चित्रपुरस्य राजा कीर्तिसेनः। सद्यः एव अहं मरणं प्राप्स्यामि इति भीतिः तस्य मनसि कदाचित् अकस्मात् उत्पन्ना। मन्त्री धर्मसेनः एतं विषयं ज्ञातवान्। अतः सः समीपे अरण्ये तपः आचरतः ज्ञानानन्दमुनेः दर्शनं प्राप्य आगच्छतु इति सूचितवान्। कीर्तिसेनः ज्ञाननन्दस्य आश्रमं गतवान्। तत्र आत्मनः भीतिं निवेद्य पृष्टवान् भवन्तः त्रिकालज्ञाः महातपस्विनः। सर्वम् अपि जानन्ति एव। यथा मरणं मम न भवेत् तथा कर्तुं कोऽपि उपायः अस्ति वा इति।
ज्ञानानन्दः मन्दहासं प्रकटयन् उक्तवान् महाराज भवान् इदानीम् अपि तारुण्ये अस्ति। सदा एवम् एव भावामि इति चिन्तयन् मरणात् भीतः भवान्। किन्तु कालान्तरे भवान् वृद्धः भविष्यति। दृष्टिः श्रवणशक्तिः च क्षीणा भविष्यति। दन्ताः मुखतः निर्गमिष्यन्ति। देहः दुर्बलः भविष्यति। एषः च प्रकृतिधर्मः। अस्याम् अवस्थायाम् चिरं जीवितव्यम् इति आशा एव न भवति। तदा मरणम् एव इच्छति भवान्। एवं स्थिते मरणस्य भीतिः किमर्थम्। मरणनिवारणार्थम् उपायः किमर्थम् अन्वेष्टव्यः इति। कीर्तिसेनः ज्ञानानन्दं नमस्कृत्य महात्मन् भवतः अनुग्रहेण मयि विवेकः उदितः। मरणभीतिः इदानीं दूरङ्गता। आगमनं सफलं जातम् इति उक्त्वा राजधानीं प्रतिगतवान्।