॥ वाग् यज्ञेन कल्पताम् ॥

See Listen and Chant

These Chanting are to Inspire You for, to Practice and Learn to Chanting Bhagavat Stotram. The occasional drift while highlighting is negligible and unavoidable because of the chanting styles. Some Chanting are collected from Internet, for educative and guided chanting practice and not to infringe any Copyrights.

Ready... Play...

Amara Kosha Vaari Varga

Amara Kosha is one of the most popular Sanaskrit kosha which is by-heart memorized and this page will facilitate you to learn, listen, see and chant. There are about 25 Varga and each varga is shown in individual page.

॥ अमरकोषः ॥

॥अथ वारिवर्गः॥
समुद्रोऽब्धिरकूपारः पारावारः सरित्पतिः।
उदन्वानुदधिः सिन्धुः सरस्वान्सागरोऽर्णवः॥
रत्नाकरो जलनिधिः यादःपतिरपाम्पतिः।
तस्य प्रभेदाः क्षीरोदः लवणोदस्तथाऽपरे॥
आपः स्त्री भूम्नि वार्वारि सलिलं कमलं जलम्।
पयः कीलालममृतं जीवनं भुवनं वनम्॥
कबन्धमुदकं पाथः पुष्करं सर्वतोमुखम्।
अम्भोऽर्णस्तोयपानीयनीरक्षीराम्बुशम्बरम्॥
मेघपुष्पं घनरसः त्रिषु द्वे आप्यमम्मयम्।
भङ्गस्तरङ्ग ऊर्मिर्वा स्त्रियां वीचिरथोर्मिषु॥
महत्सूल्लोलकल्लोलौ स्यादावर्तोऽम्भसां भ्रमः।
पृषन्तिबिन्दुपृषताः पुमांसो विप्रुषः स्त्रियाम्॥
चक्राणि पुटभेदाः स्युः भ्रमाश्च जलनिर्गमाः।
कूलं रोधश्च तीरं च प्रतीरं च तटं त्रिषु॥
पारावारे परार्वाची तीरे पात्रं तदन्तरम्।
द्वीपोऽस्त्रियामन्तरीपं यदन्तर्वारिणस्तटम्॥
तोयोत्थितं तत्पुलिनं सैकतं सिकतामयम्।
निषद्वरस्तु जम्बालः पङ्कोऽस्त्री शादकर्दमौ॥
जलोच्छ्वासाः परीवाहाः कूपकास्तु विदारकाः।
नाव्यं त्रिलिङ्गं नौतार्ये स्त्रियां नौस्तरणिस्तरिः॥
उडुपं तु प्लवः कोलः स्रोतोऽम्बुसरणं स्वतः।
आतरस्तरपण्यं स्याद् द्रोणी काष्ठाम्बुवाहिनी॥
सांयात्रिकः पोतवणिक् कर्णधारस्तु नाविकः।
नियामकाः पोतवाहाः कूपको गुणवृक्षकः॥
नौकादण्डः क्षेपणी स्याद् अरित्रं केनिपातकः।
अभ्रिः स्त्री काष्ठकुद्दालः सेकपात्रं तु सेचनम्॥
क्लीबेऽर्धनावं नावोऽर्धेऽतीतनौकेऽतिनु त्रिषु।
त्रिष्वागाधात्प्रसन्नोऽच्छः कलुषोऽनच्छ आविलः॥
निम्नं गभीरं गम्भीरम् उत्तानं तद्विपर्यये।
अगाधमतलस्पर्शे कैवर्ते दाशधीवरौ॥
आनायः पुंसि जालं स्यात् शणसूत्रं पवित्रकम्।
मत्स्याधानी कुवेणी स्याद् बडिशं मत्स्यवेधनम्॥
पृथुरोमा झषो मत्स्यः मीनो वैसारिणोऽण्डजः।
विसारः शकुली चाथ गडकः शकुलार्भकः॥
सहस्रदंष्ट्रः पाठीनः उलूपी शिशुकः समौ।
नलमीनश्चिलिचिमः प्रोष्ठी तु शफरी द्वयोः॥
क्षुद्राण्डमत्स्यसंघातः पोताधानमथो झषाः।
रोहितो मद्गुरः शालः राजीवः शकुलस्तिमिः॥
तिमिङ्गिलादयश्चाथ यादांसि जलजन्तवः।
तद्भेदाः शिशुमारोद्रशङ्कवो मकरादयः॥
स्यात्कुलीरः कर्कटकः कूर्मे कमठकच्छपौ।
ग्राहोऽवहारो नक्रस्तु कुम्भीरोऽथ महीलता॥
गण्डूपदः किञ्चुलकः निहाका गोधिका समे।
रक्तपा तु जलौकायां स्त्रियां भूम्नि जलौकसः॥
मुक्तास्फोटः स्त्रियां शुक्तिः शङ्खः स्यात्कम्बुरस्त्रियौ।
