॥ वाग् यज्ञेन कल्पताम् ॥

See Listen and Chant

These Chanting are to Inspire You for, to Practice and Learn to Chanting Bhagavat Stotram. The occasional drift while highlighting is negligible and unavoidable because of the chanting styles. Some Chanting are collected from Internet, for educative and guided chanting practice and not to infringe any Copyrights.

Ready... Play...

Shrimad Valmiki Ramayanam BK Sarga-4

In this Bala Kaandam, fourth Sarga, of Valmiki Ramayanam, Valmiki Muni, assigned Lava and Kusha to sing the epic & Shri Rama listents to it

॥ श्रीमद्वाल्मीकिरामायणम् ॥

॥अथ चतुर्थः सर्गः॥
प्राप्तराज्यस्य रामस्य वाल्मीकिर्भगवानृषिः।
चकार चरितं कृत्स्नं विचित्रपदमर्थवत्॥१-४-१॥
चतुर्विंशत्सहस्त्राणि श्लोकानामुक्तवानृषिः।
तथा सर्गशतान् पञ्च षट् काण्डानि तथोत्तरम्॥१-४-२॥
कृत्वापि तन्महाप्राज्ञः सभविष्यं सहोत्तरम्।
चिन्तयामास कोन्वेतत्प्रयुञ्जीयादिति प्रभुः॥१-४-३॥
तस्य चिन्तयमानस्य महर्षेर्भावितात्मनः।
अगृह्णीतां ततः पादौ मुनिवेषौ कुशीलवौ॥१-४-४॥
कुशीलवौ तु धर्मज्ञौ राजपुत्रौ यशस्विनौ।
भ्रातरौ स्वरसम्पन्नौ ददर्शाश्रमवासिनौ॥१-४-५॥
स तु मेधाविनौ दृष्ट्वा वेदेषु परिनिष्ठितौ।
वेदोपबृंहणार्थाय तावग्राहयत प्रभुः॥१-४-६॥
काव्यं रामायणं कृत्स्नं सीतायाश्चरितं महत्।
पौलस्त्यवधमित्येवं चकार चरितव्रतः॥१-४-७॥
पाठ्ये गेये च मधुरं प्रमाणैस्त्रिभिरन्वितम्।
जातिभिः सप्तभिर्युक्तं तन्त्रीलयसमन्वितम्॥१-४-८॥
रसैः शृंगारकरुणहास्यरौद्रभयानकैः।
वीरादिभी रसैर्युक्तं काव्यमेतदगायताम्॥१-४-९॥
तौ तु गान्धर्वतत्त्वज्ञौ स्थानमूर्च्छनकोविदौ।
भ्रातरौ स्वरसम्पन्नौ गन्धर्वाविव रुपिणौ॥१-४-१०॥
रूपलक्षणसम्पन्नौ मधुरस्वरभाषिणौ।
बिम्बादिवोत्थितौ बिम्बौ रामदेहात्तथापरौ॥१-४-११॥
तौ राजपुत्रौ कार्त्स्न्येन धर्म्यमाख्यानमुत्तमम्।
वाचो विधेयं तत्सर्वं कृत्वा काव्यमनिन्दितौ॥१-४-१२॥
ऋषीणां च द्विजातीनां साधूनां च समागमे।
यथोपदेशं तत्त्वज्ञौ जगतुः सुसमाहितौ॥१-४-१३॥
महात्मानौ महाभागौ सर्वलक्षणलक्षितौ।
तौ कदाचित्समेतानामृषीणां भावितात्मनाम्।
मध्येसभं समीपस्थाविदं काव्यमगायताम्॥१-४-१४॥
तच्छ्रुत्वा मुनयः सर्वे बाष्पपर्याकुलेक्षणाः।
साधु साध्विति तावूचुः परं विस्मयमागताः॥१-४-१५॥
ते प्रीतमनसः सर्वे मुनयो धर्मवत्सलाः।
प्रशशंसुः प्रशस्तव्यौ गायमानौ कुशीलवौ॥१-४-१६॥
अहो गीतस्य माधुर्यं श्लोकानां च विशेषतः।
चिरनिर्वृत्तमप्येतत् प्रत्यक्षमिव दर्शितम्॥१-४-१७॥
प्रविश्य तावुभौ सुष्ठु तथा भावमगायताम्।
सहितौ मधुरं रक्तं सम्पन्नं स्वरसम्पदा॥१-४-१८॥
एवं प्रशस्यमानौ तौ तपःश्लाघ्यैर्महर्षिभिः।
संरक्ततरमत्यर्थं मधुरं तावगायताम्॥१-४-१९॥
