॥ वाग् यज्ञेन कल्पताम् ॥

See Listen and Chant

These Chanting are to Inspire You for, to Practice and Learn to Chanting Bhagavat Stotram. The occasional drift while highlighting is negligible and unavoidable because of the chanting styles. Some Chanting are collected from Internet, for educative and guided chanting practice and not to infringe any Copyrights.

Ready... Play...

Shrimad Valmiki Ramayanam Sarga-3

In this Bala Kaandam, third Sarga, of Valmiki Ramayanam, Valmiki Muni, visualize the entire Ramayana in brief by the blessings of Lord Brahma.

॥ श्रीमद्वाल्मीकिरामायणम् ॥

अथ तृतीयः सर्गः॥
श्रुत्वा वस्तु समग्रं तद्धर्मार्थसहितं हितम्।
व्यक्तमन्वेषते भूयो यद् वृत्तं तस्य धीमतः॥१-३-१॥
उपस्पृश्योदकं सम्यङ्मुनिः स्थित्वा कृताञ्जलिः।
प्राचीनाग्रेषु दर्भेषु धर्मेणान्वेषते गतिम्॥१-३-२॥
रामलक्ष्मणसीताभी राज्ञा दशरथेन च।
सभार्येण सराष्ट्रेण यत्प्राप्तं तत्र तत्त्वतः॥१-३-३॥
हसितं भाषितं चैव गतिर्या यच्च चेष्टितम्।
तत्सर्वं धर्मवीर्येण यथावत्सम्प्रपश्यति॥१-३-४॥
स्त्रीतृतीयेन च तथा यत्प्राप्तं चरता वने।
सत्यसंधेन रामेण तत्सर्वं चान्ववैक्षता॥१-३-५॥
ततः पश्यति धर्मात्मा तत्सर्वं योगमास्थितः।
पुरा यत्तत्र निर्वृत्तं पाणावामलकं यथा॥१-३-६॥
तत्सर्वं तत्त्वतो दृष्ट्वा धर्मेण स महामतिः।
अभिरामस्य रामस्य तत्सर्वं कर्तुमुद्यतः॥१-३-७॥
कामार्थगुणसंयुक्तं धर्मार्थगुणविस्तरम्।
समुद्रमिव रत्नाढ्यं सर्वश्रुतिमनोहरम्॥१-३-८॥
स यथा कथितं पूर्वं नारदेन महात्मना।
रघुवंशस्य चरितं चकार भगवान्मुनिः॥१-३-९॥
जन्म रामस्य सुमहद् वीर्यं सर्वानुकूलताम्।
लोकस्य प्रियतां क्षान्तिं सौम्यतां सत्यशीलताम्॥१-३-१०॥
नानाचित्रात् कथाश्चान्या विश्वामित्रसहायने।
जानक्याश्च विवाहं च धनुषश्च विभेदनम्॥१-३-११॥
रामरामविवादं च गुणान्दाशरथेस्तथा।
तदाभिषेकं रामस्य कैकेय्या दुष्टभावताम्॥१-३-१२॥
विघातं चाभिषेकस्य रामस्य च विवासनम्।
राज्ञः शोकंविलापं च परलोकस्य चाश्रयम्॥१-३-१३॥
प्रकृतीनां विषादं च प्रकृतीनां विसर्जनम्।
निषादाधिपसंवादं सूतोपावर्तनं तथा॥१-३-१४॥
गङ्गायाश्चापि संतारं भरद्वाजस्य दर्शनम्।
भरद्वाजाभ्यनुज्ञानाच्चित्रकूटस्य दर्शनम्॥१-३-१५॥
वास्तुकर्म निवेशं च भरतागमनं तथा।
प्रसादनं च रामस्य पितुश्च सलिलक्रियाम्॥१-३-१६॥
पादुकाग्र्याभिषेकं च नन्द्रिग्रामनिवासनम्।
दण्डकारण्यगमनं विराधस्य वधं तथा॥१-३-१७॥
दर्शनं शरभङ्गस्य सुतीक्ष्णेन समागमम्।
अनसूयासमाख्यां च अङ्गरागस्य चार्पणम्॥१-३-१८॥
दर्शनं चाप्यगस्त्यस्य धनुषो ग्रहणं तथा।
शुर्पणख्याश्च संवादं विरुपकरणं तथा॥१-३-१९॥
वधं खरत्रिशिरसोरुत्थानं रावणास्य च।
मारीचस्य वधं चैव वैदेह्या हरणं तथा॥१-३-२०॥
