ॐ श्रीमद्भागवते चतुर्थस्कन्धे अथ पञ्चविंशोऽध्यायः।
मैत्रेय उवाच।
इति सन्दिश्य भगवान् बार्हिषदैरभिपूजितः।
पश्यतां राजपुत्राणां तत्रैवान्तर्दधे हरः॥१॥
रुद्रगीतं भगवतः स्तोत्रं सर्वे प्रचेतसः।
जपन्तस्ते तपस्तेपुर्वर्षाणामयुतं जले॥२॥
प्राचीनबर्हिषं क्षत्तः कर्मस्वासक्तमानसम्।
नारदोऽध्यात्मतत्त्वज्ञः कृपालुः प्रत्यबोधयत्॥३॥
श्रेयस्त्वं कतमद्राजन् कर्मणाऽऽत्मन ईहसे।
दुःखहानिः सुखावाप्तिः श्रेयस्तन्नेह चेष्यते॥४॥
राजोवाच।
न जानामि महाभाग परं कर्मापविद्धधीः।
ब्रूहि मे विमलं ज्ञानं येन मुच्येय कर्मभिः॥५॥
गृहेषु कूटधर्मेषु पुत्रदारधनार्थधीः।
न परं विन्दते मूढो भ्राम्यन् संसारवर्त्मसु॥६॥
नारद उवाच।
भो भोः प्रजापते राजन् पशून् पश्य त्वयाध्वरे।
संज्ञापिताञ्जीवसङ्घान् निर्घृणेन सहस्रशः॥७॥
एते त्वां सम्प्रतीक्षन्ते स्मरन्तो वैशसं तव।
सम्परेतमयःकूटैश्छिन्दन्त्युत्थितमन्यवः॥८॥
अत्र ते कथयिष्येऽमुमितिहासं पुरातनम्।
पुरञ्जनस्य चरितं निबोध गदतो मम॥९॥
आसीत्पुरञ्जनो नाम राजा राजन् बृहच्छ्रवाः।
तस्याविज्ञातनामाऽऽसीत्सखाविज्ञातचेष्टितः॥१०॥
सोऽन्वेषमाणः शरणं बभ्राम पृथिवीं प्रभुः।
नानुरूपं यदाविन्ददभूत्स विमना इव॥११॥
न साधु मेने ताः सर्वा भूतले यावतीः पुरः।
कामान् कामयमानोऽसौ तस्य तस्योपपत्तये॥१२॥
स एकदा हिमवतो दक्षिणेष्वथ सानुषु।
ददर्श नवभिर्द्वार्भिः पुरं लक्षितलक्षणाम्॥१३॥
प्राकारोपवनाट्टालपरिखैरक्षतोरणैः।
स्वर्णरौप्यायसैः शृङ्गैः सङ्कुलां सर्वतो गृहैः॥१४॥
नीलस्फटिकवैदूर्यमुक्तामरकतारुणैः।
कॢप्तहर्म्यस्थलीं दीप्तां श्रिया भोगवतीमिव॥१५॥
सभाचत्वररथ्याभिराक्रीडायतनापणैः।
चैत्यध्वजपताकाभिर्युक्तां विद्रुमवेदिभिः॥१६॥
पुर्यास्तु बाह्योपवने दिव्यद्रुमलताकुले।
नदद्विहङ्गालिकुलकोलाहलजलाशये॥१७॥
हिमनिर्झरविप्रुष्मत्कुसुमाकरवायुना।
चलत्प्रवालविटपनलिनीतटसम्पदि॥१८॥
नानारण्यमृगव्रातैरनाबाधे मुनिव्रतैः।
आहूतं मन्यते पान्थो यत्र कोकिलकूजितैः॥१९॥
यदृच्छयाऽऽगतां तत्र ददर्श प्रमदोत्तमाम्।
भृत्यैर्दशभिरायान्तीमेकैकशतनायकैः॥२०॥
पञ्चशीर्षाहिना गुप्तां प्रतीहारेण सर्वतः।
अन्वेषमाणामृषभमप्रौढां कामरूपिणीम्॥२१॥
सुनासां सुदतीं बालां सुकपोलां वराननाम्।
समविन्यस्तकर्णाभ्यां बिभ्रतीं कुण्डलश्रियम्॥२२॥
