॥ वाग् यज्ञेन कल्पताम् ॥

See Listen and Chant

These Chanting are to Inspire You for, to Practice and Learn to Chanting Bhagavat Stotram. The occasional drift while highlighting is negligible and unavoidable because of the chanting styles. Some Chanting are collected from Internet, for educative and guided chanting practice and not to infringe any Copyrights.

Ready... Play...

Bhagavata Puranam C5S7

भरतॊपाख्यानं भरतस्य पुलहाश्रमगमनं तपश्चरणं च। The teachings of Bharat and Bharat going to Pulaha’s Ashramam etc.

॥ श्रीमद्भागवतमहापुराणम् ॥

ॐ श्रीमद्भागवते पञ्चमस्कन्धे अथ सप्तमोऽध्यायः।
श्रीशुक उवाच ।
भरतस्तु महाभागवतो यदा भगवतावनितल-
परिपालनाय सञ्चिन्तितस्तदनुशासनपरः
पञ्चजनीं विश्वरूपदुहितरमुपयेमे ॥ १॥
तस्यामु ह वा आत्मजान् कार्त्स्न्येनानुरूपा-
नात्मनः पञ्च जनयामास भूतादिरिव
भूतसूक्ष्माणि सुमतिं राष्ट्रभृतं सुदर्शनमावरणं
धूम्रकेतुमिति ॥ २॥
अजनाभं नामैतद्वर्षं भारतमिति यत आरभ्य
व्यपदिशन्ति ॥ ३॥
स बहुविन्महीपतिः पितृपितामहवदुरुवत्सलतया
स्वे स्वे कर्मणि वर्तमानाः प्रजाः स्वधर्ममनुवर्तमानः
पर्यपालयत् ॥ ४॥
ईजे च भगवन्तं यज्ञक्रतुरूपं क्रतुभिरुच्चावचैः
श्रद्धयाऽऽहृताग्निहोत्रदर्शपूर्णमासचातुर्मास्य-
पशुसोमानां प्रकृतिविकृतिभिरनुसवनं
चातुर्होत्रविधिना ॥ ५॥
सम्प्रचरत्सु नानायागेषु विरचिताङ्गक्रियेष्वपूर्वं
यत्तत्क्रियाफलं धर्माख्यं परे ब्रह्मणि यज्ञपुरुषे
सर्वदेवतालिङ्गानां मन्त्राणामर्थनियामकतया
साक्षात्कर्तरि परदेवतायां भगवति वासुदेव एव
भावयमान आत्मनैपुण्यमृदितकषायो
हविःष्वध्वर्युभिर्गृह्यमाणेषु स यजमानो यज्ञभाजो
देवांस्तान् पुरुषावयवेष्वभ्यध्यायत् ॥ ६॥
एवं कर्मविशुद्ध्या विशुद्धसत्त्वस्यान्तर्हृदयाकाश-
शरीरे ब्रह्मणि भगवति वासुदेवे महापुरुषरूपो-
पलक्षणे श्रीवत्सकौस्तुभवनमालादरगदादिभि-
रुपलक्षिते निजपुरुषहृल्लिखितेनात्मनि पुरुषरूपेण
विरोचमान उच्चैस्तरां भक्तिमनुदिनमेधमान-
रजयाजायत ॥ ७॥
एवं वर्षायुतसहस्रपर्यन्तावसितकर्मनिर्वाणावसरो-
ऽधिभुज्यमानं स्वतनयेभ्यो रिक्थं पितृपैतामहं
यथादायं विभज्य स्वयं सकलसम्पन्निकेतात्पुलहाश्रमं
प्रवव्राज ॥ ८॥
यत्र ह वाव भगवान् हरिरद्यापि तत्रत्यानां निजजनानां
वात्सल्येन सन्निधाप्यत इच्छारूपेण ॥ ९॥
यत्राश्रमपदान्युभयतो नाभिभिर्दृषच्चक्रैश्चक्रनदी
नाम सरित्प्रवरा सर्वतः पवित्रीकरोति ॥ १०॥
तस्मिन् वाव किल स एकलः पुलहाश्रमोपवने
विविधकुसुमकिसलयतुलसिकाम्बुभिः कन्दमूल-
फलोपहारैश्च समीहमानो भगवत आराधनं विविक्त
उपरतविषयाभिलाष उपभृतोपशमः परां
निर्वृतिमवाप ॥ ११॥
तयेत्थमविरतपुरुषपरिचर्यया भगवति प्रवर्धमाना-
नुरागभरद्रुतहृदयशैथिल्यः प्रहर्षवेगेनात्मन्युद्भिद्य-
मानरोमपुलककुलकौत्कण्ठ्यप्रवृत्तप्रणयबाष्पनिरुद्धा-
वलोकनयन एवं निजरमणारुणचरणारविन्दानुध्यान-
परिचितभक्तियोगेन परिप्लुतपरमाह्लादगम्भीरहृदय-
ह्रदावगाढधिषणस्तामपि क्रियमाणां भगवत्सपर्यां
न सस्मार ॥ १२॥
इत्थं धृतभगवद्व्रत ऐणेयाजिनवाससानुसवनाभिषेकार्द्र-
कपिशकुटिलजटाकलापेन च विरोचमानः सूर्यर्चा
भगवन्तं हिरण्मयं पुरुषमुज्जिहाने सूर्यमण्डलेऽभ्युपतिष्ठ-
न्नेतदु होवाच ॥ १३॥
परो रजः सवितुर्जातवेदो
देवस्य भर्गो मनसेदं जजान ।
सुरेतसादः पुनराविश्य चष्टे
हंसं गृध्राणं नृषद्रिङ्गिरामिमः ॥ १४॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे भरतचरिते भगवत्परिचर्यायां सप्तमोऽध्यायः ॥ ७॥

अक्रूरस्य हस्तिनापुरॆ गमनं कुन्त्याः करुणॊद्गारः अक्रूरधृतराष्ट्रसंवादः अक्रूरस्य पुनर्यदुपुर्यामागमनं च । Akrura reaching Hastinapura, meeeting Kunti ...
भगवता कुब्जामनॊरथपूर्तिः अक्रूरगृहं गत्वा पाण्डवसमाचारज्ञानायाक्रूरस्य हस्तिनापुरं प्रति प्रस्थापनं च । Blessing the wishes of Dward ...
उद्धवगॊपीसंवादः भ्रमरगीतम् उद्धवस्य मथुरागमनं च । Conversation between herdswomen and Uddhava and songs in praise ...
स्वविरहार्तगॊपगॊपीनां सन्त्वनाय भगवतॊद्धवस्य प्रस्थापनम् नन्दॊद्धवसंवादश्च । Uddhava is sent to console the herdswomen in Gokula ...
Loading story text...
https://www.krishnadhevalipi.org/wp-content/uploads/stories/txt/ra_story_words3099.txt
https://www.krishnadhevalipi.org/wp-content/uploads/stories/json/ra_story3099.json

Details of update

last updated - 12th November, 2026