॥ वाग् यज्ञेन कल्पताम् ॥

Read Aloud Sanskrit

As I read story, you can choose your language script ... Select a part and read aloud also ... Enjoy learning Sanskrit ...
Ready... Play...

Secret of Wealth

A person came to a village to settle down and in short time, he bought some land. And to the surprise of his neighbor, the newcomer became one of the counted wealthy persons of the village. So, the neighbor was curious to know, how he made money and came to ask the secret …

ऐश्वर्यरहस्यम्

You can watch this Sanskrit Story Explanation in the Video below.

रामपुरे रामचन्द्रः कश्चन धनिकः। रिक्तहस्तेन सः तं ग्रामं प्रविष्टवान् आसीत्। आगमनानन्तरम् एकवर्षाभ्यन्तरे भूमिं सम्पादितवान् आसीत् सः। पुनश्च पञ्चवर्षाभ्यन्तरे धनिकपङ्क्तौ स्थानं प्राप्तवान् च। रामचन्द्रः अल्पे अवधौ कथं धनिकः जातः इति तद्ग्रामीणः शरभः बहुचिन्तनानन्तरम् अपि न ज्ञातवान्। कथञ्चित् एतत् रहस्यं ज्ञातव्यम् एव इति चिन्तयन् सः एकदा सायङ्काले रामचन्द्रस्य गृहं गतवान्।

तदा रामचन्द्रः एकं दीपं प्रज्वाल्य प्रकोष्ठे मध्ये स्थापयन् आसीत्। शरभं दृष्ट्वा सन्तोषं प्रकटयन् रामचन्द्रः आदरपूर्वकम् उक्तवान् विशेषकारणेन आगतवान् इति भाति इति। तथा किमपि नास्ति इति उक्त्वा शरभः स्वकीयसन्देहं पृष्टवान्। आवां समानग्रामीणौ स्नेहितौ च किल। किमर्थं रहस्यं मह्यं न निवेदयति भवान् इति।

अत्र किं रहस्यम् इति वदन् रामचन्द्रः एकं लघुकटं भूमौ प्रसार्य शरभं तत्र उपवेशितवान्। अन्तः गत्वा दीपं निर्वाप्य बहिः आगतवान्। शरभस्य पार्श्वे उपविश्य इदानीं वार्तालापं कुर्मः इति उक्तवान् च। शरभः आश्चर्येण इदानीम् आगमनसमये दीपं किमर्थं निर्वापितवान् इति अहं न ज्ञातवान्। प्रथमं तस्य कारणं वदतु इति उक्तवान्।

रामचन्द्रः सहजस्वरेण सुखम् उपविश्य वार्तालापार्थं दीपः किमर्थम्। दीपः ज्वलति चेत् वृथा तैलव्ययः। अनपेक्षितव्ययः किमर्थं करणीयः इति पृष्टवान्। एतत् श्रुत्वा शरभः झटिति उत्थाय ज्ञातवान् अहम् अस्तु पुनः मिलामः इति उक्त्वा ततः प्रस्थितः। किमपि रहस्यं ज्ञातव्यम् इति पृष्टवान् किल इति पृष्टवान् रामचन्द्रः। भवत्कथनतः पूर्वम् एव भवतः व्यवहारेण तत् रहस्यम् अहं ज्ञातवान् इति वदन् शरभः स्वगृहं गतवान् एव।

Source:
Sanskrit Chandamama
Month:
August
Year:
1985
A person Ramana in a village started collecting money and helping affected people during a ...
A young farmer of a village feels, he has not achieved anything great compared to ...
An young king suddenly got a fear that he may die very shortly. The minister ...
Loading story text...
https://www.krishnadhevalipi.org/wp-content/uploads/stories/txt/ra_story_words004.txt
https://www.krishnadhevalipi.org/wp-content/uploads/stories/json/ra_story004.json

Details of update

last updated on - 22nd April, 2026

Be Informed!! Translation may have contextual mistakes!

Ready

रामपुरे रामचन्द्रः कश्चन धनिकः। रिक्तहस्तेन सः तं ग्रामं प्रविष्टवान् आसीत्। आगमनानन्तरम् एकवर्षाभ्यन्तरे भूमिं सम्पादितवान् आसीत् सः। पुनश्च पञ्चवर्षाभ्यन्तरे धनिकपङ्क्तौ स्थानं प्राप्तवान् च। रामचन्द्रः अल्पे अवधौ कथं धनिकः जातः इति तद्ग्रामीणः शरभः बहुचिन्तनानन्तरम् अपि न ज्ञातवान्। कथञ्चित् एतत् रहस्यं ज्ञातव्यम् एव इति चिन्तयन् सः एकदा सायङ्काले रामचन्द्रस्य गृहं गतवान्।

तदा रामचन्द्रः एकं दीपं प्रज्वाल्य प्रकोष्ठे मध्ये स्थापयन् आसीत्। शरभं दृष्ट्वा सन्तोषं प्रकटयन् रामचन्द्रः आदरपूर्वकम् उक्तवान् विशेषकारणेन आगतवान् इति भाति इति। तथा किमपि नास्ति इति उक्त्वा शरभः स्वकीयसन्देहं पृष्टवान्। आवां समानग्रामीणौ स्नेहितौ च किल। किमर्थं रहस्यं मह्यं न निवेदयति भवान् इति।

अत्र किं रहस्यम् इति वदन् रामचन्द्रः एकं लघुकटं भूमौ प्रसार्य शरभं तत्र उपवेशितवान्। अन्तः गत्वा दीपं निर्वाप्य बहिः आगतवान्। शरभस्य पार्श्वे उपविश्य इदानीं वार्तालापं कुर्मः इति उक्तवान् च। शरभः आश्चर्येण इदानीम् आगमनसमये दीपं किमर्थं निर्वापितवान् इति अहं न ज्ञातवान्। प्रथमं तस्य कारणं वदतु इति उक्तवान्।

रामचन्द्रः सहजस्वरेण सुखम् उपविश्य वार्तालापार्थं दीपः किमर्थम्। दीपः ज्वलति चेत् वृथा तैलव्ययः। अनपेक्षितव्ययः किमर्थं करणीयः इति पृष्टवान्। एतत् श्रुत्वा शरभः झटिति उत्थाय ज्ञातवान् अहम् अस्तु पुनः मिलामः इति उक्त्वा ततः प्रस्थितः। किमपि रहस्यं ज्ञातव्यम् इति पृष्टवान् किल इति पृष्टवान् रामचन्द्रः। भवत्कथनतः पूर्वम् एव भवतः व्यवहारेण तत् रहस्यम् अहं ज्ञातवान् इति वदन् शरभः स्वगृहं गतवान् एव।

Translation will appear here. Select a language to translate to …