भूस्वामी केशववर्मा कस्यचन प्रमुखकार्यस्य निमित्तं वेलापुरतः विशालनगरं गतवान्। कार्यं समाप्य प्रस्थानसमये मध्यरात्रम् अभवत्। तथापि आत्मानं धनिकं मन्यमानः सः स्वरथम् आरुह्य वेलापुरं प्रति प्रस्थितः। अरण्यमार्गः अन्धकारमयः आसीत्। सारथिः अत्यन्तं जागरूकतया रथं चालयति स्म। मध्येमार्गं कश्चित् शिलाराशिः विघ्नरूपेण आसीत्। रथः शिलाराशिना घट्टितः अभविष्यत्। किन्तु शिलाराशेः उपरि स्थितस्य दीपस्य प्रकाशस्य कारणतः सारथिना शिलाराशिः दृष्टः। सः अनुक्षणं रथं स्थगितवान्।
एतत् दृष्ट्वा भूस्वामी रथात् अवतीर्णः। तावता मार्गपार्श्वे एव कस्यचित् वृक्षस्य अधः शयितः वृद्धः उत्थाय आगतवान् भूस्वामिनं नमस्कृतवान् च। भूस्वामी तं वृद्धं पृष्टवान् एतस्य शिलाराशेः उपरि स्थितः दीपः भवता स्थापितः वा इति। आम् श्रीमन् अहम् एव स्थापितवान्। रात्रिसमयः खलु इति उक्तवान् वृद्धः। एतस्मात् सन्तुष्टः भूस्वामी भवतः कारणतः अद्य आवां रक्षितौ। एतत् स्वीकरोतु इति वदन् कानिचन नाणकानि वृद्धाय दत्तवान्। वृद्धः सन्तोषेण तानि नाणकानि स्वीकृत्य ततः गन्तुम् उद्युक्तः।
तदा भूस्वामी संशयेन वृद्धं पृष्टवान् किमर्थं मार्गस्य अवरोधपूर्वकम् एषः शिलाराशिः अस्ति इति। तदा वृद्धः उक्तवान् दीपः अधः स्थाप्यते चेत् न दृश्यते खलु। तदर्थम् अहम् एव शिलाखण्डान् राशीकृत्य तदुपरि दीपं स्थापितवान् अस्मि इति।