॥ वाग् यज्ञेन कल्पताम् ॥

Read Aloud Sanskrit

As I read story, you can choose your language script ... Select a part and read aloud also ... Enjoy learning Sanskrit ...
Ready... Play...

Donation for Good Cause

How to collect donation even from a miser is dealt in this short Sanskrit Story. Everyone wants to be recognized as wise and intelligent. So, praise to please and get your work done, is the order of the day! How intelligently he spoke to the miser to get donation is interesting …

साहाय्यधनसङ्ग्रहः

You can watch this Sanskrit Story Explanation in the Video below.

वीरपुरे लक्ष्मीशः नाम कश्चित् धनिकः आसीत्। सः महाकृपणः। यदा कदापि तस्य नामोच्चरणं करणीयं चेत् जनाः महाकृपणः लक्ष्मीशः इत्येव वदन्ति स्म। एकदा ग्रामीणैः एका धर्मशाला निर्मातव्या इति निश्चयः कृतः। एतदर्थं धनसङ्ग्रहकार्यम् आरब्धम्। लक्ष्मीशातः कथं धनं स्वीकरणीयम् इति ग्रामीणाः चिन्तयन्तः आसन्। तस्मिन् ग्रामे कमलानाथः नाम कश्चित् युवकः आसीत्। सः बहुबुद्धिमान् वाग्मी च। कार्यसाधने सः अतीव कुशलः। अतः ग्रामवासिनः तं कार्यसाधकः इति आह्वयन्ति स्म।

एकस्मिन् दिने कमलानाथः मित्रद्वयेन सह लक्ष्मीशस्य गृहं गतावान्। धर्मशालायाः निर्माणविषये उक्त्वा धनं पृष्टवान्। तदा लक्ष्मीशः हासं प्रकटयन् उत्क्तवान् किम् उक्तम् धनं दातव्यम् इति तदपि मया। अहम् अद्यावधि कस्मै अपि साहाय्यधनं न दत्तवान्। भवतः अपेक्षया बुद्धिमन्तः अपि आगत्य रिक्तहस्तेन एव निर्गताः इति।

तदा कमलानाथः मन्दहासपूर्वकम् उक्तवान् महोदय ते यथा तथा अहं मूर्खः न। सर्वे मां कार्यसाधकनाम्ना आह्वयन्ति। प्रतिवक्ता किञ्चित् बुद्धिमान् विवेकी वा यदि स्यात् तर्हि सः यथा धनं दद्यात् तथा करोमि अहम् इति। पुनश्च किं वक्तव्यम्। कृपणः विना प्रतिरोधं साहाय्यधनं दत्तवान्।

Source:
Sanskrit Chandamama
Month:
April
Year:
1985
An astrologer went out on some works from his village and while returning after completing ...
A king, once thought to fill up the vacant post of assembly astrologer. So, he ...
A young person Chandrakanta was in need of a job, and someone told him that ...
We normally encounter a critic at every gathering, and they criticize every act of others. ...
Loading story text...
https://www.krishnadhevalipi.org/wp-content/uploads/stories/txt/ra_story_words001.txt
https://www.krishnadhevalipi.org/wp-content/uploads/stories/json/ra_story001.json

Details of update

last updated on - 22nd April, 2026

Be Informed!! Translation may have contextual mistakes!

Ready

वीरपुरे लक्ष्मीशः नाम कश्चित् धनिकः आसीत्। सः महाकृपणः। यदा कदापि तस्य नामोच्चरणं करणीयं चेत् जनाः महाकृपणः लक्ष्मीशः इत्येव वदन्ति स्म। एकदा ग्रामीणैः एका धर्मशाला निर्मातव्या इति निश्चयः कृतः। एतदर्थं धनसङ्ग्रहकार्यम् आरब्धम्। लक्ष्मीशातः कथं धनं स्वीकरणीयम् इति ग्रामीणाः चिन्तयन्तः आसन्। तस्मिन् ग्रामे कमलानाथः नाम कश्चित् युवकः आसीत्। सः बहुबुद्धिमान् वाग्मी च। कार्यसाधने सः अतीव कुशलः। अतः ग्रामवासिनः तं कार्यसाधकः इति आह्वयन्ति स्म।

एकस्मिन् दिने कमलानाथः मित्रद्वयेन सह लक्ष्मीशस्य गृहं गतावान्। धर्मशालायाः निर्माणविषये उक्त्वा धनं पृष्टवान्। तदा लक्ष्मीशः हासं प्रकटयन् उत्क्तवान् किम् उक्तम् धनं दातव्यम् इति तदपि मया। अहम् अद्यावधि कस्मै अपि साहाय्यधनं न दत्तवान्। भवतः अपेक्षया बुद्धिमन्तः अपि आगत्य रिक्तहस्तेन एव निर्गताः इति।

तदा कमलानाथः मन्दहासपूर्वकम् उक्तवान् महोदय ते यथा तथा अहं मूर्खः न। सर्वे मां कार्यसाधकनाम्ना आह्वयन्ति। प्रतिवक्ता किञ्चित् बुद्धिमान् विवेकी वा यदि स्यात् तर्हि सः यथा धनं दद्यात् तथा करोमि अहम् इति। पुनश्च किं वक्तव्यम्। कृपणः विना प्रतिरोधं साहाय्यधनं दत्तवान्।

Translation will appear here. Select a language to translate to …