॥ वाग् यज्ञेन कल्पताम् ॥

See Listen and Chant

These Chanting are to Inspire You for, to Practice and Learn to Chanting Bhagavat Stotram. The occasional drift while highlighting is negligible and unavoidable because of the chanting styles. Some Chanting are collected from Internet, for educative and guided chanting practice and not to infringe any Copyrights.

Ready... Play...

Bhagavata Puranam C5S22

चन्द्रादिग्रहाणां स्थितॆर्गतॆश्च वर्णनम् । Explanations of Moon and other Planets etc.

॥ श्रीमद्भागवतमहापुराणम् ॥

ॐ श्रीमद्भागवते पञ्चमस्कन्धे अथ द्वाविंशोऽध्यायः।
राजोवाच ।
यदेतद्भगवत आदित्यस्य मेरुं ध्रुवं च प्रदक्षिणेन
परिक्रामतो राशीनामभिमुखं प्रचलितं चाप्रदक्षिणं
भगवतोपवर्णितममुष्य वयं कथमनुमिमीमहीति ॥ १॥
स होवाच ।
यथा कुलालचक्रेण भ्रमता सह भ्रमतां तदाश्रयाणां
पिपीलिकादीनां गतिरन्यैव प्रदेशान्तरेष्वप्युपलभ्य-
मानत्वादेवं नक्षत्रराशिभिरुपलक्षितेन कालचक्रेण ध्रुवं
मेरुं च प्रदक्षिणेन परिधावता सह परिधावमानानां
तदाश्रयाणां सूर्यादीनां ग्रहाणां गतिरन्यैव नक्षत्रान्तरे
राश्यन्तरे चोपलभ्यमानत्वात् ॥ २॥
स एष भगवानादिपुरुष एव साक्षान्नारायणो
लोकानां स्वस्तय आत्मानं त्रयीमयं कर्मविशुद्धि-
निमित्तं कविभिरपि च वेदेन विजिज्ञास्यमानो
द्वादशधा विभज्य षट्सु वसन्तादिष्वृतुषु
यथोपजोषमृतुगुणान् विदधाति ॥ ३॥
तमेतमिह पुरुषास्त्रय्या विद्यया वर्णाश्रमा-
चारानुपथा उच्चावचैः कर्मभिराम्नातैर्योगवितानैश्च
श्रद्धया यजन्तोऽञ्जसा श्रेयः समधिगच्छन्ति ॥ ४॥
अथ स एष आत्मा लोकानां द्यावापृथिव्योरन्तरेण
नभोवलयस्य कालचक्रगतो द्वादशमासान् भुङ्क्ते
राशिसंज्ञान् संवत्सरावयवान् मासः पक्षद्वयं दिवा
नक्तं चेति सपादर्क्षद्वयमुपदिशन्ति यावता षष्ठमंशं
भुञ्जीत स वै ऋतुरित्युपदिश्यते संवत्सरावयवः ॥ ५॥
अथ च यावतार्धेन नभोवीथ्यां प्रचरति तं
कालमयनमाचक्षते ॥ ६॥
अथ च यावन्नभोमण्डलं सह द्यावापृथिव्यो-
र्मण्डलाभ्यां कार्त्स्न्येन स ह भुञ्जीत तं कालं
संवत्सरं परिवत्सरमिडावत्सरमनुवत्सरं
वत्सरमिति भानोर्मान्द्यशैघ्र्यसमगतिभिः
समामनन्ति ॥ ७॥
एवं चन्द्रमा अर्कगभस्तिभ्य उपरिष्टाल्लक्षयोजनत
उपलभ्यमानोऽर्कस्य संवत्सरभुक्तिं पक्षाभ्यां
मासभुक्तिं सपादर्क्षाभ्यां दिनेनैव पक्षभुक्तिमग्रचारी
द्रुततरगमनो भुङ्क्ते ॥ ८॥
अथ चापूर्यमाणाभिश्च कलाभिरमराणां
क्षीयमाणाभिश्च कलाभिः पितॄणामहोरात्राणि
पूर्वपक्षापरपक्षाभ्यां वितन्वानः सर्वजीव-
