॥ वाग् यज्ञेन कल्पताम् ॥

See Listen and Chant

These Chanting are to Inspire You for, to Practice and Learn to Chanting Bhagavat Stotram. The occasional drift while highlighting is negligible and unavoidable because of the chanting styles. Some Chanting are collected from Internet, for educative and guided chanting practice and not to infringe any Copyrights.

Ready... Play...

Bhagavata Puranam C4S8

प्रतिसर्गवर्णने ध्रुवोपाख्यानम् विमातुर्दुरुक्त्या विद्धस्य ध्रुवस्य वनगमनं तत्र नारदोपदेशेन भगवादाराधनं च । While explaining the evolution of humans, explanation of Dhruva, by the abusing of step mother Dhruva went to forest and there from the advice of Narada Maharshi, Dhruva sat on deep meditation and praising of Lord Vishnu etc.

॥ श्रीमद्भागवतमहापुराणम् ॥

ॐ श्रीमद्भागवते चतुर्थस्कन्धे अथ अष्टमोऽध्यायः।
मैत्रेय उवाच।
सनकाद्या नारदश्च ऋभुर्हंसोऽरुणिर्यतिः।
नैते गृहान् ब्रह्मसुता ह्यावसन्नूर्ध्वरेतसः॥१॥
मृषाधर्मस्य भार्यासीद्दम्भं मायां च शत्रुहन्।
असूत मिथुनं तत्तु निरृतिर्जगृहेऽप्रजः॥२॥
तयोः समभवल्लोभो निकृतिश्च महामते।
ताभ्यां क्रोधश्च हिंसा च यद्दुरुक्तिः स्वसा कलिः॥३॥
दुरुक्तौ कलिराधत्त भयं मृत्युं च सत्तम।
तयोश्च मिथुनं जज्ञे यातना निरयस्तथा॥४॥
सङ्ग्रहेण मयाऽऽख्यातः प्रतिसर्गस्तवानघ।
त्रिः श्रुत्वैतत्पुमान् पुण्यं विधुनोत्यात्मनो मलम्॥५॥
अथातः कीर्तये वंशं पुण्यकीर्तेः कुरूद्वह।
स्वायम्भुवस्यापि मनोर्हरेरंशांशजन्मनः॥६॥
प्रियव्रतोत्तानपादौ शतरूपापतेः सुतौ।
वासुदेवस्य कलया रक्षायां जगतः स्थितौ॥७॥
जाये उत्तानपादस्य सुनीतिः सुरुचिस्तयोः।
सुरुचिः प्रेयसी पत्युर्नेतरा यत्सुतो ध्रुवः॥८॥
एकदा सुरुचेः पुत्रमङ्कमारोप्य लालयन्।
उत्तमं नारुरुक्षन्तं ध्रुवं राजाभ्यनन्दत॥९॥
तथा चिकीर्षमाणं तं सपत्न्यास्तनयं ध्रुवम्।
सुरुचिः श‍ृण्वतो राज्ञः सेर्ष्यमाहातिगर्विता॥१०॥
न वत्स नृपतेर्धिष्ण्यं भवानारोढुमर्हति।
न गृहीतो मया यत्त्वं कुक्षावपि नृपात्मजः॥११॥
बालोऽसि बत नात्मानमन्यस्त्रीगर्भसम्भृतम्।
नूनं वेद भवान् यस्य दुर्लभेऽर्थे मनोरथः॥१२॥
तपसाऽऽराध्य पुरुषं तस्यैवानुग्रहेण मे।
गर्भे त्वं साधयात्मानं यदीच्छसि नृपासनम्॥१३॥
मैत्रेय उवाच।
मातुः सपत्न्याः स दुरुक्तिविद्धः
श्वसन् रुषा दण्डहतो यथाहिः।
हित्वा मिषन्तं पितरं सन्नवाचं
जगाम मातुः प्ररुदन् सकाशम्॥१४॥
तं निःश्वसन्तं स्फुरिताधरोष्ठं
सुनीतिरुत्सङ्ग उदूह्य बालम्।
निशम्य तत्पौरमुखान्नितान्तं
सा विव्यथे यद्गदितं सपत्न्या॥१५॥
सोत्सृज्य धैर्यं विललाप शोक-
दावाग्निना दावलतेव बाला।
वाक्यं सपत्न्याः स्मरती सरोज-
श्रिया दृशा बाष्पकलामुवाह॥१६॥
