एकं राज्यम्। तत्र अतिकुशलाः पाञ्चालिकाकाराः आसन्। ते पक्षिणां वास्तविकपिच्छानि प्राणिनां नखानि चर्माणि च पाञ्चालिकासु योजयन्ति स्म। तेन ताः पाञ्चालिकाः वास्तविकप्राणिनः इव दृश्यन्ते स्म। एकदा तस्य राज्यस्य राजा सहजवातावरणयुक्ते उद्यानवने पाञ्चालिकाप्रदर्शनीं समायोजितवान्। ताः पाञ्चालिकाः द्रष्टुं बहवः जनाः आगत्य तत्र सम्मिलितवन्तः। तेषु एकः विमर्शकः अपि आसीत्। सः तासां पाञ्चालिकानां समीपे स्थित्वा पार्श्वस्थितजनान् उद्दिश्य विमर्शं कर्तुम् आरब्धवान्।
पाञ्चालिकानां सहजताविषये सः व्याख्यानं करोति स्म। अन्ते सः विमर्शकः एकस्य आम्रवृक्षस्य समीपम् आगतवान्। तस्य वृक्षस्य शाखायाम् एकत्र शुकद्वयम् उपविष्टम् आसीत्। तत् शुकद्वयं दृष्ट्वा सः शुकस्य चञ्चुवर्णः नाम कियान् मनोहरः भवति। कुत्रापि एवं भवति वा। वर्णानां मिश्रणज्ञानम् अपि नास्ति। तादृशः अज्ञः एतद् शुकद्वयं निर्मितवान् अस्ति। शुकयोः नेत्रस्थानेषु समीचीनानि काचनेत्राणि योजयितुम् अपि सः जानाति। एते पक्षाः वा। एताः अङ्गुल्यः वा इति उक्तवान्।
अत्रान्तरे तयोः शुकयोः मध्ये एकः स्वीयं पक्षद्वयं पटपडाकृत्य आकाशं प्रति उड्डीय गतवान्। तस्य पक्षस्य स्पर्शतः अन्यः पाञ्चालिकाशिशुकः अधः पतित्वा छिद्रीभूतः जातः। तावत्पर्यन्तं विमर्शकस्य व्याख्यानं श्रुण्वन्तः तत्र स्थिताः उच्चैः हसितवन्तः। विमर्शकः लज्जया नतमस्तकः भूत्वा ततः निर्गतवान्।