॥चतुर्थः पादः॥
आ कडारादेका सञ्ज्ञा।
विप्रतिषेधे परं कार्यम्।
यू स्त्र्याख्यौ नदी।
नेयङुवङ्स्थानावस्त्री।
वाऽऽमि।
ङिति ह्रस्वश्च।
शेषो घ्यसखि।
पतिः समास एव।
षष्टीयुक्तश्छन्दसि वा।
ह्रस्वं लघु।
संयोगे गुरु।
दीर्घं च।
यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्।
सुप्तिङन्तं पदम्।
नः क्ये।
सिति च।
स्वादिष्वसर्वनामस्थाने।
यचि भम्।
तसौ मत्वर्थे।
अयस्मयादीनिच्छन्दसि।
बहुषु बहुवचनम्।
द्वयेकयोर्द्विवचनैकवचने।
कारके।
ध्रुवमपायेऽपादानम्।
भीत्रार्थानां भयहेतुः।
पराजेरसोढः।
वारणार्थानामीप्सितः।
अन्तर्धौ येनादर्शनमिच्छति।
आख्यातोपयोगे।
जनिकर्तुः प्रकृतिः।
भुवः प्रभवः।
कर्मणा यमभिप्रैति स सम्प्रदानम्।
रुच्यर्थानां प्रीयमाणः।
श्लाघहनुङ्स्थाशपां ज्ञीप्स्यमानः।
धारेरुत्तमर्णः।
स्पृहेरीप्सितः।
क्रुधद्रुहेर्ष्यासूयार्थानां यं प्रति कोपः।
क्रुधद्रुहोरुपसृष्टयोः कर्म।
राधीक्ष्योर्यस्य विप्रश्नः।
प्रत्याङ्भ्यां श्रुवः पूर्वस्य कर्ता।
अनुप्रतिगृणश्च।
साधकतमं करणम्।
दिवः कर्म च।
परिक्रयणे सम्प्रदानमन्यतरस्याम्।
आधारोऽधिकरणम्।
अधिशीङ्स्थासां कर्म।
अभिनिविशश्च।
उपान्वध्याङ्वसः।
कर्तुरीप्सिततमं कर्म।
तथायुक्तं चानीप्सितम्।
अकथितं च।
गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ।
हृक्रोरन्यतरस्याम्।
स्वतन्त्रः कर्ता।
तत्प्रयोजको हेतुश्च।
प्राग्रीश्वरान्निपाताः।
चादयोऽसत्त्वे।
प्रादयः।
उपसर्गाः क्रियायोगे।
गतिश्च।
ऊर्यादिच्विडाचश्च।
अनुकरणं चानितिपरम्।
आदरानादरयोः सदसती।
भूषणेऽलम्।
अन्तरपरिग्रहे।
कणेमनसी श्रद्धाप्रतीघाते।
पुरोऽव्ययम्।
अस्तं च।
अच्छ गत्यर्थवदेषु।
अदोऽनुपदेशे।
तिरोऽन्तर्धौ।
विभाषा कृञि।
उपाजेऽन्वाजे।
साक्षात्प्रभृतीनि च।
अनत्याधान उरसिमनसी।
मध्ये पदे निवचने च।
नित्यं हस्ते पाणावुपयमने।
प्राध्वं बन्धने।
जीविकोपनिषदावौपम्ये।
ते प्राग्धातोः।
छन्दसि परेऽपि।
व्यवहिताश्च।
कर्मप्रवचनीयाः।
अनुर्लक्षणे।
तृतीयार्थे।
हीने।
उपोऽधिके च।
अपपरी वर्जने।
आङ् मर्यादावचने।
लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः।
अभिरभागे।
प्रतिः प्रतिनिधिप्रतिदानयोः।
अधिपरी अनर्थकौ।
सुः पूजायाम्।
अतिरतिक्रमणे च।
अपिः पदार्थसम्भावनान्ववसर्गगर्हासमुच्चयेषु।
अधिरीश्वरे।
विभाषा कृञि।
लः परस्मैपदम्।
तङानावात्मनेपदम्।
तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः।
तान्येकवचनद्विवचनबहुवचनान्येकशः।
सुपः।
विभक्तिश्च।
युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः।
प्रहासे च मन्योपपदे मन्यतेरुत्तम एकवच्च।
अस्मद्युत्तमः।
शेषे प्रथमः।
परः सन्निकर्षः संहिता।
विरामोऽवसानम्।
॥इति चतुर्थः पादः॥
॥इति प्रथमोऽध्यायः॥