श्रीनिवासपुरराज्यस्य आस्थाने ज्योतिषिकपदवी काचित् रिक्ता आसीत्। समर्थः ज्योतिषिकः अत्र नियोजनीयः इति महाराजस्य इच्छा। अतः राजा देशे स्थितान् सर्वान् ज्योतिषिकान् स्वकीयम् आस्थानं प्रति आहूतवान्। परीक्षानन्तरम् आगतेषु पञ्च जनाः ज्योतिःशास्त्रे पण्डिताः इति सिद्धम्। राजा तान् आहूय पृष्टवान् भवता जन्मकुण्डल्या आस्थानज्योतिषिकपदव्याः प्राप्तेः योगः अस्ति वा इति। तादृशः योगः अस्ति इति विश्वस्य एव किल वयम् अत्र आगतवन्तः इति पृष्टवन्तः ज्योतिषिकाः।
इदानीं राजा सन्देहे पतितः। एतेषु पञ्चसु अहम् एकम् एव आस्थानज्योतिषिकपदव्यां नियोक्ष्यामि। तदानीम् अवशिष्टानां चतुर्णां वचनं मिथ्या भविष्यति। तेन सिध्यति यत् ते चत्वारः ज्योतिषे निपुणाः न इति। तर्हि एतेषु समर्थः कः स्यात् इति बहुधा चिन्तितवान् राजा। मन्त्री राज्ञः समस्यां ज्ञात्वा उक्तवान् एतेषु कञ्चित् एकं नियोजयतु भवान्। अनन्तरं भवतः सन्देहस्य परिहारः कथयिष्यामि इति।
राजा रामशास्त्रिनामकम् आस्थानज्योतिषिकस्थाने नियोजितवान्। एतं विषयं मन्त्रिणे सूचितवान् च। तदा मन्त्री उक्तवान् महाराज एषः रामशास्त्री एव ज्योतिःशास्त्रे महापण्डितः इति। केन आधारेण भवान् एवं वदति इति पृष्टवान् राजा। महाराज सत्यं वक्तव्यं चेत् पञ्चानां पाण्डित्यम् अपि समानम् एव। किन्तु रामशास्त्रिणः तु अदृष्टबलम् अस्ति। यतः सः एव किल आस्थानज्योतिषिकपदवीं प्राप्तवान्। अतः एतस्य सामर्थ्यम् अधिकम् इति अहम् उक्तवान् इति विवरणं दत्तवान् मन्त्री।