वीरपुरे लक्ष्मीशः नाम कश्चित् धनिकः आसीत्। सः महाकृपणः। यदा कदापि तस्य नामोच्चरणं करणीयं चेत् जनाः महाकृपणः लक्ष्मीशः इत्येव वदन्ति स्म। एकदा ग्रामीणैः एका धर्मशाला निर्मातव्या इति निश्चयः कृतः। एतदर्थं धनसङ्ग्रहकार्यम् आरब्धम्। लक्ष्मीशातः कथं धनं स्वीकरणीयम् इति ग्रामीणाः चिन्तयन्तः आसन्। तस्मिन् ग्रामे कमलानाथः नाम कश्चित् युवकः आसीत्। सः बहुबुद्धिमान् वाग्मी च। कार्यसाधने सः अतीव कुशलः। अतः ग्रामवासिनः तं कार्यसाधकः इति आह्वयन्ति स्म।
एकस्मिन् दिने कमलानाथः मित्रद्वयेन सह लक्ष्मीशस्य गृहं गतावान्। धर्मशालायाः निर्माणविषये उक्त्वा धनं पृष्टवान्। तदा लक्ष्मीशः हासं प्रकटयन् उत्क्तवान् किम् उक्तम् धनं दातव्यम् इति तदपि मया। अहम् अद्यावधि कस्मै अपि साहाय्यधनं न दत्तवान्। भवतः अपेक्षया बुद्धिमन्तः अपि आगत्य रिक्तहस्तेन एव निर्गताः इति।
तदा कमलानाथः मन्दहासपूर्वकम् उक्तवान् महोदय ते यथा तथा अहं मूर्खः न। सर्वे मां कार्यसाधकनाम्ना आह्वयन्ति। प्रतिवक्ता किञ्चित् बुद्धिमान् विवेकी वा यदि स्यात् तर्हि सः यथा धनं दद्यात् तथा करोमि अहम् इति। पुनश्च किं वक्तव्यम्। कृपणः विना प्रतिरोधं साहाय्यधनं दत्तवान्।