॥ वाग् यज्ञेन कल्पताम् ॥

Read Aloud Sanskrit

As I read story, you can choose your language script ... Select a part and read aloud also ... Enjoy learning Sanskrit ...
Ready... Play...

Helper of Society

A person Ramana in a village started collecting money and helping affected people during a cyclonic disaster. All villagers helped him by donating their best and one rich person, Dhanagupta did not give, rather he insulted Ramana. Aggrieved by this Ramana wanted to revenge and learnt a lesson …

परोपकारी

You can watch this Sanskrit Story Explanation in the Video below.

नारायणकूटं नाम ग्रामः। तत्र रमणः नाम परोपकारी वसति स्म। एकदा महत्या वृष्ट्या चण्डमारुतेन च वृक्षाः पतिताः गृहाणि शिथिलानि जातानि। बहवः निर्गतिकाः अभवन्‌। रमणः गृहं गृहम्‌ अटित्वा धनं सङ्गृहीतवान्‌। निर्गतिकानां कृते तेन धनेन कुटीरान्‌ निर्माप्य दत्तवान्‌। एतत्‌ पुण्यकार्याथं ग्रामीणाः सर्वे धनं दत्तवन्तः। किन्तु धनगुप्तः नाम धनिकः एकं नाणकम्‌ अपि न दत्तवान्‌। अधिकदानं ये कृतवन्तः तेषां नामानि रमणः सर्वत्र उद्घोषयति स्म। धनगुप्तः रमणम्‌ आहूय भर्त्सयित्वा उक्तवान्‌ भोः महोपकारिन् किमर्थं दातॄणां नामानि सदा रटति। येषां गृहं धनं च नष्टं तेषु कश्चित्‌ अपि भिक्षां न याचितवान्‌। अत्र रहस्यं किं भवान्‌ जानाति। श्रुणोतु। भिक्षां याचितुम्‌ अस्मिन्‌ ग्रामे कोऽपि न इच्छति। भवादृशाः एव परोपकारव्याजेन धनसङ्ग्रहं कुर्वन्ति। सङ्गृहीते धने किञ्चन अंशं भवान्‌ गिलति इत्यपि अहं ज्ञातवान्‌। अतः भवादृशस्य वञ्चकस्य कृते अहं सहकारं कर्तुं न सिद्धः।

ग्रामे सर्वे रमणं प्रशंसन्ति स्म। तथापि तस्य न तृप्तिः। धनगुप्तः अपमानं कृतवान्‌। अतः यथाकथञ्चित्‌ प्रतीकारः करणीयः एव इति तस्य सङ्कल्पः। एकदा रमणः धनगुप्तस्य गृहं गत्वा उक्तवान्‌ भवान्‌ मां वञ्चकं मन्यते। किन्तु ग्रामीणाः सर्वे मां प्रशंसन्ति। ग्रामे सामान्यजनाः अपि कुटीरनिर्माणार्थं धनं दत्तवन्तः। भवान्‌ एकः एव एकं नाणकम्‌ अपि न दत्तवान्। धनगुप्तः कोपेन रमणं प्रति उक्तवान् ऋणार्थं बहव: जनाः अत्र आगच्छन्ति। मम सकाशतः ऋणं स्वीकृत्य मम प्रशंसां कृत्वा ते गच्छन्ति। मयि यावत्कालं धनं भवति तावत्कालं जनाः प्रशंसन्ति एव। भवादृशाः निर्गतिकाः धनिकैः दत्तं धनं सङ्गृह्य दरिद्राणां कृते दत्वा महान्‌ परोपकारी इति कीर्तिं सम्पादयन्ति। मादृशस्य धनिकस्य कृते एतादृशी कीर्तिः मास्तु इति अवमानं कृत्वा रमणं प्रेषितवान्‌।

