बहुपूर्वं विद्यानगरे चन्द्रकान्तः नाम कश्चन युवकः आसीत्। सः राजास्थाने उद्योगं प्राप्तुं प्रयतमानाः आसीत्। आस्थानस्य विषयं जानन् कश्चित् तम् उक्तवान् राजधान्यां जिह्वेन्द्रनाथः नाम कश्चित् अस्ति। सः पक्षिप्रियः इति श्रूयते। तं तोषयन् उद्योगप्राप्त्यर्थं प्रयत्नं करोतु भवान् इति। विचारणात् चन्द्रकान्तः ज्ञातवान् यत् जिह्वेन्द्रनाथस्य जन्मदिनोत्सवः आसन्नः इति। अतः सः एकम् उत्तमं शुकं क्रीतवान्। जिह्वेन्द्रनाथस्य जन्मदिनोत्सवदिने राजधानीं गत्वा हिह्वेन्द्रनाथं दृष्ट्वा तस्मै शुकम् उपायनरूपेण अर्पितवान्। जन्मदिनस्य हार्दाः शुभाशायाः इति अवदत् शुकः। जिह्वेन्द्रनाथः शुकम् आश्चर्येण पश्यन् धन्यवादाः इति उक्तवान्। तदा शुकः अपि धन्यवादाः इति प्रतिवचनम् अवदत्।
चन्द्रकान्तः स्वस्य उद्योगप्राप्तीच्छां जिह्वेन्द्रनाथं निवेदितवान्। सप्ताहानन्तरं पुनः आगत्य मां पश्यतु इति उक्तवान् जिह्वेन्द्रनाथः। निश्चिते दिने जिह्वेन्द्रनाथं पुनः दृष्टवान् चन्द्रकान्तः। मन्दहासपूर्वकं वार्तालापं कुर्वन् जिह्वेन्द्रनाथः आगामिसोमवासरे आगत्य उद्योगिपदम् अलङ्करोतु इति उक्तवान्। महान् अनुग्रहः कृतः तत्र भवता इति सन्तोषेण विनयेन च उक्त्वा चन्द्रकान्तः जिह्वेन्द्रनाथं पृष्टवान् मया उपायनीकृतः शुकः भवते अरोचत खलु इति। अथ किम्। पक्षिषु शुकस्य मांसे मम विशेषरुचिः। अतः यस्मिन् दिने भवता शुकः दत्तः तस्मिन् एव दिने तदीयेन मांसेन व्यञ्जनं कारयित्वा भक्षितवान् इति उक्तवान् जिह्वेन्द्रनाथः।