दीर्घं श्वसन्ती वृजिनस्य पार-
मपश्यती बालकमाह बाला।
मामङ्गलं तात परेषु मंस्था
भुङ्क्ते जनो यत्परदुःखदस्तत्॥१७॥
सत्यं सुरुच्याभिहितं भवान् मे
यद्दुर्भगाया उदरे गृहीतः।
स्तन्येन वृद्धश्च विलज्जते यां
भार्येति वा वोढुमिडस्पतिर्माम्॥१८॥
आतिष्ठ तत्तात विमत्सरस्त्व-
मुक्तं समात्रापि यदव्यलीकम्।
आराधयाधोक्षजपादपद्मं
यदीच्छसेऽध्यासनमुत्तमो यथा॥१९॥
यस्याङ्घ्रिपद्मं परिचर्य विश्व-
विभावनायात्तगुणाभिपत्तेः।
अजोऽध्यतिष्ठत्खलु पारमेष्ठ्यं
पदं जितात्मश्वसनाभिवन्द्यम्॥२०॥
तथा मनुर्वो भगवान् पितामहो
यमेकमत्या पुरुदक्षिणैर्मखैः।
इष्ट्वाभिपेदे दुरवापमन्यतो
भौमं सुखं दिव्यमथापवर्ग्यम्॥२१॥
तमेव वत्साश्रय भृत्यवत्सलं
मुमुक्षुभिर्मृग्यपदाब्जपद्धतिम्।
अनन्यभावे निजधर्मभाविते
मनस्यवस्थाप्य भजस्व पूरुषम्॥२२॥
नान्यं ततः पद्मपलाशलोचना-
द्दुःखच्छिदं ते मृगयामि कञ्चन।
यो मृग्यते हस्तगृहीतपद्मया
श्रियेतरैरङ्ग विमृग्यमाणया॥२३॥
मैत्रेय उवाच।
एवं सञ्जल्पितं मातुराकर्ण्यार्थागमं वचः।
सन्नियम्यात्मनाऽऽत्मानं निश्चक्राम पितुः पुरात्॥२४॥
नारदस्तदुपाकर्ण्य ज्ञात्वा तस्य चिकीर्षितम्।
स्पृष्ट्वा मूर्धन्यघघ्नेन पाणिना प्राह विस्मितः॥२५॥
अहो तेजः क्षत्रियाणां मानभङ्गममृष्यताम्।
बालोऽप्ययं हृदा धत्ते यत्समातुरसद्वचः॥२६॥
नारद उवाच।
नाधुनाप्यवमानं ते सम्मानं वापि पुत्रक।
लक्षयामः कुमारस्य सक्तस्य क्रीडनादिषु॥२७॥
विकल्पे विद्यमानेऽपि न ह्यसन्तोषहेतवः।
पुंसो मोहमृते भिन्ना यल्लोके निजकर्मभिः॥२८॥
परितुष्येत्ततस्तात तावन्मात्रेण पूरुषः।
दैवोपसादितं यावद्वीक्ष्येश्वरगतिं बुधः॥२९॥
अथ मात्रोपदिष्टेन योगेनावरुरुत्ससि।
यत्प्रसादं स वै पुंसां दुराराध्यो मतो मम॥३०॥
मुनयः पदवीं यस्य निःसङ्गेनोरुजन्मभिः।
न विदुर्मृगयन्तोऽपि तीव्रयोगसमाधिना॥३१॥
अतो निवर्ततामेष निर्बन्धस्तव निष्फलः।
यतिष्यति भवान् काले श्रेयसां समुपस्थिते॥३२॥
यस्य यद्दैवविहितं स तेन सुखदुःखयोः।
आत्मानं तोषयन् देही तमसः पारमृच्छति॥३३॥
गुणाधिकान्मुदं लिप्सेदनुक्रोशं गुणाधमात्।
मैत्रीं समानादन्विच्छेन्न तापैरभिभूयते॥३४॥
ध्रुव उवाच।
सोऽयं शमो भगवता सुखदुःखहतात्मनाम्।
दर्शितः कृपया पुंसां दुर्दर्शोऽस्मद्विधैस्तु यः॥३५॥
अथापि मेऽविनीतस्य क्षात्रं घोरमुपेयुषः।
सुरुच्या दुर्वचो बाणैर्न भिन्ने श्रयते हृदि॥३६॥
पदं त्रिभुवनोत्कृष्टं जिगीषोः साधु वर्त्म मे।
ब्रूह्यस्मत्पितृभिर्ब्रह्मन्नन्यैरप्यनधिष्ठितम्॥३७॥
नूनं भवान् भगवतो योऽङ्गजः परमेष्ठिनः।
वितुदन्नटते वीणां हितार्थं जगतोऽर्कवत्॥३८॥
मैत्रेय उवाच।
इत्युदाहृतमाकर्ण्य भगवान्नारदस्तदा।
प्रीतः प्रत्याह तं बालं सद्वाक्यमनुकम्पया॥३९॥
नारद उवाच।
जनन्याभिहितः पन्थाः स वै निःश्रेयसस्य ते।
भगवान् वासुदेवस्तं भज तत्प्रवणात्मना॥४०॥