रमणः अतीव कुमितः दुःखितः च अभवत्‌। प्रवृत्तं सर्वं वृत्तान्तं श्रुत्वा रमणस्य पिता उक्तवान्‌ वत्स धनगुप्तः सदा बहुगर्ह्यं वदति अन्यान्‌ निन्दति च। सार्वजनिककार्यार्थं प्रवृत्ताः प्रशंसया सन्तुष्टाः निन्दया खिन्नाः च न भवन्ति। अतः धनगुप्तस्य विषये मा चिन्तयतु। पितुः उपदेशेन रमणस्प कोपः न शान्तः। सः मित्राणां समीपे स्वीयम्‌ अपमानं निवेदितवान्‌। ते अपि उक्तवन्तः धनगुप्तस्य वचनमात्रेण भवान्‌ वञ्चकः मूर्खः वा न भवति। तादृशानि वचनानि श्रवणसमनन्तरम्‌ एव विस्मरणीयानि इति। रमणसकाशतः उपकृताः अपि तं प्रति एवम्‌ उक्तवन्तः भवान्‌ देवसदृशः मानवः। अतः एव भर्त्सनानि श्रुत्वा अपि अस्माकं कृते उपकारं करोति इति। एवं सर्वे रमणं प्रशंसितवन्तः एव न तु धनगुष्तस्य प्रवृत्तिं खण्डितबन्तः।

केचित्‌ ग्रामवृद्धाः रमणस्य धनगुप्तस्य च मध्ये प्रवृत्तं वृत्तान्तं श्रुतवन्तः। ते ग्रामवेदिकायां रमणम्‌ आहूय उपदिष्टवन्तः वत्स धनगुप्तः वाचाटः सदा कुत्सितानि वचनानि एव रटति। एतदर्थं भवान्‌ मा चिन्तयतु। यदि शुनकः भषति तेन लोकस्य को वा लाभः का वा हानिः। सर्वेषां समानाभिप्रायं ज्ञात्वा धनगुप्तस्य विषये रमणः स्वयं चिन्तितवान्‌। धनगुप्तः महान्‌ धनिकः। ग्रामीणानां तेन सह सम्बन्धः अस्ति एव। अतः एव तस्मै उपदेशं कर्तुं सर्वे भीताः। किन्तु धनगुप्तस्य विषये प्रतीकारः करणीयः एव इति।

एकदा सुदूरतः ग्रामतः कश्चित्‌ मल्लः परोपकारिणः रमणस्य गृहम्‌ आगतवान्‌ उक्तवान्‌ च अहं मल्लविद्यानिपुणः। एतस्मिन्‌ ग्रामे मल्लविद्यां प्रदर्श्य ग्रामीणान्‌ सन्तोषयामि। ग्रामीणाः आहत्य शतं दीनारान्‌ ददतु तेन बहु सन्तुष्टः भविष्यामि। कृपया एतदर्थं साहाय्यं करोतु। धनगुप्तस्य कृते प्रतीकारं कर्तुम्‌ एषः एव समुचितः समयः इति रमणः चिन्तितवान्‌। मल्लं प्रति उक्तवान्‌ च एतस्मिन्‌ ग्रामे धनगुप्तः नाम महान्‌ धनिकः अस्ति। सः मल्लविद्यां बहु आद्रियते। तस्य समीपं गत्वा प्रार्थनां करोतु। सः अवश्यं साहाव्यं करिष्यति एव। मल्लः धनगुप्तस्य गृहं गत्वा धनगुप्तं प्रार्थितवान्‌ गुप्तमहाशय अहं मल्लः। मल्लविद्यायां भवतः अतीव आदरः इति श्रुतवान्‌। मम मल्लविद्याप्रदर्शनार्थं कृपया व्यवस्थां करोतु। पारितोषिकरूपेण शतं दीनाराः यदि दीयन्ते अहं बहु सन्तुष्ट: भवामि इति।