पिशङ्गनीवीं सुश्रोणीं श्यामां कनकमेखलाम्।
पद्भ्यां क्वणद्भ्यां चलतीं नूपुरैर्देवतामिव॥२३॥
स्तनौ व्यञ्जितकैशोरौ समवृत्तौ निरन्तरौ।
वस्त्रान्तेन निगूहन्तीं व्रीडया गजगामिनीम्॥२४॥
तामाह ललितं वीरः सव्रीडस्मितशोभनाम्।
स्निग्धेनापाङ्गपुङ्खेन स्पृष्टः प्रेमोद्भ्रमद्भ्रुवा॥२५॥
का त्वं कञ्जपलाशाक्षि कस्यासीह कुतः सति।
इमामुप पुरीं भीरु किं चिकीर्षसि शंस मे॥२६॥
क एतेऽनुपथा ये त एकादश महाभटाः।
एता वा ललनाः सुभ्रु कोऽयं तेऽहिः पुरःसरः॥२७॥
त्वं ह्रीर्भवान्यस्यथवाग्रमा पतिं
विचिन्वती किं मुनिवद्रहो वने।
त्वदङ्घ्रिकामाप्तसमस्तकामं
क्व पद्मकोशः पतितः कराग्रात्॥२८॥
नासां वरोर्वन्यतमा भुविस्पृक्
पुरीमिमां वीरवरेण साकम्।
अर्हस्यलङ्कर्तुमदभ्रकर्मणा
लोकं परं श्रीरिव यज्ञपुंसा॥२९॥
यदेष मापाङ्गविखण्डितेन्द्रियं
सव्रीडभावस्मितविभ्रमद्भ्रुवा।
त्वयोपसृष्टो भगवान् मनोभवः
प्रबाधतेऽथानुगृहाण शोभने॥३०॥
त्वदाननं सुभ्रु सुतारलोचनं
व्यालम्बि नीलालकवृन्दसंवृतम्।
उन्नीय मे दर्शय वल्गु वाचकं
यद्व्रीडया नाभिमुखं शुचिस्मिते॥३१॥
नारद उवाच।
इत्थं पुरञ्जनं नारी याचमानमधीरवत्।
अभ्यनन्दत तं वीरं हसन्ती वीरमोहिता॥३२॥
न विदाम वयं सम्यक्कर्तारं पुरुषर्षभ।
आत्मनश्च परस्यापि गोत्रं नाम च यत्कृतम्॥३३॥
इहाद्य सन्तमात्मानं विदाम न ततः परम्।
येनेयं निर्मिता वीर पुरी शरणमात्मनः॥३४॥
एते सखायः सख्यो मे नरा नार्यश्च मानद।
सुप्तायां मयि जागर्ति नागोऽयं पालयन् पुरीम्॥३५॥
दिष्ट्याऽऽगतोऽसि भद्रं ते ग्राम्यान् कामानभीप्ससे।
उद्वहिष्यामि तांस्तेऽहं स्वबन्धुभिररिन्दम॥३६॥
इमां त्वमधितिष्ठस्व पुरीं नवमुखीं विभो।
मयोपनीतान् गृह्णानः कामभोगान् शतं समाः॥३७॥
कं नु त्वदन्यं रमये ह्यरतिज्ञमकोविदम्।
असम्परायाभिमुखमश्वस्तनविदं पशुम्॥३८॥
धर्मो ह्यत्रार्थकामौ च प्रजानन्दोऽमृतं यशः।
लोका विशोका विरजा यान्न केवलिनो विदुः॥३९॥
पितृदेवर्षिमर्त्यानां भूतानामात्मनश्च ह।
क्षेम्यं वदन्ति शरणं भवेऽस्मिन् यद्गृहाश्रमः॥४०॥
का नाम वीर विख्यातं वदान्यं प्रियदर्शनम्।
न वृणीत प्रियं प्राप्तं मादृशी त्वादृशं पतिम्॥४१॥
कस्या मनस्ते भुवि भोगिभोगयोः
स्त्रिया न सज्जेद्भुजयोर्महाभुज।
योऽनाथवर्गाधिमलं घृणोद्धत-
स्मितावलोकेन चरत्यपोहितुम्॥४२॥