धर्मार्थकाममोक्षाख्यं य इच्छेच्छ्रेय आत्मनः।
एकमेव हरेस्तत्र कारणं पादसेवनम्॥४१॥
तत्तात गच्छ भद्रं ते यमुनायास्तटं शुचि।
पुण्यं मधुवनं यत्र सान्निध्यं नित्यदा हरेः॥४२॥
स्नात्वानुसवनं तस्मिन् कालिन्द्याः सलिले शिवे।
कृत्वोचितानि निवसन्नात्मनः कल्पितासनः॥४३॥
प्राणायामेन त्रिवृता प्राणेन्द्रियमनोमलम्।
शनैर्व्युदस्याभिध्यायेन्मनसा गुरुणा गुरुम्॥४४॥
प्रसादाभिमुखं शश्वत्प्रसन्नवदनेक्षणम्।
सुनासं सुभ्रुवं चारुकपोलं सुरसुन्दरम्॥४५॥
तरुणं रमणीयाङ्गमरुणोष्ठेक्षणाधरम्।
प्रणताश्रयणं नृम्णं शरण्यं करुणार्णवम्॥४६॥
श्रीवत्साङ्कं घनश्यामं पुरुषं वनमालिनम्।
शङ्खचक्रगदापद्मैरभिव्यक्तचतुर्भुजम्॥४७॥
किरीटिनं कुण्डलिनं केयूरवलयान्वितम्।
कौस्तुभाभरणग्रीवं पीतकौशेयवाससम्॥४८॥
काञ्चीकलापपर्यस्तं लसत्काञ्चननूपुरम्।
दर्शनीयतमं शान्तं मनोनयनवर्धनम्॥४९॥
पद्भ्यां नखमणिश्रेण्या विलसद्भ्यां समर्चताम्।
हृत्पद्मकर्णिकाधिष्ण्यमाक्रम्यात्मन्यवस्थितम्॥५०॥
स्मयमानमभिध्यायेत्सानुरागावलोकनम्।
नियतेनैकभूतेन मनसा वरदर्षभम्॥५१॥
एवं भगवतो रूपं सुभद्रं ध्यायतो मनः।
निर्वृत्या परया तूर्णं सम्पन्नं न निवर्तते॥५२॥
जप्यश्च परमो गुह्यः श्रूयतां मे नृपात्मज।
यं सप्तरात्रं प्रपठन् पुमान् पश्यति खेचरान्॥५३॥
ओं नमो भगवते वासुदेवाय।
मन्त्रेणानेन देवस्य कुर्याद्द्रव्यमयीं बुधः।
सपर्यां विविधैर्द्रव्यैर्देशकालविभागवित्॥५४॥
सलिलैः शुचिभिर्माल्यैर्वन्यैर्मूलफलादिभिः।
शस्ताङ्कुरांशुकैश्चार्चेत्तुलस्या प्रियया प्रभुम्॥५५॥
लब्ध्वा द्रव्यमयीमर्चां क्षित्यम्ब्वादिषु वार्चयेत्।
आभृतात्मा मुनिः शान्तो यतवाङ्मितवन्यभुक्॥५६॥
स्वेच्छावतारचरितैरचिन्त्यनिजमायया।
करिष्यत्युत्तमश्लोकस्तद्ध्यायेद्धृदयङ्गमम्॥५७॥
परिचर्या भगवतो यावत्यः पूर्वसेविताः।
ता मन्त्रहृदयेनैव प्रयुञ्ज्यान्मन्त्रमूर्तये॥५८॥
एवं कायेन मनसा वचसा च मनोगतम्।
परिचर्यमाणो भगवान् भक्तिमत्परिचर्यया॥५९॥
पुंसाममायिनां सम्यग्भजतां भाववर्धनः।
श्रेयो दिशत्यभिमतं यद्धर्मादिषु देहिनाम्॥६०॥
विरक्तश्चेन्द्रियरतौ भक्तियोगेन भूयसा।
तं निरन्तरभावेन भजेताद्धा विमुक्तये॥६१॥
इत्युक्तस्तं परिक्रम्य प्रणम्य च नृपार्भकः।
ययौ मधुवनं पुण्यं हरेश्चरणचर्चितम्॥६२॥
तपोवनं गते तस्मिन् प्रविष्टोऽन्तःपुरं मुनिः।
अर्हितार्हणको राज्ञा सुखासीन उवाच तम्॥६३॥
नारद उवाच।
राजन् किं ध्यायसे दीर्घं मुखेन परिशुष्यता।
किं वा न रिष्यते कामो धर्मो वार्थेन संयुतः॥६४॥
राजोवाच।
सुतो मे बालको ब्रह्मन् स्त्रैणेनाकरुणात्मना।
निर्वासितः पञ्चवर्षः सह मात्रा महान् कविः॥६५॥
अप्यनाथं वने ब्रह्मन् मा स्मादन्त्यर्भकं वृकाः।
श्रान्तं शयानं क्षुधितं परिम्लानमुखाम्बुजम्॥६६॥
अहो मे बत दौरात्म्यं स्त्रीजितस्योपधारय।
