देवराजः कदाचित् कार्यनिमित्तं नगरं गतवान्। कार्याणि समाप्य प्रत्यागच्छन् सः कस्यचित् आपणस्य पुरतः स्थितवान्। स च राङ्कवानाम् आपणः। आपाणस्वामी देवराजम् आदरातिथ्येन अन्तः आहूय भवान् क्रीणातु मा वा क्रीणातु। दर्शने का हानिः। एषः उत्तमः राङ्कवः। मूल्यम् अपि न अधिकम्। यदि भवान् एतं धरति तर्हि जनाः भवन्तं भूस्वामिनं चिन्तयन्ति। एकवारं धृत्वा किञ्चिद्दूरं गत्वा आगच्छतु तावत् इति उक्तवान्। देवराजाय राङ्कवं धारितवान् च। देवराजः दाक्षिण्यम् अनुभवन् तं धृतावान्।
मार्गे किञ्चिद्दूरं गत्वा प्रत्यागतवान्। तत्समये देवराजस्य परिचयम् अप्राप्तवान् इव आपणिकः उक्तवान् उत्तमं राङ्कवं धृतवान् भवान् निश्चयेन भूस्वामी एव कश्चित् भवेत्। सौभाग्येन अत्र उपस्थितः भवान्। आगच्छतु आगच्छतु इति। आपणिकस्य वाक्चातुर्येण सन्तुष्टः देवराजः धनं दत्त्वा राङ्कवं क्रीतवान्।