मल्लस्य वचनं श्रुत्वा क्रुद्धः धनगुप्तः मल्लं तिरस्कुर्वन्‌ उक्तवान् भोः स्वशरीरं केवलं स्थूलीकुर्वन्‌ चत्वरवृषभः इव अटति। किं लज्जा न भवति। भवादृशान्‌ दृष्ट्वा मम मनः जुगुष्सितं भवति। परस्परकुट्टनं विना मल्लविद्यायां किम्‌ अस्ति। यथा आगतः तथा एव प्रतिगच्छतु इति। एवं धनगुप्तेन अपमानितः मल्लः क्रोधेन दन्तान्‌ निष्पीडयन्‌ रमणस्य गृहम्‌ आगत्य उक्तवान्‌। भोः किमर्थम् असत्यं वदति। धनगुप्तः मल्लविद्यां तिरस्करोति। सः मम अपमानं कृतवान्‌। भवतः कारणात्‌ इदंप्रथमतया अहम्‌ अपमानम्‌ अनुभूतवान्‌।
महाशय धनगुप्तः भवन्तं यदा तिरस्कृतवान्‌ भर्त्सितवान्‌ च तदा भवान्‌ किं तूष्णीं स्थितवान्‌। अये मूढ भवतः मल्लविद्या तस्मिन्‌ किञ्चित्‌ प्रदर्शनीया आसीत्‌। इदानीम्‌ अपि कालः न अतिक्रान्तः इति रमणः सपरिहासम्‌ उक्तवान्‌। सत्यं मल्लविद्याम्‌ इदानीम्‌ एव प्रदर्शयामि इति उक्ता मल्लः पञ्चषैः प्रहारैः कुट्टितवान्‌। प्रहारवेदनया रुदन्‌ रमणः उक्तवान्‌ दुष्टः धनगुप्तः भवन्तम्‌ अपमानितवान्‌। किन्तु भवान्‌ मां प्रहृतवान्। किम्‌ एतत्‌ न्याव्यम्‌।

मवतः धनगुप्तस्य च मध्ये विद्वेषः स्यात्‌। अतः एव धनगुप्तं कुट्टयितुं भवान्‌ मां प्रोत्साहयति। मम अपमानस्य भवान्‌ एव कारणम्। अतः भवन्तम्‌ एवं कुट्टितवान् इति उक्त्वा मल्लः निर्गतवान्‌। प्रवृत्तं सर्वं वृत्तान्तं रमणस्य पिता ज्ञातवान्‌। सः रमणम्‌ आहूय वत्स धनगुप्तः दुष्टः। धनगुप्तेन सह व्यवहारः मास्तु। परोपकाराय प्रवृत्ताः मानापयानयोः तुल्याः  भवन्ति। अतः कर्तव्यबुद्ध्या कार्ये प्रवृत्तः भवतु इति उपदिष्टवान्‌। एवं पित्रा उपदिष्टः रमणः ततः परं मनसा अपि धनगुप्तं न स्मृतवान्‌।

Source:
Sanskrit Chandamama
Month:
May
Year:
1984
A young farmer of a village feels, he has not achieved anything great compared to ...
An young king suddenly got a fear that he may die very shortly. The minister ...
A person came to a village to settle down and in short time, he bought ...
Loading story text...
https://www.krishnadhevalipi.org/wp-content/uploads/stories/txt/ra_story_words015.txt
https://www.krishnadhevalipi.org/wp-content/uploads/stories/json/ra_story015.json

Details of update

last updated on - 22nd April, 2026

Be Informed!! Translation may have contextual mistakes!

Ready

नारायणकूटं नाम ग्रामः। तत्र रमणः नाम परोपकारी वसति स्म। एकदा महत्या वृष्ट्या चण्डमारुतेन च वृक्षाः पतिताः गृहाणि शिथिलानि जातानि। बहवः निर्गतिकाः अभवन्‌। रमणः गृहं गृहम्‌ अटित्वा धनं सङ्गृहीतवान्‌। निर्गतिकानां कृते तेन धनेन कुटीरान्‌ निर्माप्य दत्तवान्‌। एतत्‌ पुण्यकार्याथं ग्रामीणाः सर्वे धनं दत्तवन्तः। किन्तु धनगुप्तः नाम धनिकः एकं नाणकम्‌ अपि न दत्तवान्‌। अधिकदानं ये कृतवन्तः तेषां नामानि रमणः सर्वत्र उद्घोषयति स्म। धनगुप्तः रमणम्‌ आहूय भर्त्सयित्वा उक्तवान्‌ भोः महोपकारिन् किमर्थं दातॄणां नामानि सदा रटति। येषां गृहं धनं च नष्टं तेषु कश्चित्‌ अपि भिक्षां न याचितवान्‌। अत्र रहस्यं किं भवान्‌ जानाति। श्रुणोतु। भिक्षां याचितुम्‌ अस्मिन्‌ ग्रामे कोऽपि न इच्छति। भवादृशाः एव परोपकारव्याजेन धनसङ्ग्रहं कुर्वन्ति। सङ्गृहीते धने किञ्चन अंशं भवान्‌ गिलति इत्यपि अहं ज्ञातवान्‌। अतः भवादृशस्य वञ्चकस्य कृते अहं सहकारं कर्तुं न सिद्धः।

