॥ वाग् यज्ञेन कल्पताम् ॥

Read Aloud Sanskrit

As I read story, you can choose your language script ... Select a part and read aloud also ... Enjoy learning Sanskrit ...
Ready... Play...

People’s Representative

In a village a person named Vamanamurthy was creating unrest amongst the villagers and that resulted in quarrels. Once, by the village chief, a message was received from king’s capital that a people’s representative is to be selected from that village. Who was selected and how is …

प्रजाप्रतिनिधिः

You can watch this Sanskrit Story Explanation in the Video below.

नागपल्ली सुसम्पन्नः ग्रामः। तस्मिन् ग्रामे वामनमूर्तिः नाम कश्चित् आसीत्। ग्रामे यत्र कुत्रापि लघु विवादः उत्पन्नः चेदपि वामनमूर्तिः तत्र उपस्थितः भवति स्म। वदति स्म च एतस्य विवादस्य निर्णयः अत्र न भविष्यति। अतः न्यायालयः गन्तव्यः इति। एकदा प्रजाप्रतिनिधिः कश्चन राजधानीं प्रति प्रेषणीयः आसीत्। किन्तु कस्यापि प्रेषणविषये ग्रामीणानाम् एकाभिप्रायः न आसीत्। अन्ते ग्रामीणाः एतद्विषये निर्णयाधिकारं ग्रामप्रमुखस्य अधीनं कृतवन्तः।

ग्रामप्रमुखः द्वित्राणि दिनानि यावत् रात्रौ वेषान्तरेण ग्रामे सञ्चारम् कृतावान्। अन्ते उक्तावान् वामनमूर्तिः एव प्रजाप्रतिनिधित्वेन राजाधानीं गच्छतु इति। तदा ग्रामीणाः आश्चर्येण पृष्टवन्तः तं विवादजनकं वामनमूर्तिं प्रजाप्रतिनिधित्वेन प्रेषयामः वा इति।

ग्रामप्रमुखः शान्तस्वरेण उक्तवान् आम् वामनमूर्तिः ग्रामेषु विवादं जनयति इति मम अपि सन्देहः आसीत् एव। गतद्वित्रेषु दिनेषु अटनेन मम सन्देहः वास्तविकः इति दृढीकृतः। वामनमूर्तिं यदि प्रजाप्रतिनिधित्वेन प्रेषायामः तर्हि ग्रामे शान्तिः व्याप्ता भवति। यतः प्रजाप्रतिनिधिः राजधान्याम् एव निवसेत् किल इति। ग्रामवासिनः ग्रामप्रमुखस्य वचनम् अङ्गीकृतवन्तः। एकमत्येन ते वामनमूर्तिं प्रजाप्रतिनिधित्वेन राजधानीं प्रेषितवन्तः च।

Source:
Sanskrit Chandamama
Month:
August
Year:
1985
An astrologer went out on some works from his village and while returning after completing ...
A king, once thought to fill up the vacant post of assembly astrologer. So, he ...
A young person Chandrakanta was in need of a job, and someone told him that ...
We normally encounter a critic at every gathering, and they criticize every act of others. ...
Loading story text...
https://www.krishnadhevalipi.org/wp-content/uploads/stories/txt/ra_story_words006.txt
https://www.krishnadhevalipi.org/wp-content/uploads/stories/json/ra_story006.json

Details of update

last updated on - 22nd April, 2026

Be Informed!! Translation may have contextual mistakes!

Ready

नागपल्ली सुसम्पन्नः ग्रामः। तस्मिन् ग्रामे वामनमूर्तिः नाम कश्चित् आसीत्। ग्रामे यत्र कुत्रापि लघु विवादः उत्पन्नः चेदपि वामनमूर्तिः तत्र उपस्थितः भवति स्म। वदति स्म च एतस्य विवादस्य निर्णयः अत्र न भविष्यति। अतः न्यायालयः गन्तव्यः इति। एकदा प्रजाप्रतिनिधिः कश्चन राजधानीं प्रति प्रेषणीयः आसीत्। किन्तु कस्यापि प्रेषणविषये ग्रामीणानाम् एकाभिप्रायः न आसीत्। अन्ते ग्रामीणाः एतद्विषये निर्णयाधिकारं ग्रामप्रमुखस्य अधीनं कृतवन्तः।

ग्रामप्रमुखः द्वित्राणि दिनानि यावत् रात्रौ वेषान्तरेण ग्रामे सञ्चारम् कृतावान्। अन्ते उक्तावान् वामनमूर्तिः एव प्रजाप्रतिनिधित्वेन राजाधानीं गच्छतु इति। तदा ग्रामीणाः आश्चर्येण पृष्टवन्तः तं विवादजनकं वामनमूर्तिं प्रजाप्रतिनिधित्वेन प्रेषयामः वा इति।

ग्रामप्रमुखः शान्तस्वरेण उक्तवान् आम् वामनमूर्तिः ग्रामेषु विवादं जनयति इति मम अपि सन्देहः आसीत् एव। गतद्वित्रेषु दिनेषु अटनेन मम सन्देहः वास्तविकः इति दृढीकृतः। वामनमूर्तिं यदि प्रजाप्रतिनिधित्वेन प्रेषायामः तर्हि ग्रामे शान्तिः व्याप्ता भवति। यतः प्रजाप्रतिनिधिः राजधान्याम् एव निवसेत् किल इति। ग्रामवासिनः ग्रामप्रमुखस्य वचनम् अङ्गीकृतवन्तः। एकमत्येन ते वामनमूर्तिं प्रजाप्रतिनिधित्वेन राजधानीं प्रेषितवन्तः च।

Translation will appear here. Select a language to translate to …