क्षुद्रशङ्खाः शङ्खनखाः शम्बूका जलशुक्तयः॥
भेके मण्डूकवर्षाभूशालूरप्लवदर्दुराः।
शिली गण्डूपदी भेकी वर्षाभ्वी कमठी डुलिः॥
मद्गुरस्य प्रिया श‍ृङ्गी दुर्नामा दीर्घकोशिका।
जलाशया जलाधारः तत्रागाधजलो ह्रदः॥
आहावस्तु निपानं स्याद् उपकूपजलाशये।
पुंस्येवाऽन्धुः प्रहिः कूपः उदपानं तु पुंसि वा॥
नेमिस्त्रिकास्य वीनाहः मुखबन्धनमस्य यत्।
पुष्करिण्यां तु खातं स्याद् अखातं देवखातकम्॥
पद्माकरस्तडागोऽस्त्री कासारः सरसी सरः।
वेशन्तः पल्वलं चाल्पसरो वापी तु दीर्घिका॥
खेयं तु परिखाधारः त्वम्भसां यत्र धारणम्।
स्यादालवालमावालमावापोऽथ नदी सरित्॥
तरङ्गिणी शैवलिनी तटिनी ह्रादिनी धुनी।
स्रोतस्विनी द्वीपवती स्रवन्ती निम्नगाऽपगा॥
कूलङ्कषा निर्झरिणी रोधोवक्रा सरस्वती।
गङ्गा विष्णुपदी जह्नुतनया सुरनिम्नगा॥
भागीरथी त्रिपथगा त्रिस्रोता भीष्मसूरपि।
कालिन्दी सूर्यतनया यमुना शमनस्वसा॥
रेवा तु नर्मदा सोमोद्भवा मेकलकन्यका।
करतोया सदानीरा बाहुदा सैतवाहिनी॥
शतद्रुस्तु शुतुद्रिः स्याद् विपाशा तु विपाट् स्त्रियाम्।
शोणो हिरण्यवाहः स्यात् कुल्याऽल्पा कृत्रिमा सरित्॥
शरावती वेत्रवती चन्द्रभागा सरस्वती।
कावेरी सरितोऽन्याश्च सम्भेदः सिन्धुसङ्गमः॥
द्वयोः प्रणाली पयसः पदव्यां त्रिषु तूत्तरौ।
देविकायां सरय्वां च भवे दाविकसारवौ॥
सौगन्धिकं तु कह्लारं हल्लकं रक्तसंध्यकम्।
स्यादुत्पलं कुवलयम् अथ नीलाम्बुजन्म च॥
इन्दीवरं च नीलेऽस्मिन् सिते कुमुदकैरवे।
शालूकमेषां कन्दः स्याद् वारिपर्णी तु कुम्भिका॥
जलनीली तु शेवालं शैवलोऽथ कुमुद्वती।
कुमुदिन्यां नलिन्यां तु बिसिनीपद्मिनीमुखाः॥
वा पुंसि पद्मं नलिनम् अरविन्दं महोत्पलम्।
सहस्रपत्रं कमलं शतपत्रं कुशेशयम्॥
पङ्केरुहं तामरसं सारसं सरसीरुहम्।
बिसप्रसूनराजीवपुष्कराऽम्भोरुहाणि च॥
पुण्डरीकं सिताम्भोजमथ रक्तसरोरुहे।
रक्तोत्पलं कोकनदं नालो नालमथाऽस्त्रियाम्॥
मृणालं बिसमब्जादिकदम्बे षण्डमस्त्रियाम्।
करहाटः शिफाकन्दः किञ्जल्कः केसरोऽस्त्रियाम्॥
संवर्तिका नवदलं बीजकोशो वराटकः॥
॥इति वारिवर्गः॥
उक्तं स्वर्व्योमदिक्कालधीशब्दादि सनाट्यकम्।
पातालभोगिनरकं वारि चैषां च सङ्गतम्॥
॥इत्यमरसिंहकृतौ नामलिङ्गानुशासने।
स्वरादिकाण्डः प्रथमः साङ्ग एव समर्थितः॥

प्रियव्रतचरित्रम् । The historical story of Priyavrata. ...
गृहात्प्रव्रजितानां प्रचेतसां नारदोपदेशान्मुक्तिः । Prachetas who left home, obtained liberation from the discourse of Narada ...
दशप्रचेतसां भगवद्दर्शानं वरप्राप्तिश्च तेभ्यो मारिषागर्भाद्दक्षोत्पत्तिश्च । Sighting of Lord Vishnu by Dashaprachetas and getting boon, ...
पुरञ्जनोपाख्यानस्य तात्पर्यं नारदोपदेशः प्राचीनबर्हिषो मुक्तिश्च । The inner meaniing of Puranjana discourse and advise of ...
Loading story text...
https://www.krishnadhevalipi.org/wp-content/uploads/stories/txt/ra_story_words1909.txt
https://www.krishnadhevalipi.org/wp-content/uploads/stories/json/ra_story1909.json

Details of update

last updated - 23rd May, 2026