नारद उवाच।
इति तौ दम्पती तत्र समुद्य समयं मिथः।
तां प्रविश्य पुरीं राजन् मुमुदाते शतं समाः॥४३॥
उपगीयमानो ललितं तत्र तत्र च गायकैः।
क्रीडन् परिवृतः स्त्रीभिर्ह्रदिनीमाविशच्छुचौ॥४४॥
सप्तोपरि कृता द्वारः पुरस्तस्यास्तु द्वे अधः।
पृथग्विषयगत्यर्थं तस्यां यः कश्चनेश्वरः॥४५॥
पञ्चद्वारस्तु पौरस्त्या दक्षिणैका तथोत्तरा।
पश्चिमे द्वे अमूषां ते नामानि नृप वर्णये॥४६॥
खद्योऽऽताविर्मुखी च प्राग्द्वारावेकत्र निर्मिते।
विभ्राजितं जनपदं याति ताभ्यां द्युमत्सखः॥४७॥
नलिनी नालिनी च प्राग्द्वारावेकत्र निर्मिते।
अवधूतसखस्ताभ्यां विषयं याति सौरभम्॥४८॥
मुख्या नाम पुरस्ताद्द्वास्तयाऽऽपणबहूदनौ।
विषयौ याति पुरराड्रसज्ञविपणान्वितः॥४९॥
पितृहूर्नृप पुर्या द्वार्दक्षिणेन पुरञ्जनः।
राष्ट्रं दक्षिणपञ्चालं याति श्रुतधरान्वितः॥५०॥
देवहूर्नाम पुर्या द्वा उत्तरेण पुरञ्जनः।
राष्ट्रमुत्तरपञ्चालं याति श्रुतधरान्वितः॥५१॥
आसुरी नाम पश्चाद्द्वास्तया याति पुरञ्जनः।
ग्रामकं नाम विषयं दुर्मदेन समन्वितः॥५२॥
निरृतिर्नाम पश्चाद्द्वास्तया याति पुरञ्जनः।
वैशसं नाम विषयं लुब्धकेन समन्वितः॥५३॥
अन्धावमीषां पौराणां निर्वाक्पेशस्कृतावुभौ।
अक्षण्वतामधिपतिस्ताभ्यां याति करोति च॥५४॥
स यर्ह्यन्तःपुरगतो विषूचीनसमन्वितः।
मोहं प्रसादं हर्षं वा याति जायात्मजोद्भवम्॥५५॥
एवं कर्मसु संसक्तः कामात्मा वञ्चितोऽबुधः।
महिषी यद्यदीहेत तत्तदेवान्ववर्तत॥५६॥
क्वचित्पिबन्त्यां पिबति मदिरां मदविह्वलः।
अश्नन्त्यां क्वचिदश्नाति जक्षत्यां सह जक्षिति॥५७॥
क्वचिद्गायति गायन्त्यां रुदत्यां रुदति क्वचित्।
क्वचिद्धसन्त्यां हसति जल्पन्त्यामनु जल्पति॥५८॥
क्वचिद्धावति धावन्त्यां तिष्ठन्त्यामनु तिष्ठति।
अनु शेते शयानायामन्वास्ते क्वचिदासतीम्॥५९॥
क्वचिच्छृणोति शृण्वन्त्यां पश्यन्त्यामनु पश्यति।
क्वचिज्जिघ्रति जिघ्रन्त्यां स्पृशन्त्यां स्पृशति क्वचित्॥६०॥
क्वचिच्च शोचतीं जायामनु शोचति दीनवत्।
अनु हृष्यति हृष्यन्त्यां मुदितामनु मोदते॥६१॥
विप्रलब्धो महिष्यैवं सर्वप्रकृतिवञ्चितः।
नेच्छन्ननुकरोत्यज्ञः क्लैब्यात्क्रीडामृगो यथा॥६२॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
चतुर्थस्कन्धे पुरञ्जनोपाख्याने पञ्चविंशोऽध्यायः॥२५॥