॥ वाग् यज्ञेन कल्पताम् ॥

See Listen and Chant

These Chanting are to Inspire You for, to Practice and Learn to Chanting Bhagavat Stotram. The occasional drift while highlighting is negligible and unavoidable because of the chanting styles. Some Chanting are collected from Internet, for educative and guided chanting practice and not to infringe any Copyrights.

Ready... Play...

Shrimad Valmiki Ramayanam BK Sarga-5

In this Bala Kaandam, fifth Sarga, of Valmiki Ramayanam, Valmiki Muni, describes Ayodhya City

॥ श्रीमद्वाल्मीकिरामायणम् ॥

॥अथ पञ्चमः सर्गः॥
सर्वा पूर्वमियं येषामासीत्कृत्स्ना वसुंधरा।
प्रजापतिमुपादाय नृपाणां जयशालिनाम्॥१-५-१॥
येषां स सगरो नाम सागरो येन खानितः।
षष्टिः पुत्रसहस्राणि यं यान्तं पर्यवारयन्॥१-५-२॥
इक्ष्वाकूणामिदं तेषां राज्ञां वंशे महात्मनाम्।
महदुत्पन्नमाख्यानं रामायणमिति श्रुतम्॥१-५-३॥
तदिदं वर्तयिष्यावः सर्वं निखिलमादितः।
धर्मकामार्थसहितं श्रोतव्यमनसूयता॥१-५-४॥
कोसलो नाम मुदितः स्फीतो जनपदो महान्।
निविष्टः सरयूतीरे प्रभूतधनधान्यवान्॥१-५-५॥
अयोध्या नाम नगरी तत्रासील्लोकविश्रुता।
मनुना मानवेन्द्रेण या पुरी निर्मिता स्वयम्॥१-५-६॥
आयता दश च द्वे च योजनानि महापुरी।
श्रीमती त्रीणि विस्तीर्णा सुविभक्ता महापथा॥१-५-७॥
राजमार्गेण महता सुविभक्तेन शोभिता।
मुक्तपुष्पावकीर्णेन जलसिक्तेन नित्यशः॥१-५-८॥
तां तु राजा दशरथो महाराष्ट्रविवर्धनः।
पुरीमावासयामास दिवि देवपतिर्यथा॥१-५-९॥
कपाटतोरणवतीं सुविभक्तान्तरापणाम्।
सर्वयन्त्रायुधवतीमुषितां सर्वशिल्पिभिः॥१-५-१०॥
सूतमागधसंबाधां श्रीमातीमतुलप्रभाम्।
उच्चाट्टालध्वजवतीं शतघ्नीशतसंकुलाम्॥१-५-११॥
वधूनाटकसंङ्घैश्च संयुक्तां सर्वतः पुरीम्।
उद्यानाम्रवणोपेतां महतीं सालमेखलाम्॥१-५-१२॥
दुर्गगंभीरपरिखां दुर्गामन्यैर्दुरासदाम्।
वाजिवारणसपूर्णां गोभिरुष्ट्रैः खरैस्तथा॥१-५-१३॥
सामन्तराजसंङ्घैश्च बलिकर्मभिरावृताम्।
नानादेशनिवासैश्च वणिग्भिरुपशोभिताम्॥१-५-१४॥
प्रासादै रत्नविकृतैः पर्वतैरिवशोभिताम्।
कूटागारैश्च सम्पुर्णामिन्द्रस्येवामरावतीम्॥१-५-१५॥
चित्रामष्टापदाकारां वरनारीगणायुताम्।
सर्वरत्नसमाकीर्णां विमानगृहशोभिताम्॥१-५-१६॥
गृहगाढामविच्छिद्रां समभूमौ निवेशिताम्।
शालितण्डुलसम्पूर्णामिक्षुकाण्डरसोदकाम्॥१-५-१७॥
दुन्दुभीभिर्मृदङ्गैश्च वीणाभिः पणवैस्तथा।
नादितां भृशमत्यर्थं पृथिव्यां तामनुत्तमाम्॥१-५-१८॥
विमानमिव सिद्धानां तपसाधिगतं दिवि।
सुनिवेशितवेश्मान्तां नरोत्तमसमावृताम्॥१-५-१९॥
ये च बाणैर्न विध्यन्ति विविक्तमपरापरम्।
शब्दवेध्यं च विततं लयुहस्ता विशारदाः॥१-५-२०॥
सिंहव्याघ्रवराहाणां मत्तानां नदतां वने।
हन्तारो निशितैः शस्त्रैर्बलाद्बाहुबलैरपि॥१-५-२१॥
तादृशानां सहस्रैस्तामभिपूर्णां महारथैः।
पुरीमावासयामास राजा दशरथस्तदा॥१-५-२२॥
तामग्निमद्भिर्गुणवद्भिरावृतां द्विजोत्तमैर्वेदषडङ्गपारगैः।
सहस्रदैः सत्यरतैर्महात्मभिर्महर्षिकल्पैर्ऋषिभिश्च केवलैः॥१-५-२३॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये
बालकाण्डे पञ्चमः सर्गः॥१-५॥

नारदव्याससंवादः भगवद्गुणकर्मवर्णनस्य महत्त्वं देवर्षिनारदकर्तृकं स्वकीयपूर्वजन्मवृत्तान्ताकथनं च - The conversation between Maharshi Vyasa and Dhevarshi Narada, ...
महर्षेर्व्यासस्यापरितोषः तदाश्रमे देवर्शिनारदस्यागमनं च - Maharshi Vyasa's ashrama visited by Dhevarshi Narada. ...
भगवतचतुर्विंशत्यवताराणां संक्षेपतो वर्णनम् - A brief intro about the 24 various incarnation of God Vishnu. ...
सूतप्रतिवचनम् - भगवत्कथायाः श्रवणकीर्तनयोर्निःश्रेयसकरत्वं भवगवद्भक्तेर्माहात्म्यवर्णनं च - The answer given by Suta Maharishi - The ...
Loading story text...
https://www.krishnadhevalipi.org/wp-content/uploads/stories/txt/ra_story_words2104.txt
https://www.krishnadhevalipi.org/wp-content/uploads/stories/json/ra_story2104.json

Details of update

last updated - 23rd May, 2026