद्गुरुः।
मन्त्रव्याख्याकृदाचार्य आदेष्टा त्वध्वरे व्रती॥
यष्टा च यजमानश्च स सोमवति दीक्षितः।
इज्याशीलो यायजूकः यज्वा तु विधिनेष्टवान्॥
स गीर्पतीष्टया स्थपतिः सोमपीथी तु सोमपाः।
सर्ववेदाः स येनेष्टः यागः सर्वस्वदक्षिणः॥
अनूचानः प्रवचने साङ्गेऽधीती गुरोस्तु यः।
लब्धानुज्ञः समावृत्तः सुत्वा त्वभिषवे कृते॥
छात्रान्तेवासिनौ शिष्ये शैक्षाः प्राथमकल्पिकाः।
एकब्रह्मव्रताचाराः मिथः सब्रह्मचारिणः॥
सतीर्थ्यास्त्वेकगुरवः श्चितवानग्निमग्निचित्।
पारम्पर्योपदेशे स्यात् ऐतिह्यमितिहाव्ययम्॥
उपज्ञा ज्ञानमाद्यं स्यात् ज्ञात्वारम्भ उपक्रमः।
यज्ञः सवोऽध्वरो यागः सप्ततन्तुर्मखः क्रतुः॥
पाठो होमश्चातिथीनां सपर्या तर्पणं बलिः।
एते पञ्चमहायज्ञा ब्रह्मयज्ञादिनामकाः॥
समज्या परिषद्गोष्ठी सभासमितिसंसदः।
आस्थानी क्लीबमास्थानं स्त्रीनपुंसकयोः सदः॥
प्राग्वंशः प्राग् हविर्गेहात्सदस्या विधिदर्शिनः।
सभासदः सभास्ताराः सभ्याः सामाजिकाश्च ते॥
अध्वर्यूद्गातृहोतारः यजुःसामर्ग्विदः क्रमात्।
आग्नीग्राद्या धनैर्वार्या ऋत्विजो याजकाश्च ते॥
वेदिः परिष्कृता भुमिः समे स्थण्डिलचत्वरे।
चषालो यूपकटकः कुम्बा सुगहना वृतिः॥
यूपाग्रं तर्म निर्मन्थ्य दारुणि त्वरणिर्द्वयोः।
दक्षिणाग्निर्गार्हपत्याहवनीयौ त्रयोऽग्नयः॥
अग्नित्रयमिदं त्रेता प्रणीतः संस्कृतोऽनलः।
समूह्यः परिचाय्योपचाय्यावग्नौ प्रयोगिणः॥
यो गार्हपत्यादानीय दक्षिणाग्निः प्रणीयते।
तस्मिन्नानाय्योऽथाग्नायी स्वाहा च हुतभुक्प्रिया॥
ऋक्सामिधेनी धाय्या च या स्यादग्निसमिन्धने।
गायत्रीप्रमुखं छन्दः हव्यपाके चरुः पुमान्॥
आमिक्षा सा श‍ृतोष्णे या क्षीरे स्याद्दधियोगतः।
धुवित्रं व्यजनं तद्यत् रचितं मृगचर्मणा॥
पृषदाज्यं सदध्याज्ये परमान्नं तु पायसम्।
हव्यकव्ये दैवपित्र्ये अन्ने पात्रं स्रुवादिकम्॥
ध्रुवोपभृज्जुहूर्ना तु स्रुवो भेदाः स्रुचः स्त्रियः।
उपाकृतः पशुरसौ योऽभिमन्त्र्य क्रतौ हतः॥
परम्पराकम् शमनं प्रोक्षणं च वधार्थकम्।
वाच्यलिङ्गाः प्रमीतोपसंपन्नप्रोक्षिता हते॥
सांनाय्यं हविरग्नौ तु हुतं त्रिषु वषट् कृतम्।
दीक्षान्तोऽवभृतो यज्ञे तत्कर्मार्हं तु यज्ञियम्॥
त्रिष्वथ क्रतुकर्मेष्टं पूर्तं खातादि कर्म यत्।
अमृतं विघसो यज्ञशेषभोजनशेषयोः॥
त्यागो विहापितं दानमुत्सर्जनविसर्जने।
विश्राणनं वितरणं स्पर्शनं प्रतिपादनम्॥
प्रादेशनं निर्वपणम् अपवर्जनमंहतिः।
म्र्तार्थं तदहे दानं त्रिषु स्यादौर्ध्वदेहिकम्॥
पितृदानं निवापः स्यात् श्राद्धं तत्कर्म शस्त्रतः।
अन्वाहार्यं मासिकेंऽशः अष्टमोऽह्नः कुतपोऽस्त्रियाम्॥
पर्येषणा परीष्टिश्च अन्वेषणा च गवेषणा।
सनिस्त्वध्येषणा याच्ञा अभिशस्तिर्याचनार्थना॥
षट्तु त्रिष्वर्घ्यमर्घार्थे पाद्यं पादाय वारिणि।
क्रमादातिथ्यातिथेये आतिथ्यर्थेऽत्र साधुनि॥
स्युरावेशिक आगन्तुः अतिथिर्ना गृहागते।
प्राघूर्णिकः प्राघूणकः चाभ्युत्थानं तु गौरवम्॥
पूजा नमस्यापचितिः सपर्यार्चार्हणाः समाः।
वरिवस्या तु शुश्रूषा परिचर्याप्युपासना॥
व्रज्याटाट्या पर्यटनं चर्या त्वीर्यापथे स्थितिः।
उपस्पर्शस्त्वाचमनम् अथ मौनमभाषणम्॥
प्राचेतसश्चादिकविः स्यान्मैत्रावरुणिश्च सः।
वाल्मीकश्चाथ गाधेयः विश्वामित्रश्च कौशिकः॥
व्यासो द्वैपायनः पाराशर्यः सत्यवतीसुतः।
आनुपूर्वी स्त्रियां वावृत्परिपाठी अनुक्रमः॥
