॥ वाग् यज्ञेन कल्पताम् ॥

See Listen and Chant

These Chanting are to Inspire You for, to Practice and Learn to Chanting Bhagavat Stotram. The occasional drift while highlighting is negligible and unavoidable because of the chanting styles. Some Chanting are collected from Internet, for educative and guided chanting practice and not to infringe any Copyrights.

Ready... Play...

Bhagavata Puranam C4S27

पुरञ्जनपुरे चण्डवेगस्याक्रमणं कालकन्याचरित्रवर्णनं च । The attack on Puranjana and the explanation of children of time etc.

॥ श्रीमद्भागवतमहापुराणम् ॥

ॐ श्रीमद्भागवते चतुर्थस्कन्धे अथ सप्तविंशोऽध्यायः।
नारद उवाच।
इत्थं पुरञ्जनं सध्र्यग् वशमानीय विभ्रमैः।
पुरञ्जनी महाराज रेमे रमयती पतिम्॥१॥
स राजा महिषीं राजन् सुस्नातां रुचिराननाम्।
कृतस्वस्त्ययनां तृप्तामभ्यनन्ददुपागताम्॥२॥
तयोपगूढः परिरब्धकन्धरो
रहोऽनुमन्त्रैरपकृष्टचेतनः।
न कालरंहो बुबुधे दुरत्ययं
दिवानिशेति प्रमदापरिग्रहः॥३॥
शयान उन्नद्धमदो महामना
महार्हतल्पे महिषीभुजोपधिः।
तामेव वीरो मनुते परं यत-
स्तमोऽभिभूतो न निजं परं च यत्॥४॥
तयैवं रममाणस्य कामकश्मलचेतसः।
क्षणार्धमिव राजेन्द्र व्यतिक्रान्तं नवं वयः॥५॥
तस्यामजनयत्पुत्रान् पुरञ्जन्यां पुरञ्जनः।
शतान्येकादश विराडायुषोऽर्धमथात्यगात्॥६॥
दुहितॄर्दशोत्तरशतं पितृमातृयशस्करीः।
शीलौदार्यगुणोपेताः पौरञ्जन्यः प्रजापते॥७॥
स पञ्चालपतिः पुत्रान् पितृवंशविवर्धनान्।
दारैः संयोजयामास दुहितॄः सदृशैर्वरैः॥८॥
पुत्राणां चाभवन् पुत्रा एकैकस्य शतं शतम्।
यैर्वै पौरञ्जनो वंशः पञ्चालेषु समेधितः॥९॥
तेषु तद्रिक्थहारेषु गृहकोशानुजीविषु।
निरूढेन ममत्वेन विषयेष्वन्वबध्यत॥१०॥
ईजे च क्रतुभिर्घोरैर्दीक्षितः पशुमारकैः।
देवान् पितॄन् भूतपतीन् नानाकामो यथा भवान्॥११॥
युक्तेष्वेवं प्रमत्तस्य कुटुम्बासक्तचेतसः।
आससाद स वै कालो योऽप्रियः प्रिययोषिताम्॥१२॥
चण्डवेग इति ख्यातो गन्धर्वाधिपतिर्नृप।
गन्धर्वास्तस्य बलिनः षष्ट्युत्तरशतत्रयम्॥१३॥
गन्धर्व्यस्तादृशीरस्य मैथुन्यश्च सितासिताः।
परिवृत्त्या विलुम्पन्ति सर्वकामविनिर्मिताम्॥१४॥
ते चण्डवेगानुचराः पुरञ्जनपुरं यदा।
हर्तुमारेभिरे तत्र प्रत्यषेधत्प्रजागरः॥१५॥
स सप्तभिः शतैरेको विंशत्या च शतं समाः।
पुरञ्जनपुराध्यक्षो गन्धर्वैर्युयुधे बली॥१६॥
क्षीयमाणे स्वसम्बन्धे एकस्मिन् बहुभिर्युधा।
चिन्तां परां जगामार्तः स राष्ट्रपुरबान्धवः॥१७॥
स एव पुर्यां मधुभुक् पञ्चालेषु स्वपार्षदैः।
उपनीतं बलिं गृह्णन् स्त्रीजितो नाविदद्भयम्॥१८॥
कालस्य दुहिता काचित्त्रिलोकीं वरमिच्छती।
पर्यटन्ती न बर्हिष्मन् प्रत्यनन्दत कश्चन॥१९॥
दौर्भाग्येनात्मनो लोके विश्रुता दुर्भगेति सा।
या तुष्टा राजर्षये तु वृतादात्पूरवे वरम्॥२०॥
कदाचिदटमाना सा ब्रह्मलोकान्महीं गतम्।
वव्रे बृहद्व्रतं मां तु जानती काममोहिता॥२१॥
मयि संरभ्य विपुलमदाच्छापं सुदुःसहम्।
स्थातुमर्हसि नैकत्र मद्याच्ञाविमुखो मुने॥२२॥
ततो विहतसङ्कल्पा कन्यका यवनेश्वरम्।
मयोपदिष्टमासाद्य वव्रे नाम्ना भयं पतिम्॥२३॥
ऋषभं यवनानां त्वां वृणे वीरेप्सितं पतिम्।
सङ्कल्पस्त्वयि भूतानां कृतः किल न रिष्यति॥२४॥
द्वाविमावनुशोचन्ति बालावसदवग्रहौ।
यल्लोकशास्त्रोपनतं न राति न तदिच्छति॥२५॥
अथो भजस्व मां भद्र भजन्तीं मे दयां कुरु।
एतावान् पौरुषो धर्मो यदार्ताननुकम्पते॥२६॥
कालकन्योदितवचो निशम्य यवनेश्वरः।
चिकीर्षुर्देवगुह्यं स सस्मितं तामभाषत॥२७॥
मया निरूपितस्तुभ्यं पतिरात्मसमाधिना।
नाभिनन्दति लोकोऽयं त्वामभद्रामसम्मताम्॥२८॥
त्वमव्यक्तगतिर्भुङ्क्ष्व लोकं कर्मविनिर्मितम्।
या हि मे पृतना युक्ता प्रजानाशं प्रणेष्यसि॥२९॥
प्रज्वारोऽयं मम भ्राता त्वं च मे भगिनी भव।
चराम्युभाभ्यां लोकेऽस्मिन्नव्यक्तो भीमसैनिकः॥३०॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
चतुर्थस्कन्धे पुरञ्जनोपाख्याने सप्तविंशोऽध्यायः॥२७॥

प्रियव्रतचरित्रम् । The historical story of Priyavrata. ...
गृहात्प्रव्रजितानां प्रचेतसां नारदोपदेशान्मुक्तिः । Prachetas who left home, obtained liberation from the discourse of Narada ...
दशप्रचेतसां भगवद्दर्शानं वरप्राप्तिश्च तेभ्यो मारिषागर्भाद्दक्षोत्पत्तिश्च । Sighting of Lord Vishnu by Dashaprachetas and getting boon, ...
पुरञ्जनोपाख्यानस्य तात्पर्यं नारदोपदेशः प्राचीनबर्हिषो मुक्तिश्च । The inner meaniing of Puranjana discourse and advise of ...
Loading story text...
https://www.krishnadhevalipi.org/wp-content/uploads/stories/txt/ra_story_words3088.txt
https://www.krishnadhevalipi.org/wp-content/uploads/stories/json/ra_story3088.json

Details of update

last updated - 23rd May, 2026