कृष्णपुरे भद्रेश्वरः नाम प्रसिद्धः ज्योतिषिकः आसीत्। सः हस्तं दृष्ट्वा भविष्यफलं वदति स्म। नष्टानि वस्तूनि कुत्र सन्ति इत्यपि सः ज्योतिष्यबलेन वदति स्म।
एकदा सः कार्यनिमित्तं ग्रामात् बहिः गतावान्। महान् आतपः आसीत्। अतः सः छत्रम् अपि नीतवान्। प्रत्यागमनसमये विश्रान्त्यर्थं सः मार्गपार्श्वे स्थितायाः धर्मशालायाः पुरतः उपविष्टवान्। छत्रं स्वपार्श्वे स्थापितवान् च। श्रान्तिकारणतः सः उपविष्टः एव निद्रावस्थां प्राप्तवान्। यदा जागरणं जातं तदा पार्श्वे छत्रं न आसीत्। भद्रेश्वरः साक्षात् ग्रामाधिकारिणः समीपं गत्वा छत्रं कश्चित् चोरितवान् इति निवेदितवान्।
भवान् तु महाज्योतिषिकः। उपविष्टः एव किं वस्तु कुत्र अस्ति इति ज्ञातुं भवान् समर्थः। एवम् स्थिते छत्रस्य अन्वेषणं किं कष्टकरं वा भवतः। चोरः कुत्र अस्ति इति ज्योतिष्यबलेन पश्यतु। अहं तं चोरं दण्डयामि इति हसन् उक्तवान् ग्रामाधिकारी।
तथैव कर्तुं शक्नोमि। किन्तु एवम् एकवारं वक्तुम् अहं रुप्यकद्वयं स्वीकरोमि। भवान् यदि रूप्यकद्वयं ददाति तर्हि एतत्क्षणे एव ज्योतिष्यबलेन चोरः कुत्र गतः स्यात् इति वदामि इति उक्तवान् भद्रेश्वरः। ग्रामाधिकारी लज्जया मौनम् उपविष्टवान्।