पर्यायश्चातिपातस्तु स्यात्पर्यय उपात्ययः।
नियमो व्रतमस्त्री तत् चोपवासादि पुण्यकम्॥
औपवस्तं तूपवासः विवेकः पृथगात्मता।
स्याद्ब्रह्मवर्चसं वृत्ताध्ययनर्द्धिरथाञ्जलिः॥
पाठे ब्रह्माञ्जलिः पाठे विप्रुषो ब्रह्मबिन्दवः।
ध्यानयोगासने ब्रह्मासनं कल्पे विधिक्रमौ॥
मुख्यः स्यात्प्रथमः कल्पः अनुकल्पस्तु ततोऽधमः।
संस्कारपूर्वं ग्रहणं स्यादुपाकरणं श्रुतेः॥
समे तु पादग्रहणम् अभिवादनमित्युभे।
भिक्षुः परिव्राट् कर्मन्दी पाराशर्यपि मस्करी॥
तपस्वी तापसः पारिकाङ्क्षी वाचंयमो मुनिः।
तपःक्लेशसहो दान्तः वर्णिनो ब्रह्मचारिणः॥
ऋषयः सत्यवचसः स्नातकस्त्वाप्लुतो व्रती।
ये निर्जितेन्द्रियग्रामाः यतिनो यतयश्च ते॥
यः स्थण्डिले व्रतवशात् शेते स्थण्डिलशाय्यसौ।
स्थाण्डिलश्चाथ विरजः तमसः स्युर्द्वयातिगाः॥
पवित्रः प्रयतः पूतः पाखण्डाः सर्वलिङ्गिनः।
पालाशो दण्ड आषाढः व्रते राम्भस्तु वैणवः॥
अस्त्री कमण्डलुः कुण्डी व्रतिनामासनं बृषी।
अजिनं चर्म कृत्तिः स्त्री भैक्षं भिक्षाकदम्बकम्॥
स्वाध्यायः स्याज्जपः सुत्या आभिषवः सवनं च सा।
सर्वैनसामपध्वंसि जप्यं त्रिष्वघमर्षणम्॥
दर्शश्च पौर्णमासश्च यागौ पक्षान्तयोः पृथक्।
शरीरसाधनापेक्षं नित्यं यत्कर्म तद्यमः॥
नियमस्तु स यत्कर्म नित्यमागन्तुसाधनम्।
क्षौरम् तु भद्राकरणं मुण्डनं वपनं त्रिषु॥
उपवीतं ब्रह्मसूत्रं प्रोद्धृते दक्षिणे करे।
प्राचीनावीतमन्यस्मिन् निवीतं कण्ठलम्बितम्॥
अङ्गुल्यग्रे तीर्थं दैवं स्वल्पाङ्गुल्योर्मूले कायम्।
मध्येऽङ्गुष्ठाङ्गुल्योः पित्र्यं मूले त्वङ्गुष्ठस्य ब्राह्मम्॥
स्याद्ब्रह्मभूयं ब्रह्मत्वं ब्रह्मसायुज्यमित्यपि।
देवभूयादिकं तद्वत् कृच्छ्रं सान्तपनादिकम्॥
संन्यासवत्यनशने पुमान्प्रायोऽथ वीरहा।
नष्टाग्निः कुहना लोभात् मिथ्येर्यापथकल्पना॥
व्रात्यः संस्कारहीनः स्यात् अस्वाध्यायो निराकृतिः।
धर्मध्वजी लिङ्गवृत्तिः अवकीर्णी क्षतव्रतः॥
सुप्ते यस्मिन्नस्तमेति सुप्ते यस्मिन्नुदेति च।
अंशुमानभिनिर्मुक्त अभ्युदितौ च यथाक्रमम्॥
परिवेत्तानुजोऽनूढे ज्येष्ठे दारपरिग्रहात्।
परिवित्तिस्तु तज्जायान्विवाहोपयमौ समौ॥
तथा परिणयोद्वाहोपयामाः पाणिपीडनम्।
व्यवायो ग्राम्यधर्मो मैथुनं निधुवनं रतम्॥
त्रिवर्गोधर्मकामार्थैः चतुर्वर्गः समोक्षकैः।
सबलैस्तैश्चतुर्भद्रं जन्याः स्निग्धाः वरस्य ये॥
॥इति ब्रह्मवर्गः॥

नारदव्याससंवादः भगवद्गुणकर्मवर्णनस्य महत्त्वं देवर्षिनारदकर्तृकं स्वकीयपूर्वजन्मवृत्तान्ताकथनं च - The conversation between Maharshi Vyasa and Dhevarshi Narada, ...
महर्षेर्व्यासस्यापरितोषः तदाश्रमे देवर्शिनारदस्यागमनं च - Maharshi Vyasa's ashrama visited by Dhevarshi Narada. ...
भगवतचतुर्विंशत्यवताराणां संक्षेपतो वर्णनम् - A brief intro about the 24 various incarnation of God Vishnu. ...
सूतप्रतिवचनम् - भगवत्कथायाः श्रवणकीर्तनयोर्निःश्रेयसकरत्वं भवगवद्भक्तेर्माहात्म्यवर्णनं च - The answer given by Suta Maharishi - The ...
Loading story text...
https://www.krishnadhevalipi.org/wp-content/uploads/stories/txt/ra_story_words1916.txt
https://www.krishnadhevalipi.org/wp-content/uploads/stories/json/ra_story1916.json

Details of update

last updated - 23rd May, 2026