राघवस्य विलापं च गृध्रराजनिबर्हणम्।
कबन्धदर्शनं चैव पम्पायाश्चापि दर्शनम्॥१-३-२१॥
शबरीदर्शनं चैव फलमूलाशनं तथा।
प्रलापं चैव पम्पायां हनुमद्दर्शनं तथा॥१-३-२२॥
ऋष्यमूकस्य गमनं सुग्रीवेण समागमम्।
प्रत्ययोत्पादनं सख्यं वालिसुग्रीवविग्रहम्॥१-३-२३॥
वालिप्रमथनं चैव सुगीवप्रतिपादनम्।
ताराविलापं समयं वर्षरात्रनिवासनम्॥१-३-२४॥
कोपं राघवसिंहस्य बलानामुपसंग्रहम्।
दिशः प्रस्थापनं चैव पृथिव्याश्च निवेदनं॥१-३-२५॥
अङ्गुलीयकदानं च ऋक्षस्य बिलदर्शनम्।
प्रायोपवेशनं चैव सम्पातेश्चापि दर्शनम्॥१-३-२६॥
पर्वतारोहणं चैव सागरस्यापि लङ्घनम्।
समुद्रवचनाच्चैव मैनाकस्य च दर्शनम्॥१-३-२७॥
राक्षसीतर्जनं चैव छायाग्राहस्य दर्शनम्।
सिंहिकायाश्च निधनं लङ्कामलयदर्शनम्॥१-३-२८॥
रात्रौ लङ्काप्रवेशं च एकस्यापि विचिन्तनम्।
आपानभूमिगमनमवरोधस्य दर्शनम्॥१-३-२९॥
दर्शनं रावणस्यापि पुष्पकस्य च दर्शनम्।
अशोकवनिकायानं सीतायाश्चापि दर्शनम्॥१-३-३०॥
अभिज्ञानप्रदानं च सीतायाश्चापि भाषणम्।
राक्षसीतर्जनं चैव त्रिजटास्वप्नदर्शनम्॥१-३-३१॥
मणिप्रदानं सीताया वृक्षभङ्गं तथैव च।
राक्षसीविद्रवं चैव किंकराणां निबर्हणम्॥१-३-३२॥
ग्रहणं वायुसूनोश्च लङ्कादाहाभिगर्जनम्।
प्रतिप्लवनमेवाथ मधूनां हरणं तथा॥१-३-३३॥
राघवाश्वासनं चैव मणिनिर्यातनं तथा।
सङ्गमं च समुद्रेण नलसेतोश्च बन्धनम्॥१-३-३४॥
प्रतारं च समुद्रस्य रात्रौ लङ्कावरोधनम्।
विभीषणेन संसर्गं वधोपायनिवेदनम्॥१-३-३५॥
कुम्भकर्णस्य निधनं मेघनादनिबर्हणम्।
रावणस्य विनाशं च सीतावाप्तिमरेः पुरे॥१-३-३६॥
वीभीषणाभिषेकं च पुष्पकस्य च दर्शनम्।
अयोध्यायाश्च गमनं भरद्वाजसमागमम्॥१-३-३७॥
प्रेषणं वायुपुत्रस्य भरतेन समागमम्।
रामाभिषेकाभ्युदयं सर्वसैन्यविसर्जनम्।
स्वराष्ट्ररञ्जनं चैव वैदेह्याश्च विसर्जनम्॥१-३-३८॥
अनागतं च यत्किञ्चिद्रामास्य वसुधातले।
तच्चकारोत्तरे काव्ये वाल्मीकिर्भगवानृषिः॥१-३-३९॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये
बालकाण्डे तृतीयः सर्गः॥१-३॥

These entire Panini Sutra of all the eight Chapters and four Sections in each chapter, ...
These entire Panini Sutra of all the eight Chapters and four Sections in each chapter, ...
In this Bala Kaandam, second Sarga, of Valmiki Ramayanam, Lord Brahma blesses Valmiki Muni, with ...
In this Bala Kaandam, first Sarga, of Valmiki Ramayanam, Narada Maharishi answers the query of ...
Loading story text...
https://www.krishnadhevalipi.org/wp-content/uploads/stories/txt/ra_story_words2102.txt
https://www.krishnadhevalipi.org/wp-content/uploads/stories/json/ra_story2102.json

Details of update

last updated - 23rd May, 2026