वीरवरः चत्वारिंशद्वर्षीयः कश्चन कृषकः। कदाचित् तस्य मनसि आलोचन आगता अहं जन्मनि किमपि न साधितवान्। इतरे मम समवयस्काः ममापेक्षया कनिष्ठाः अपि कीर्तिशालिनः सञ्जाताः। केचन लक्षाधीशाः अपि जाताः। अहं तु अनामधेयः इव जीवामि इति। इतः परं जीवनं व्यर्थम् इति चिन्तयन् वीरवरः अरण्यं गतवान्। तत्र मार्गे कश्चन संन्यासी मिलितः। संन्यासी पृष्टवान् क्रूरमृगैः व्याप्तम् एतत् अरण्यम् भवान् किमर्थम् आगतवान् इति। स्वामिन् जीविते अहं किमपि न साधितवान्। अतः वैराग्येण अत्र आगतवान् इति उक्तवान् वीरवरः।
संन्यासी मन्दहासं प्रकटयन् किमपि न साधितवान् इति दुःखम् अनुभवति किल भवान्। एवम् तर्हि किं साधनीयम् इति लक्ष्यम् आसीत् भवतः इति पृष्टवान्। निर्दिष्टं लक्ष्यं किमपि नास्ति इति उक्तवान् वीरवरः। तदा संन्यासी पृष्टवान् बाणः लक्ष्ये न योजितः एव। एवं स्थिते लक्ष्यं न सिद्धम् इति खेदः किमर्थम् इति। एतेन वीरवरः विवेकं प्राप्तवान्। तद्दिने एव सः अहं किमपि न साधितवान् इति खेदं त्यक्तवान्। यावच्छक्यं तावत् कार्यं कुर्वन् तृप्त्या जीवनं यापितवान्।