योऽङ्कं प्रेम्णाऽऽरुरुक्षन्तं नाभ्यनन्दमसत्तमः॥६७॥
नारद उवाच।
मा मा शुचः स्वतनयं देवगुप्तं विशाम्पते।
तत्प्रभावमविज्ञाय प्रावृङ्क्ते यद्यशो जगत्॥६८॥
सुदुष्करं कर्म कृत्वा लोकपालैरपि प्रभुः।
एष्यत्यचिरतो राजन् यशो विपुलयंस्तव॥६९॥
मैत्रेय उवाच।
इति देवर्षिणा प्रोक्तं विश्रुत्य जगतीपतिः।
राजलक्ष्मीमनादृत्य पुत्रमेवान्वचिन्तयत्॥७०॥
तत्राभिषिक्तः प्रयतस्तामुपोष्य विभावरीम्।
समाहितः पर्यचरदृष्यादेशेन पूरुषम्॥७१॥
त्रिरात्रान्ते त्रिरात्रान्ते कपित्थबदराशनः।
आत्मवृत्त्यनुसारेण मासं निन्येऽर्चयन् हरिम्॥७२॥
द्वितीयं च तथा मासं षष्ठे षष्ठेऽर्भको दिने।
तृणपर्णादिभिः शीर्णैः कृतान्नोऽभ्यर्चयद्विभुम्॥७३॥
तृतीयं चानयन्मासं नवमे नवमेऽहनि।
अब्भक्ष उत्तमश्लोकमुपाधावत्समाधिना॥७४॥
चतुर्थमपि वै मासं द्वादशे द्वादशेऽहनि।
वायुभक्षो जितश्वासो ध्यायन् देवमधारयत्॥७५॥
पञ्चमे मास्यनुप्राप्ते जितश्वासो नृपात्मजः।
ध्यायन् ब्रह्म पदैकेन तस्थौ स्थाणुरिवाचलः॥७६॥
सर्वतो मन आकृष्य हृदि भूतेन्द्रियाशयम्।
ध्यायन् भगवतो रूपं नाद्राक्षीत्किञ्चनापरम्॥७७॥
आधारं महदादीनां प्रधानपुरुषेश्वरम्।
ब्रह्म धारयमाणस्य त्रयो लोकाश्चकम्पिरे॥७८॥
यदैकपादेन स पार्थिवार्भक-
स्तस्थौ तदङ्गुष्ठनिपीडिता मही।
ननाम तत्रार्धमिभेन्द्रधिष्ठिता
तरीव सव्येतरतः पदे पदे॥७९॥
तस्मिन्नभिध्यायति विश्वमात्मनो
द्वारं निरुध्यासुमनन्यया धिया।
लोका निरुच्छ्वासनिपीडिता भृशं
सलोकपालाः शरणं ययुर्हरिम्॥८०॥
देवा ऊचुः।
नैवं विदामो भगवन् प्राणरोधं
चराचरस्याखिलसत्त्वधाम्नः।
विधेहि तन्नो वृजिनाद्विमोक्षं
प्राप्ता वयं त्वां शरणं शरण्यम्॥८१॥
श्रीभगवानुवाच।
मा भैष्ट बालं तपसो दुरत्यया-
न्निवर्तयिष्ये प्रतियात स्वधाम।
यतो हि वः प्राणनिरोध आसी-
दौत्तानपादिर्मयि सङ्गतात्मा॥८२॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायां चतुर्थस्कन्धे ध्रुवचरिते अष्टमोऽध्यायः॥८॥

प्रियव्रतचरित्रम् । The historical story of Priyavrata. ...
गृहात्प्रव्रजितानां प्रचेतसां नारदोपदेशान्मुक्तिः । Prachetas who left home, obtained liberation from the discourse of Narada ...
दशप्रचेतसां भगवद्दर्शानं वरप्राप्तिश्च तेभ्यो मारिषागर्भाद्दक्षोत्पत्तिश्च । Sighting of Lord Vishnu by Dashaprachetas and getting boon, ...
पुरञ्जनोपाख्यानस्य तात्पर्यं नारदोपदेशः प्राचीनबर्हिषो मुक्तिश्च । The inner meaniing of Puranjana discourse and advise of ...
Loading story text...
https://www.krishnadhevalipi.org/wp-content/uploads/stories/txt/ra_story_words3069.txt
https://www.krishnadhevalipi.org/wp-content/uploads/stories/json/ra_story3069.json

Details of update

last updated - 23rd May, 2026