ग्रामे सर्वे रमणं प्रशंसन्ति स्म। तथापि तस्य न तृप्तिः। धनगुप्तः अपमानं कृतवान्‌। अतः यथाकथञ्चित्‌ प्रतीकारः करणीयः एव इति तस्य सङ्कल्पः। एकदा रमणः धनगुप्तस्य गृहं गत्वा उक्तवान्‌ भवान्‌ मां वञ्चकं मन्यते। किन्तु ग्रामीणाः सर्वे मां प्रशंसन्ति। ग्रामे सामान्यजनाः अपि कुटीरनिर्माणार्थं धनं दत्तवन्तः। भवान्‌ एकः एव एकं नाणकम्‌ अपि न दत्तवान्। धनगुप्तः कोपेन रमणं प्रति उक्तवान् ऋणार्थं बहव: जनाः अत्र आगच्छन्ति। मम सकाशतः ऋणं स्वीकृत्य मम प्रशंसां कृत्वा ते गच्छन्ति। मयि यावत्कालं धनं भवति तावत्कालं जनाः प्रशंसन्ति एव। भवादृशाः निर्गतिकाः धनिकैः दत्तं धनं सङ्गृह्य दरिद्राणां कृते दत्वा महान्‌ परोपकारी इति कीर्तिं सम्पादयन्ति। मादृशस्य धनिकस्य कृते एतादृशी कीर्तिः मास्तु इति अवमानं कृत्वा रमणं प्रेषितवान्‌।

रमणः अतीव कुमितः दुःखितः च अभवत्‌। प्रवृत्तं सर्वं वृत्तान्तं श्रुत्वा रमणस्य पिता उक्तवान्‌ वत्स धनगुप्तः सदा बहुगर्ह्यं वदति अन्यान्‌ निन्दति च। सार्वजनिककार्यार्थं प्रवृत्ताः प्रशंसया सन्तुष्टाः निन्दया खिन्नाः च न भवन्ति। अतः धनगुप्तस्य विषये मा चिन्तयतु। पितुः उपदेशेन रमणस्प कोपः न शान्तः। सः मित्राणां समीपे स्वीयम्‌ अपमानं निवेदितवान्‌। ते अपि उक्तवन्तः धनगुप्तस्य वचनमात्रेण भवान्‌ वञ्चकः मूर्खः वा न भवति। तादृशानि वचनानि श्रवणसमनन्तरम्‌ एव विस्मरणीयानि इति। रमणसकाशतः उपकृताः अपि तं प्रति एवम्‌ उक्तवन्तः भवान्‌ देवसदृशः मानवः। अतः एव भर्त्सनानि श्रुत्वा अपि अस्माकं कृते उपकारं करोति इति। एवं सर्वे रमणं प्रशंसितवन्तः एव न तु धनगुष्तस्य प्रवृत्तिं खण्डितबन्तः।

केचित्‌ ग्रामवृद्धाः रमणस्य धनगुप्तस्य च मध्ये प्रवृत्तं वृत्तान्तं श्रुतवन्तः। ते ग्रामवेदिकायां रमणम्‌ आहूय उपदिष्टवन्तः वत्स धनगुप्तः वाचाटः सदा कुत्सितानि वचनानि एव रटति। एतदर्थं भवान्‌ मा चिन्तयतु। यदि शुनकः भषति तेन लोकस्य को वा लाभः का वा हानिः। सर्वेषां समानाभिप्रायं ज्ञात्वा धनगुप्तस्य विषये रमणः स्वयं चिन्तितवान्‌। धनगुप्तः महान्‌ धनिकः। ग्रामीणानां तेन सह सम्बन्धः अस्ति एव। अतः एव तस्मै उपदेशं कर्तुं सर्वे भीताः। किन्तु धनगुप्तस्य विषये प्रतीकारः करणीयः एव इति।