प्रीतः कश्चिन्मुनिस्ताभ्यां संस्थितः कलशं ददौ।
प्रसन्नो वल्कलं कश्चिद्ददौ ताभ्यां महायशाः॥१-४-२०॥
अन्यः कृष्णाजिनमदाद्यज्ञसूत्रं तथापरः।
कश्चित्कमण्डलुं प्रादान्मौञ्जीमन्यो महामुनिः॥१-४-२१॥
बृसीमन्यस्तदा प्रादात्कौपीनमपरो मुनिः।
ताभ्यां ददौ तदा हृष्टः कुठारमपरो मुनिः॥१-४-२२॥
काषायमपरो वस्त्रं चीरमन्यो ददौ मुनिः।
जटाबन्धनमन्यस्तु काष्ठरज्जुं मुदान्वितः॥१-४-२३॥
यज्ञभाण्डमृषिः कश्चित् काष्ठभारं तथापरः।
औदुम्बरीं बृसीमन्यः स्वस्ति केचित्तदावदन्॥१-४-२४॥
आयुष्यमपरे प्राहुर्मुदा तत्र महर्षयः।
ददुश्चैवं वरान्सर्वे मुनयः सत्यवादिनः॥१-४-२५॥
आश्चर्यमिदमाख्यानं मुनिना सम्प्रकीर्तितम्।
परं कवीनामाधारं समाप्तं च यथाक्रमम्॥१-४-२६॥
अभिगीतमिदं गीतं सर्वगीतेषु कोविदौ।
आयुष्यं पुष्टिजनकं सर्वश्रुतिमनोहरम्॥१-४-२७॥
प्रशस्यमानौ सर्वत्र कदाचित्तत्र गायकौ।
रथ्यासु राजमार्गेषु ददर्श भरताग्रजः॥१-४-२८॥
स्ववेश्म चानीय ततो भ्रातरौ स कुशीलवौ।
पूजयामास पूजार्हौ रामः शत्रुनिबर्हणः॥१-४-२९॥
आसीनः काञ्चने दिव्ये स च सिंहासने प्रभुः।
उपोपविष्टैः सचिवैर्भ्रातृभिश्च समन्वितः॥१-४-३०॥
दृष्ट्वा तु रूपसम्पन्नौ विनीतौ भ्रातरावुभौ।
उवाच लक्ष्मणं रामः शत्रुघ्नं भरतं तथा॥१-४-३१॥
श्रूयतामेतदाख्यानमनयोर्देववर्चसोः।
विचित्रार्थपदं सम्यग्गायकौ समचोदयत्॥१-४-३२॥
तौ चापि मधुरं रक्तं स्वञ्चितायतनिःस्वनम्।
तन्त्रीलयवदत्यर्थं विश्रुतार्थमगायताम्॥१-४-३३॥
ह्लादयत्सर्वगात्राणि मनांसि हृदयानि च।
श्रोत्राश्रयसुखं गेयं तद्बभौ जनसंसदि॥१-४-३४॥
इमौ मुनी पार्थिवलक्षणान्वितौ कुशीलवौ चैव महातपस्विनौ।
ममापि तद् भूतिकरं प्रचक्षते महानुभावं चरितं निबोधत॥१-४-३५॥
ततस्तु तौ रामवचःप्रचोदितावगायतां मार्गविधानसम्पदा।
स चापि रामः परिषद्गतः शनैर्बुभूषया सक्तमना बभूव॥१-४-३६॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये
बालकाण्डे चतुर्थः सर्गः॥१-४॥

प्रियव्रतचरित्रम् । The historical story of Priyavrata. ...
गृहात्प्रव्रजितानां प्रचेतसां नारदोपदेशान्मुक्तिः । Prachetas who left home, obtained liberation from the discourse of Narada ...
दशप्रचेतसां भगवद्दर्शानं वरप्राप्तिश्च तेभ्यो मारिषागर्भाद्दक्षोत्पत्तिश्च । Sighting of Lord Vishnu by Dashaprachetas and getting boon, ...
पुरञ्जनोपाख्यानस्य तात्पर्यं नारदोपदेशः प्राचीनबर्हिषो मुक्तिश्च । The inner meaniing of Puranjana discourse and advise of ...
Loading story text...
https://www.krishnadhevalipi.org/wp-content/uploads/stories/txt/ra_story_words2103.txt
https://www.krishnadhevalipi.org/wp-content/uploads/stories/json/ra_story2103.json

Details of update

last updated - 23rd May, 2026