ॐ श्रीमद्भागवते पञ्चमस्कन्धे अथ षष्ठोऽध्यायः।
राजोवाच।
न नूनं भगव आत्मारामाणां योगसमीरितज्ञानावभर्जित-
कर्मबीजानां ऐश्वर्याणि पुनः क्लेशदानि भवितुमर्हन्ति
यदृच्छयोपगतानि॥१॥
ऋषिरुवाच।
सत्यमुक्तं किन्त्विह वा एके न मनसोऽद्धा विश्रम्भ-
मनवस्थानस्य शठकिरात इव सङ्गच्छन्ते॥२॥
तथा चोक्तं –
न कुर्यात्कर्हिचित्सख्यं मनसि ह्यनवस्थिते।
यद्विश्रम्भाच्चिराच्चीर्णं चस्कन्द तप ऐश्वरम्॥३॥
नित्यं ददाति कामस्य च्छिद्रं तमनु येऽरयः।
योगिनः कृतमैत्रस्य पत्युर्जायेव पुंश्चली॥४॥
कामो मन्युर्मदो लोभः शोकमोहभयादयः।
कर्मबन्धश्च यन्मूलः स्वीकुर्यात्को नु तद्बुधः॥५॥
अथैवमखिललोकपालललामोऽपि
विलक्षणैर्जडवदवधूतवेषभाषाचरितै-
रविलक्षितभगवत्प्रभावो योगिनां
साम्परायविधिमनुशिक्षयन् स्वकलेवरं
जिहासुरात्मन्यात्मानमसंव्यवहित-
मनर्थान्तरभावेनान्वीक्षमाण
उपरतानुवृत्तिरुपरराम॥६॥
तस्य ह वा एवं मुक्तलिङ्गस्य भगवत
ऋषभस्य योगमायावासनया देह इमां
जगतीमभिमानाभासेन सङ्क्रममाणः
कोङ्कवेङ्ककुटकान् दक्षिणकर्णाटकान्
देशान् यदृच्छयोपगतः कुटकाचलोपवन
आस्यकृताश्मकवल उन्माद इव
मुक्तमूर्धजोऽसंवीत एव विचचार॥७॥
अथ समीरवेगविधूतवेणुविकर्षणजातोग्र-
दावानलस्तद्वनमालेलिहानः सह तेन ददाह॥८॥
यस्य किलानुचरितमुपाकर्ण्य कोङ्कवेङ्ककुटकानां
राजार्हन्नामोपशिक्ष्य कलावधर्म उत्कृष्यमाणे
भवितव्येन विमोहितः स्वधर्मपथमकुतोभयमपहाय
कुपथपाखण्डमसमञ्जसं निजमनीषया मन्दः
सम्प्रवर्तयिष्यते॥९॥
येन ह वाव कलौ मनुजापसदा देवमायामोहिताः
स्वविधिनियोगशौचचारित्रविहीना देवहेलना-
न्यपव्रतानि निजनिजेच्छया गृह्णाना अस्नाना-
नाचमनाशौचकेशोल्लुञ्चनादीनि कलिनाधर्मबहुलेनो-
पहतधियो ब्रह्मब्राह्मणयज्ञपुरुषलोकविदूषकाः
प्रायेण भविष्यन्ति॥१०॥
ते च ह्यर्वाक्तनया निजलोकयात्रयान्धपरम्परया-
ऽऽश्वस्तास्तमस्यन्धे स्वयमेव प्रपतिष्यन्ति॥११॥
अयमवतारो रजसोपप्लुतकैवल्योपशिक्षणार्थः॥१२॥
तस्यानुगुणान् श्लोकान् गायन्ति –
अहो भुवः सप्तसमुद्रवत्या
द्वीपेषु वर्षेष्वधिपुण्यमेतत्।
गायन्ति यत्रत्यजना मुरारेः
कर्माणि भद्राण्यवतारवन्ति॥१३॥
अहो नु वंशो यशसावदातः
प्रैयव्रतो यत्र पुमान् पुराणः।
कृतावतारः पुरुषः स आद्य-
श्चचार धर्मं यदकर्महेतुम्॥१४॥
को न्वस्य काष्ठामपरोऽनुगच्छे-
न्मनोरथेनाप्यभवस्य योगी।
यो योगमायाः स्पृहयत्युदस्ता
ह्यसत्तया येन कृतप्रयत्नाः॥१५॥
इति ह स्म सकलवेदलोकदेवब्राह्मणगवां
परमगुरोर्भगवत ऋषभाख्यस्य विशुद्धाचरितमीरितं
पुंसां समस्तदुश्चरिताभिहरणं परममहामङ्गलायन-
मिदमनुश्रद्धयोपचितयानुशृणोत्याश्रावयति वावहितो
भगवति तस्मिन् वासुदेव एकान्ततो भक्तिरनयोरपि
समनुवर्तते॥१६॥
यस्यामेव कवय आत्मानमविरतं विविधवृजिनसंसार-
परितापोपतप्यमानमनुसवनं स्नापयन्तस्तयैव परया
निर्वृत्या ह्यपवर्गमात्यन्तिकं परमपुरुषार्थमपि
स्वयमासादितं नो एवाद्रियन्ते भगवदीयत्वेनैव
परिसमाप्तसर्वार्थाः॥१७॥
राजन् पतिर्गुरुरलं भवतां यदूनां
दैवं प्रियः कुलपतिः क्व च किङ्करो वः।
अस्त्वेवमङ्ग भगवान् भजतां मुकुन्दो
मुक्तिं ददाति कर्हिचित्स्म न भक्तियोगम्॥१८॥
नित्यानुभूतनिजलाभनिवृत्ततृष्णः
श्रेयस्यतद्रचनया चिरसुप्तबुद्धेः।
लोकस्य यः करुणयाभयमात्मलोक-
माख्यान्नमो भगवते ऋषभाय तस्मै॥१९॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे ऋषभदेवानुचरिते षष्ठोऽध्यायः॥६॥