॥ वाग् यज्ञेन कल्पताम् ॥

See Listen and Chant

These Chanting are to Inspire You for, to Practice and Learn to Chanting Bhagavat Stotram. The occasional drift while highlighting is negligible and unavoidable because of the chanting styles. Some Chanting are collected from Internet, for educative and guided chanting practice and not to infringe any Copyrights.

Ready... Play...

Panini Ashtadhyayi Sutra C7S4

These entire Panini Sutra of all the eight Chapters and four Sections in each chapter, is traditionally chanted and by-heart memorized. This page facilitate you to listen, see and learn to memorize.

॥ पाणिनीय अष्टाध्यायी ॥

॥अथ चतुर्थः पादः॥
णौ चङ्युपधाया ह्रस्वः।
नाग्लोपिशास्वृदिताम्।
भ्राजभासभाषदीपजीवमील पीडामन्यतरस्याम्।
लोपः पिबतेरीच्चाभ्यासस्य।
तिष्ठतेरित्।
जिघ्रतेर्वा।
उरृत्।
नित्यं छन्दसि।
दयतेर्दिगि लिटि।
ऋतश्च संयोगादेर्गुणः।
ऋच्छत्यॄताम्।
श‍ृदॄप्रां ह्रस्वो वा।
केऽणः।
न कपि।
आपोऽन्यतरस्याम्।
ऋदृशोऽङि गुणः।
अस्यतेस्थुक्।
श्वयतेरः।
पतः पुम्।
वच उम्।
शीङः सार्वधातुके गुणः।
अयङ् यि क्ङिति।
उपसर्गाद्ध्रस्व ऊहतेः।
एतेर्लिङि।
अकृत्सार्वधातुकयोर्दीर्घः।
च्वौ च।
रीङ् ऋतः।
रिङ् शयग्लिङ्क्षु।
गुणोऽर्तिसंयोगाद्योः।
यङि च।
ई घ्राध्मोः।
अस्य च्वौ।
क्यचि च।
अशनायोदन्यधनाया बुभुक्षापिपासागर्द्धेषु।
न च्छन्दस्यपुत्रस्य।
दुरस्युर्द्रविणस्युर्वृषण्यतिरिषण्यति।
अश्वाघस्यात्।
देवसुम्नयोर्यजुषि काठके।
कव्यध्वरपृतनस्यर्चि लोपः।
द्यतिस्यतिमास्थामित्ति किति।
शाछोरन्यतरस्याम्।
दधातेर्हिः।
जहातेश्च क्त्वि।
विभाषा छन्दसि।
सुधितवसुधितनेमधितधिष्वधिषीय च।
दो दद् घोः।
अच उपसर्गात्तः।
अपो भि।
सः स्यार्द्धधातुके।
तासस्त्योर्लोपः।
रि च।
ह एति।
यीवर्णयोर्दीधीवेव्योः।
सनि मीमाघुरभलभशकपतपदामच इस्।
आप्ज्ञप्यृधामीत्।
दम्भ इच्च।
मुचोऽकर्मकस्य गुणो वा।
अत्र लोपोऽभ्यासस्य।
ह्रस्वः।
हलादिः शेषः।
शर्पूर्वाः खयः।
कुहोश्चुः।
न कवतेर्यङि।
कृषेश्छन्दसि।
दाधर्तिदर्धर्तिदर्धर्षिबोभूतु तेतिक्तेऽलर्ष्यापनीफणत् संसनिष्यदत्करिक्रत्कनिक्रदद् भरिभ्रद्दविध्वतोदविद्युतत् तरित्रतःसरीसृपतंवरीवृजन्मर्मृज्या गनीगन्तीति च।
उरत्।
द्युतिस्वाप्योः सम्प्रसारणम्।
व्यथो लिटि।
दीर्घ इणः किति।
अतः आदेः।
तस्मान्नुड् द्विहलः।
अश्नोतेश्च।
भवतेरः।
ससूवेति निगमे।
निजां त्रयाणां गुणः श्लौ।
भृञामित्।
अर्तिपिपर्त्योश्च।
बहुलं छन्दसि।
सन्यतः।
ओः पुयण्ज्यपरे।
स्रवतिश‍ृणोतिद्रवति प्रवतिप्लवतिच्यवतीनां वा।
गुणो यङ्लुकोः।
दीर्घोऽकितः।
नीग्वञ्चुस्रंसुध्वंसुभ्रंसु कसपतपदस्कन्दाम्।
नुगतोऽनुनासिकान्तस्य।
जपजभदहदशभञ्जपशां च।
चरफलोश्च।
उत् परस्यातः।
ति च।
रीगृदुपधस्य च।
रुग्रिकौ च लुकि।
ऋतश्च।
सन्वल्लघुनि चङ्परेऽनग्लोपे।
दीर्घो लघोः।
अत् स्मृदृत्वरप्रथम्रदस्तॄस्पशाम्।
विभाषा वेष्टिचेष्ट्योः।
ई च गणः।
॥इति चतुर्थः पादः॥
॥इति सप्तमोऽध्यायः॥

प्रियव्रतचरित्रम् । The historical story of Priyavrata. ...
गृहात्प्रव्रजितानां प्रचेतसां नारदोपदेशान्मुक्तिः । Prachetas who left home, obtained liberation from the discourse of Narada ...
दशप्रचेतसां भगवद्दर्शानं वरप्राप्तिश्च तेभ्यो मारिषागर्भाद्दक्षोत्पत्तिश्च । Sighting of Lord Vishnu by Dashaprachetas and getting boon, ...
पुरञ्जनोपाख्यानस्य तात्पर्यं नारदोपदेशः प्राचीनबर्हिषो मुक्तिश्च । The inner meaniing of Puranjana discourse and advise of ...
Loading story text...
https://www.krishnadhevalipi.org/wp-content/uploads/stories/txt/ra_story_words2078.txt
https://www.krishnadhevalipi.org/wp-content/uploads/stories/json/ra_story2078.json

Details of update

last updated - 23rd May, 2026