निवहप्राणो जीवश्चैकमेकं नक्षत्रं त्रिंशता
मुहूर्तैर्भुङ्क्ते ॥ ९॥
य एष षोडशकलः पुरुषो भगवान् मनोमयो-
ऽन्नमयोऽमृतमयो देवपितृमनुष्यभूतपशुपक्षि-
सरीसृपवीरुधां प्राणाप्यायनशीलत्वात्सर्वमय
इति वर्णयन्ति ॥ १०॥
तत उपरिष्टात्त्रिलक्षयोजनतो नक्षत्राणि मेरुं
दक्षिणेनैव कालायन ईश्वरयोजितानि
सहाभिजिताष्टाविंशतिः ॥ ११॥
तत उपरिष्टादुशना द्विलक्षयोजनत उपलभ्यते
पुरतः पश्चात्सहैव वार्कस्य शैघ्र्यमान्द्यसाम्याभि-
र्गतिभिरर्कवच्चरति लोकानां नित्यदानुकूल एव
प्रायेण वर्षयंश्चारेणानुमीयते स वृष्टिविष्टम्भ-
ग्रहोपशमनः ॥ १२॥
उशनसा बुधो व्याख्यातस्तत उपरिष्टाद्द्विलक्ष-
योजनतो बुधः सोमसुत उपलभ्यमानःप्रायेण
शुभकृद्यदार्काद्व्यतिरिच्येत तदातिवाताभ्रप्राया-
नावृष्ट्यादि भयमाशंसते ॥ १३॥
अत ऊर्ध्वमङ्गारकोऽपि योजनलक्षद्वितय
उपलभ्यमानस्त्रिभिस्त्रिभिः पक्षैरेकैकशो
राशीन् द्वादशानुभुङ्क्ते यदि न वक्रेणाभिवर्तते
प्रायेणाशुभग्रहोऽघशंसः ॥ १४॥
तत उपरिष्टाद्द्विलक्षयोजनान्तरगतो
भगवान् बृहस्पतिरेकैकस्मिन् राशौ
परिवत्सरं परिवत्सरं चरति यदि न वक्रः
स्यात्प्रायेणानुकूलो ब्राह्मणकुलस्य ॥ १५॥
तत उपरिष्टाद्योजनलक्षद्वयात्प्रतीयमानः
शनैश्चर एकैकस्मिन् राशौ त्रिंशन्मासान्
विलम्बमानः सर्वानेवानुपर्येति तावद्भि-
रनुवत्सरैः प्रायेण हि सर्वेषामशान्तिकरः ॥ १६॥
तत उत्तरस्मादृषय एकादशलक्षयोजनान्तर
उपलभ्यन्ते य एव लोकानां शमनुभावयन्तो
भगवतो विष्णोर्यत्परमं पदं प्रदक्षिणं प्रक्रमन्ति ॥ १७॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे ज्योतिश्चक्रवर्णने द्वाविंशोऽध्यायः ॥ २२॥

वॆणुनादं श्रुत्वा आगतानां गॊपीनां श्रीकृष्णॆन सह संवादः रासारम्भः तासां मानापनॊदाय भगवतॊऽन्तर्धानं च । The conversation ...
विकालॆऽवगाहनाद् वरुणदूतॆन वरुणालयं नीतस्य नन्दस्य भगवता पुनरानयनम् । Bringing back Nanda from Varuna abode by ...
विगतमदस्यॆन्द्रस्य श्रीकृष्णसन्निधौ क्षमाप्रार्थनं कामधॆन्विन्द्राभ्यां श्रीकृष्णस्याभिषॆकश्च । Having tamed by Bhagavan Krishna and lost his pride ...
श्रीकृष्णस्यालौकिकम् प्रभावं दृष्ट्वा चकितान् गॊपान् प्रति नन्दस्य गर्गॊक्तिकथनम् । Seeing the extra celestial power of ...
Loading story text...
https://www.krishnadhevalipi.org/wp-content/uploads/stories/txt/ra_story_words3114.txt
https://www.krishnadhevalipi.org/wp-content/uploads/stories/json/ra_story3114.json

Details of update

last updated - 12th November, 2026