॥द्वितीयः पादः॥
पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे।
अर्धं नपुंसकम्।
द्वितीयतृतीयचतुर्थतुर्याण्यन्यतरस्याम्।
प्राप्तापन्ने च द्वितीयया।
कालाः परिमाणिना।
नञ्।
ईषदकृता।
षष्ठी।
याजकादिभिश्च।
न निर्धारणे।
पूरणगुणसुहितार्थसदव्ययतव्य
समानाधिकरणेन।
क्तेन च पूजायाम्।
अधिकरणवाचिना च।
कर्मणि च।
तृजकाभ्यां कर्तरि।
कर्तरि च।
नित्यं क्रीडाजीविकयोः।
कुगतिप्रादयः।
उपपदमतिङ्।
अमैवाव्ययेन।
तृतीयाप्रभृतीन्यन्यतरस्याम्।
क्त्वा च।
शेषो बहुव्रीहिः।
अनेकमन्यपदार्थे।
सङ्ख्ययाऽव्ययासन्नादूराधिकसङ्ख्याः सङ्ख्येये।
दिङ्नामान्यन्तराले।
तत्र तेनेदमिति सरूपे।
तेन सहेति तुल्ययोगे।
चार्थे द्वन्द्वः।
उपसर्जनं पूर्वम्।
राजदन्तादिषु परम्।
द्वन्द्वे घि।
अजाद्यदन्तम्।
अल्पाच्तरम्।
सप्तमीविशेषणे बहुव्रीहौ।
निष्ठा।
वाहिताग्न्यादिषु।
कडाराः कर्मधारये।
॥इति द्वितीयः पादः॥