॥ वाग् यज्ञेन कल्पताम् ॥

Read Aloud Sanskrit

As I read story, you can choose your language script ... Select a part and read aloud also ... Enjoy learning Sanskrit ...
Ready... Play...

Love to Parrot

A young person Chandrakanta was in need of a job, and someone told him that meet the person Jihvendranatha in the kingdom, who is very font of birds. You gift him some bird and make him happy, so that you can get some job. What Jihvendranatha did with the bird is the funny part of life …

शुकप्रियता

You can watch this Sanskrit Story Explanation in the Video below.

बहुपूर्वं विद्यानगरे चन्द्रकान्तः नाम कश्चन युवकः आसीत्। सः राजास्थाने उद्योगं प्राप्तुं प्रयतमानाः आसीत्। आस्थानस्य विषयं जानन् कश्चित् तम् उक्तवान् राजधान्यां जिह्वेन्द्रनाथः नाम कश्चित् अस्ति। सः पक्षिप्रियः इति श्रूयते। तं तोषयन् उद्योगप्राप्त्यर्थं प्रयत्नं करोतु भवान् इति। विचारणात् चन्द्रकान्तः ज्ञातवान् यत् जिह्वेन्द्रनाथस्य जन्मदिनोत्सवः आसन्नः इति। अतः सः एकम् उत्तमं शुकं क्रीतवान्। जिह्वेन्द्रनाथस्य जन्मदिनोत्सवदिने राजधानीं गत्वा हिह्वेन्द्रनाथं दृष्ट्वा तस्मै शुकम् उपायनरूपेण अर्पितवान्। जन्मदिनस्य हार्दाः शुभाशायाः इति अवदत् शुकः। जिह्वेन्द्रनाथः शुकम् आश्चर्येण पश्यन् धन्यवादाः इति उक्तवान्। तदा शुकः अपि धन्यवादाः इति प्रतिवचनम् अवदत्।

चन्द्रकान्तः स्वस्य उद्योगप्राप्तीच्छां जिह्वेन्द्रनाथं निवेदितवान्। सप्ताहानन्तरं पुनः आगत्य मां पश्यतु इति उक्तवान् जिह्वेन्द्रनाथः। निश्चिते दिने जिह्वेन्द्रनाथं पुनः दृष्टवान् चन्द्रकान्तः। मन्दहासपूर्वकं वार्तालापं कुर्वन् जिह्वेन्द्रनाथः आगामिसोमवासरे आगत्य उद्योगिपदम् अलङ्करोतु इति उक्तवान्। महान् अनुग्रहः कृतः तत्र भवता इति सन्तोषेण विनयेन च उक्त्वा चन्द्रकान्तः जिह्वेन्द्रनाथं पृष्टवान् मया उपायनीकृतः शुकः भवते अरोचत खलु इति। अथ किम्। पक्षिषु शुकस्य मांसे मम विशेषरुचिः। अतः यस्मिन् दिने भवता शुकः दत्तः तस्मिन् एव दिने तदीयेन मांसेन व्यञ्जनं कारयित्वा भक्षितवान् इति उक्तवान् जिह्वेन्द्रनाथः।

Source:
Sanskrit Chandamama
Month:
December
Year:
1993
An astrologer went out on some works from his village and while returning after completing ...
A king, once thought to fill up the vacant post of assembly astrologer. So, he ...
We normally encounter a critic at every gathering, and they criticize every act of others. ...
A person returning from city to home after completing his works, casually stopped in front ...
Loading story text...
https://www.krishnadhevalipi.org/wp-content/uploads/stories/txt/ra_story_words012.txt
https://www.krishnadhevalipi.org/wp-content/uploads/stories/json/ra_story012.json

Details of update

last updated on - 22nd April, 2026

Be Informed!! Translation may have contextual mistakes!

Ready

बहुपूर्वं विद्यानगरे चन्द्रकान्तः नाम कश्चन युवकः आसीत्। सः राजास्थाने उद्योगं प्राप्तुं प्रयतमानाः आसीत्। आस्थानस्य विषयं जानन् कश्चित् तम् उक्तवान् राजधान्यां जिह्वेन्द्रनाथः नाम कश्चित् अस्ति। सः पक्षिप्रियः इति श्रूयते। तं तोषयन् उद्योगप्राप्त्यर्थं प्रयत्नं करोतु भवान् इति। विचारणात् चन्द्रकान्तः ज्ञातवान् यत् जिह्वेन्द्रनाथस्य जन्मदिनोत्सवः आसन्नः इति। अतः सः एकम् उत्तमं शुकं क्रीतवान्। जिह्वेन्द्रनाथस्य जन्मदिनोत्सवदिने राजधानीं गत्वा हिह्वेन्द्रनाथं दृष्ट्वा तस्मै शुकम् उपायनरूपेण अर्पितवान्। जन्मदिनस्य हार्दाः शुभाशायाः इति अवदत् शुकः। जिह्वेन्द्रनाथः शुकम् आश्चर्येण पश्यन् धन्यवादाः इति उक्तवान्। तदा शुकः अपि धन्यवादाः इति प्रतिवचनम् अवदत्।

चन्द्रकान्तः स्वस्य उद्योगप्राप्तीच्छां जिह्वेन्द्रनाथं निवेदितवान्। सप्ताहानन्तरं पुनः आगत्य मां पश्यतु इति उक्तवान् जिह्वेन्द्रनाथः। निश्चिते दिने जिह्वेन्द्रनाथं पुनः दृष्टवान् चन्द्रकान्तः। मन्दहासपूर्वकं वार्तालापं कुर्वन् जिह्वेन्द्रनाथः आगामिसोमवासरे आगत्य उद्योगिपदम् अलङ्करोतु इति उक्तवान्। महान् अनुग्रहः कृतः तत्र भवता इति सन्तोषेण विनयेन च उक्त्वा चन्द्रकान्तः जिह्वेन्द्रनाथं पृष्टवान् मया उपायनीकृतः शुकः भवते अरोचत खलु इति। अथ किम्। पक्षिषु शुकस्य मांसे मम विशेषरुचिः। अतः यस्मिन् दिने भवता शुकः दत्तः तस्मिन् एव दिने तदीयेन मांसेन व्यञ्जनं कारयित्वा भक्षितवान् इति उक्तवान् जिह्वेन्द्रनाथः।

Translation will appear here. Select a language to translate to …