॥ वाग् यज्ञेन कल्पताम् ॥

Read Aloud Sanskrit

As I read story, you can choose your language script ... Select a part and read aloud also ... Enjoy learning Sanskrit ...
Ready... Play...

Work with Profit

We try to over smart other people out of curiosity. But we forget to know, that people are smart. Here is a story, where one person claims himself that he never does any act without considering the profitable part of it. A neighbor is so curious to make some loss to him…

लाभसहितं कार्यम्

You can watch this Sanskrit Story Explanation in the Video below.

वराहगुप्तः अतीव व्यवहाराकुशलः। ग्रामे तस्य एकः अल्पः आपणः अस्ति। सः सर्वदा वार्तालापासमयेषु यत् किमपि वा कर्याम् अस्तु अहं वाणिज्यरूपेण एव करोमि। लाभरहितं कार्यं अहं कदापि न करोमि इति वदति। गङ्गाधरः तस्य प्रातिवेशिकः। तस्य एकं कुतूहलम् आसीत् यत् कदा वराहगुप्तः एकं लाभरहितं कार्यं कुर्यात् तथा कदा अहं तत् कार्यं पश्येयम् इति। किन्तु बहुकालपर्यन्तं तस्य इच्छासिद्धिः न अभवत्। तेन तस्य महती निराशा जाता। तदा सः यथाकथञ्चित् स्वयमेव प्रयत्नं कृत्वा वराहगुप्तेन लाभरहितं कार्यं कारयितव्यम् इति निश्चयं कृतवान्।

अनन्तरं सः वराहगुप्तस्य गृहं गत्वा एकां सीवनसूचीं ददातु इति पृष्टवान्। वराहगुप्तः सूचीं दत्तवान्। गङ्गाधरः छिन्नस्य स्वीयवस्त्रस्य सीवनकार्यं समाप्य पुनः गत्वा वराहागुप्ताय सूचीं प्रत्यर्पितवान्। वराहगुप्तः किमपि न उक्तवान्। एवमेव अन्यदा गङ्गाधरः वराहगुप्तस्य मुद्गरं नीत्वा दिनद्वयानन्तरं पुनः आनीय प्रत्यर्पितवान्। तदा अपि वराहगुप्तः किमपि न उक्तवान्। तदा गङ्गाधरः तूष्णीं स्थातुम् असमर्थः सन् वराहगुप्त भवता लाभारहितं कार्यद्वयम् अहं कारितवान् इति गर्वेण उक्तवान्।

अहं तु स्वप्ने अपि लाभरहितं कार्यं न करोमि इति वराहगुप्तः हसन् उक्तवान्। भवतः सूचीम् अहं नीतवान्। तेन भवतः कः लाभः जातः इति पृष्टवान् गङ्गाधरः। प्रत्यर्पणानन्तरं सूच्यां किञ्चित् सूत्रम् अवशिष्टम् आसीत्। तेन अहं मम वेष्टीं स्यूतवान् इति उक्तवान् वराहगुप्तः। गङ्गाधरः स्तब्धः। तर्हि मुद्गरस्य को विशेषः इति पृष्टवान्। तस्य त्सरुः शिथिलः आसीत्। आलस्येन मया अद्यावधि तस्य समीकरणं न कृतम्। भवान् तं नीतवान्। इदानीं त्सरुः स्मीचीनः अस्ति इति उक्तवान् वराहगुप्तः। तदा गङ्गाधरः स्मृतवान् यत् यदा सः भित्तौ आणिं वद्धुं प्रवृत्तः तदा त्सरुः अतीव शिथिलः आसीत्। तं स्वयमेव समीकृत्य अनन्तरं भित्तौ आणिं योजितवान् इति।

Source:
Sanskrit Chandamama
Month:
April
Year:
1985
An astrologer went out on some works from his village and while returning after completing ...
A king, once thought to fill up the vacant post of assembly astrologer. So, he ...
A young person Chandrakanta was in need of a job, and someone told him that ...
We normally encounter a critic at every gathering, and they criticize every act of others. ...
Loading story text...
https://www.krishnadhevalipi.org/wp-content/uploads/stories/txt/ra_story_words002.txt
https://www.krishnadhevalipi.org/wp-content/uploads/stories/json/ra_story002.json

Details of update

last updated on - 22nd April, 2026

Be Informed!! Translation may have contextual mistakes!

Ready

वराहगुप्तः अतीव व्यवहाराकुशलः। ग्रामे तस्य एकः अल्पः आपणः अस्ति। सः सर्वदा वार्तालापासमयेषु यत् किमपि वा कर्याम् अस्तु अहं वाणिज्यरूपेण एव करोमि। लाभरहितं कार्यं अहं कदापि न करोमि इति वदति। गङ्गाधरः तस्य प्रातिवेशिकः। तस्य एकं कुतूहलम् आसीत् यत् कदा वराहगुप्तः एकं लाभरहितं कार्यं कुर्यात् तथा कदा अहं तत् कार्यं पश्येयम् इति। किन्तु बहुकालपर्यन्तं तस्य इच्छासिद्धिः न अभवत्। तेन तस्य महती निराशा जाता। तदा सः यथाकथञ्चित् स्वयमेव प्रयत्नं कृत्वा वराहगुप्तेन लाभरहितं कार्यं कारयितव्यम् इति निश्चयं कृतवान्।

अनन्तरं सः वराहगुप्तस्य गृहं गत्वा एकां सीवनसूचीं ददातु इति पृष्टवान्। वराहगुप्तः सूचीं दत्तवान्। गङ्गाधरः छिन्नस्य स्वीयवस्त्रस्य सीवनकार्यं समाप्य पुनः गत्वा वराहागुप्ताय सूचीं प्रत्यर्पितवान्। वराहगुप्तः किमपि न उक्तवान्। एवमेव अन्यदा गङ्गाधरः वराहगुप्तस्य मुद्गरं नीत्वा दिनद्वयानन्तरं पुनः आनीय प्रत्यर्पितवान्। तदा अपि वराहगुप्तः किमपि न उक्तवान्। तदा गङ्गाधरः तूष्णीं स्थातुम् असमर्थः सन् वराहगुप्त भवता लाभारहितं कार्यद्वयम् अहं कारितवान् इति गर्वेण उक्तवान्।

अहं तु स्वप्ने अपि लाभरहितं कार्यं न करोमि इति वराहगुप्तः हसन् उक्तवान्। भवतः सूचीम् अहं नीतवान्। तेन भवतः कः लाभः जातः इति पृष्टवान् गङ्गाधरः। प्रत्यर्पणानन्तरं सूच्यां किञ्चित् सूत्रम् अवशिष्टम् आसीत्। तेन अहं मम वेष्टीं स्यूतवान् इति उक्तवान् वराहगुप्तः। गङ्गाधरः स्तब्धः। तर्हि मुद्गरस्य को विशेषः इति पृष्टवान्। तस्य त्सरुः शिथिलः आसीत्। आलस्येन मया अद्यावधि तस्य समीकरणं न कृतम्। भवान् तं नीतवान्। इदानीं त्सरुः स्मीचीनः अस्ति इति उक्तवान् वराहगुप्तः। तदा गङ्गाधरः स्मृतवान् यत् यदा सः भित्तौ आणिं वद्धुं प्रवृत्तः तदा त्सरुः अतीव शिथिलः आसीत्। तं स्वयमेव समीकृत्य अनन्तरं भित्तौ आणिं योजितवान् इति।

Translation will appear here. Select a language to translate to …