॥ वाग् यज्ञेन कल्पताम् ॥

See Listen and Chant

These Chanting are to Inspire You for, to Practice and Learn to Chanting Bhagavat Stotram. The occasional drift while highlighting is negligible and unavoidable because of the chanting styles. Some Chanting are collected from Internet, for educative and guided chanting practice and not to infringe any Copyrights.

Ready... Play...

Panini Ashtadhyayi Sutra C3S4

These entire Panini Sutra of all the eight Chapters and four Sections in each chapter, is traditionally chanted and by-heart memorized. This page facilitate you to listen, see and learn to memorize.

॥ पाणिनीय अष्टाध्यायी ॥

॥अथ चतुर्थः पादः॥
धातुसम्बन्धे प्रत्ययाः।
क्रियासमभिहारे लोट् लोटो हिस्वौ वा च तध्वमोः।
समुच्चयेऽन्यतरस्याम्।
यथाविध्यनुप्रयोगः पूर्वस्मिन्।
समुच्चये सामान्यवचनस्य।
छन्दसि लुङ्लङ्लिटः।
लिङर्थे लेट्।
उपसंवादाशङ्कयोश्च।
तुमर्थे सेसेनसेऽसेन्क्सेकसेनध्यै
अध्यैन्कध्यैकध्यैन् शध्यैशध्यैन्तवैतवेङ्तवेनः।
प्रयै रोहिष्यै अव्यथिष्यै।
दृशे विख्ये च।
शकि णमुल्कमुलौ।
ईश्वरे तोसुन्कसुनौ।
कृत्यार्थे तवैकेन्केन्यत्वनः।
अवचक्षे च।
भावलक्षणे स्थेङ्कृञ्वदिचरिहुतमिज निभ्यस्तोसुन्।
सृपितृदोः कसुन्।
अलङ्खल्वोः प्रतिषेधयोः प्राचां क्त्वा।
उदीचां माङो व्यतीहारे।
परावरयोगे च।
समानकर्तृकयोः पूर्वकाले।
आभीक्ष्ण्ये णमुल् च।
न यद्यनाकाङ्क्षे।
विभाषाऽग्रेप्रथमपूर्वेषु।
कर्मण्याक्रोशे कृञः खमुञ्।
स्वादुमि णमुल्।
अन्यथैवंकथमित्थंसु सिद्धाप्रयोगश्चेत्।
यथातथयोरसूयाप्रतिवचने।
कर्मणि दृशिविदोः साकल्ये।
यावति विन्दजीवोः।
चर्मोदरयोः पूरेः।
वर्षप्रमाण ऊलोपश्चास्यान्यतरास्यम्।
चेले क्नोपेः।
निमूलसमूलयोः कषः।
शुष्कचूर्णरूक्षेषु पिषः।
समूलाकृतजीवेषु हन्कृञ्ग्रहः।
करणे हनः।
स्नेहने पिषः।
हस्ते वर्त्तिग्रहोः।
स्वे पुषः।
अधिकरणे बन्धः।
संज्ञायाम्।
कर्त्रोर्जीवपुरुषयोर्नशिवहोः।
ऊर्ध्वे शुषिपूरोः।
उपमाने कर्मणि च।
कषादिषु यथाविध्यनुप्रयोगः।
उपदंशस्तृतीयायाम्।
हिंसार्थानां च समानकर्मकाणाम्।
सप्तम्यां चोपपीडरुधकर्षः।
समासत्तौ।
प्रमाणे च।
अपादाने परीप्सायाम्।
द्वितीयायां च।
स्वाङ्गेऽध्रुवे।
परिक्लिश्यमाने च।
विशिपतिपदिस्कन्दां व्याप्यमानासेव्यमानयोः।
अस्यतितृषोः क्रियाऽन्तरे कालेषु।
नाम्न्यादिशिग्रहोः।
अव्ययेऽयथाभिप्रेताख्याने कृञः क्त्वाणमुलौ।
तिर्यच्यपवर्गे।
स्वाङ्गे तस्प्रत्यये कृभ्वोः।
नाधाऽर्थप्रत्यये च्व्यर्थे।
तूष्णीमि भुवः।
अन्वच्यानुलोम्ये।
शकधृषज्ञाग्लाघटरभलभक्रम सहार्हास्त्यर्थेषु तुमुन्।
पर्याप्तिवचनेष्वलमर्थेषु।
कर्तरि कृत्।
भव्यगेयप्रवचनीयोपस्थानीय जन्याप्लाव्यापात्या वा।
लः कर्मणि च भावे चाकर्मकेभ्यः।।
तयोरेव कृत्यक्तखलर्थाः।
अदिकर्मणि क्तः कर्तरि च।
गत्यर्थाकर्मकश्लिषशीङ्स्थाऽऽस वसजनरुहजीर्यतिभ्यश्च।
दाशगोघ्नौ सम्प्रदाने।
भीमादयोऽपादाने।
ताभ्यामन्यत्रोणादयः।
क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः।
लस्य।
तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्।
टित आत्मनेपदानां टेरे।
थासस्से।
लिटस्तझयोरेशिरेच्।
परस्मैपदानां णलतुसुस्थलथुसणल्वमाः।
विदो लटो वा।
ब्रुवः पञ्चानामादित आहो ब्रुवः।
लोटो लङ्वत्।
एरुः।
सेर्ह्यपिच्च।
वा छन्दसि।
मेर्निः।
आमेतः।
सवाभ्यां वामौ।
आडुत्तमस्य पिच्च।
एत ऐ।
लेटोऽडाटौ।
आत ऐ।
वैतोऽन्यत्र।
इतश्च लोपः परस्मैपदेषु।
स उत्तमस्य।
नित्यं ङितः।
इतश्च।
तस्थस्थमिपां तांतंतामः।
लिङस्सीयुट्।
यासुट् परस्मैपदेषूदात्तो ङिच्च।
किदाशिषि।
झस्य रन्।
इटोऽत्।
सुट् तिथोः।
झेर्जुस्।
सिजभ्यस्तविदिभ्यः च।
आतः।
लङः शाकटायनस्यैव।
द्विषश्च।
तिङ्शित्सार्वधातुकम्।
आर्द्धधातुकं शेषः।
लिट् च।
लिङाशिषि।
छन्दस्युभयथा।
॥इति चतुर्थः पादः॥
॥इति तृतीयोऽध्यायः॥

नारदव्याससंवादः भगवद्गुणकर्मवर्णनस्य महत्त्वं देवर्षिनारदकर्तृकं स्वकीयपूर्वजन्मवृत्तान्ताकथनं च - The conversation between Maharshi Vyasa and Dhevarshi Narada, ...
महर्षेर्व्यासस्यापरितोषः तदाश्रमे देवर्शिनारदस्यागमनं च - Maharshi Vyasa's ashrama visited by Dhevarshi Narada. ...
भगवतचतुर्विंशत्यवताराणां संक्षेपतो वर्णनम् - A brief intro about the 24 various incarnation of God Vishnu. ...
सूतप्रतिवचनम् - भगवत्कथायाः श्रवणकीर्तनयोर्निःश्रेयसकरत्वं भवगवद्भक्तेर्माहात्म्यवर्णनं च - The answer given by Suta Maharishi - The ...
Loading story text...
https://www.krishnadhevalipi.org/wp-content/uploads/stories/txt/ra_story_words2062.txt
https://www.krishnadhevalipi.org/wp-content/uploads/stories/json/ra_story2062.json

Details of update

last updated - 23rd May, 2026