एकदा सुदूरतः ग्रामतः कश्चित्‌ मल्लः परोपकारिणः रमणस्य गृहम्‌ आगतवान्‌ उक्तवान्‌ च अहं मल्लविद्यानिपुणः। एतस्मिन्‌ ग्रामे मल्लविद्यां प्रदर्श्य ग्रामीणान्‌ सन्तोषयामि। ग्रामीणाः आहत्य शतं दीनारान्‌ ददतु तेन बहु सन्तुष्टः भविष्यामि। कृपया एतदर्थं साहाय्यं करोतु। धनगुप्तस्य कृते प्रतीकारं कर्तुम्‌ एषः एव समुचितः समयः इति रमणः चिन्तितवान्‌। मल्लं प्रति उक्तवान्‌ च एतस्मिन्‌ ग्रामे धनगुप्तः नाम महान्‌ धनिकः अस्ति। सः मल्लविद्यां बहु आद्रियते। तस्य समीपं गत्वा प्रार्थनां करोतु। सः अवश्यं साहाव्यं करिष्यति एव। मल्लः धनगुप्तस्य गृहं गत्वा धनगुप्तं प्रार्थितवान्‌ गुप्तमहाशय अहं मल्लः। मल्लविद्यायां भवतः अतीव आदरः इति श्रुतवान्‌। मम मल्लविद्याप्रदर्शनार्थं कृपया व्यवस्थां करोतु। पारितोषिकरूपेण शतं दीनाराः यदि दीयन्ते अहं बहु सन्तुष्ट: भवामि इति।

मल्लस्य वचनं श्रुत्वा क्रुद्धः धनगुप्तः मल्लं तिरस्कुर्वन्‌ उक्तवान् भोः स्वशरीरं केवलं स्थूलीकुर्वन्‌ चत्वरवृषभः इव अटति। किं लज्जा न भवति। भवादृशान्‌ दृष्ट्वा मम मनः जुगुष्सितं भवति। परस्परकुट्टनं विना मल्लविद्यायां किम्‌ अस्ति। यथा आगतः तथा एव प्रतिगच्छतु इति। एवं धनगुप्तेन अपमानितः मल्लः क्रोधेन दन्तान्‌ निष्पीडयन्‌ रमणस्य गृहम्‌ आगत्य उक्तवान्‌। भोः किमर्थम् असत्यं वदति। धनगुप्तः मल्लविद्यां तिरस्करोति। सः मम अपमानं कृतवान्‌। भवतः कारणात्‌ इदंप्रथमतया अहम्‌ अपमानम्‌ अनुभूतवान्‌।
महाशय धनगुप्तः भवन्तं यदा तिरस्कृतवान्‌ भर्त्सितवान्‌ च तदा भवान्‌ किं तूष्णीं स्थितवान्‌। अये मूढ भवतः मल्लविद्या तस्मिन्‌ किञ्चित्‌ प्रदर्शनीया आसीत्‌। इदानीम्‌ अपि कालः न अतिक्रान्तः इति रमणः सपरिहासम्‌ उक्तवान्‌। सत्यं मल्लविद्याम्‌ इदानीम्‌ एव प्रदर्शयामि इति उक्ता मल्लः पञ्चषैः प्रहारैः कुट्टितवान्‌। प्रहारवेदनया रुदन्‌ रमणः उक्तवान्‌ दुष्टः धनगुप्तः भवन्तम्‌ अपमानितवान्‌। किन्तु भवान्‌ मां प्रहृतवान्। किम्‌ एतत्‌ न्याव्यम्‌।

मवतः धनगुप्तस्य च मध्ये विद्वेषः स्यात्‌। अतः एव धनगुप्तं कुट्टयितुं भवान्‌ मां प्रोत्साहयति। मम अपमानस्य भवान्‌ एव कारणम्। अतः भवन्तम्‌ एवं कुट्टितवान् इति उक्त्वा मल्लः निर्गतवान्‌। प्रवृत्तं सर्वं वृत्तान्तं रमणस्य पिता ज्ञातवान्‌। सः रमणम्‌ आहूय वत्स धनगुप्तः दुष्टः। धनगुप्तेन सह व्यवहारः मास्तु। परोपकाराय प्रवृत्ताः मानापयानयोः तुल्याः  भवन्ति। अतः कर्तव्यबुद्ध्या कार्ये प्रवृत्तः भवतु इति उपदिष्टवान्‌। एवं पित्रा उपदिष्टः रमणः ततः परं मनसा अपि धनगुप्तं न स्मृतवान्‌।

Translation will appear here. Select a language to translate to …