॥ वाग् यज्ञेन कल्पताम् ॥

Read Aloud Sanskrit

As I read story, you can choose your language script ... Select a part and read aloud also ... Enjoy learning Sanskrit ...
Ready... Play...

Arrow Target

A young farmer of a village feels, he has not achieved anything great compared to his fellow friends or even to his juniors. He got dejected and went to forest. Enroute, he met a Saint and from the Saint’s words he got wisdom. What the Saint asked …

बाणस्य लक्ष्यम्

You can watch this Sanskrit Story Explanation in the Video below.

वीरवरः चत्वारिंशद्वर्षीयः कश्चन कृषकः। कदाचित् तस्य मनसि आलोचन आगता अहं जन्मनि किमपि न साधितवान्। इतरे मम समवयस्काः ममापेक्षया कनिष्ठाः अपि कीर्तिशालिनः सञ्जाताः। केचन लक्षाधीशाः अपि जाताः। अहं तु अनामधेयः इव जीवामि इति। इतः परं जीवनं व्यर्थम् इति चिन्तयन् वीरवरः अरण्यं गतवान्। तत्र मार्गे कश्चन संन्यासी मिलितः। संन्यासी पृष्टवान् क्रूरमृगैः व्याप्तम् एतत् अरण्यम् भवान् किमर्थम् आगतवान् इति। स्वामिन् जीविते अहं किमपि न साधितवान्। अतः वैराग्येण अत्र आगतवान् इति उक्तवान् वीरवरः।

संन्यासी मन्दहासं प्रकटयन् किमपि न साधितवान् इति दुःखम् अनुभवति किल भवान्। एवम् तर्हि किं साधनीयम् इति लक्ष्यम् आसीत् भवतः इति पृष्टवान्। निर्दिष्टं लक्ष्यं किमपि नास्ति इति उक्तवान् वीरवरः। तदा संन्यासी पृष्टवान् बाणः लक्ष्ये न योजितः एव। एवं स्थिते लक्ष्यं न सिद्धम् इति खेदः किमर्थम् इति। एतेन वीरवरः विवेकं प्राप्तवान्। तद्दिने एव सः अहं किमपि न साधितवान् इति खेदं त्यक्तवान्। यावच्छक्यं तावत् कार्यं कुर्वन् तृप्त्या जीवनं यापितवान्।

Source:
Sanskrit Chandamama
Month:
December
Year:
1985
A person Ramana in a village started collecting money and helping affected people during a ...
An young king suddenly got a fear that he may die very shortly. The minister ...
A person came to a village to settle down and in short time, he bought ...
Loading story text...
https://www.krishnadhevalipi.org/wp-content/uploads/stories/txt/ra_story_words009.txt
https://www.krishnadhevalipi.org/wp-content/uploads/stories/json/ra_story009.json

Details of update

last updated on - 22nd April, 2026

Be Informed!! Translation may have contextual mistakes!

Ready

वीरवरः चत्वारिंशद्वर्षीयः कश्चन कृषकः। कदाचित् तस्य मनसि आलोचन आगता अहं जन्मनि किमपि न साधितवान्। इतरे मम समवयस्काः ममापेक्षया कनिष्ठाः अपि कीर्तिशालिनः सञ्जाताः। केचन लक्षाधीशाः अपि जाताः। अहं तु अनामधेयः इव जीवामि इति। इतः परं जीवनं व्यर्थम् इति चिन्तयन् वीरवरः अरण्यं गतवान्। तत्र मार्गे कश्चन संन्यासी मिलितः। संन्यासी पृष्टवान् क्रूरमृगैः व्याप्तम् एतत् अरण्यम् भवान् किमर्थम् आगतवान् इति। स्वामिन् जीविते अहं किमपि न साधितवान्। अतः वैराग्येण अत्र आगतवान् इति उक्तवान् वीरवरः।

संन्यासी मन्दहासं प्रकटयन् किमपि न साधितवान् इति दुःखम् अनुभवति किल भवान्। एवम् तर्हि किं साधनीयम् इति लक्ष्यम् आसीत् भवतः इति पृष्टवान्। निर्दिष्टं लक्ष्यं किमपि नास्ति इति उक्तवान् वीरवरः। तदा संन्यासी पृष्टवान् बाणः लक्ष्ये न योजितः एव। एवं स्थिते लक्ष्यं न सिद्धम् इति खेदः किमर्थम् इति। एतेन वीरवरः विवेकं प्राप्तवान्। तद्दिने एव सः अहं किमपि न साधितवान् इति खेदं त्यक्तवान्। यावच्छक्यं तावत् कार्यं कुर्वन् तृप्त्या जीवनं यापितवान्।

Translation will appear here. Select a language to translate to …