ॐ श्रीमद्भागवते चतुर्थस्कन्धे अथ द्वितीयोऽध्यायः।
विदुर उवाच।
भवे शीलवतां श्रेष्ठे दक्षो दुहितृवत्सलः।
विद्वेषमकरोत्कस्मादनादृत्यात्मजां सतीम्॥१॥
कस्तं चराचरगुरुं निर्वैरं शान्तविग्रहम्।
आत्मारामं कथं द्वेष्टि जगतो दैवतं महत्॥२॥
एतदाख्याहि मे ब्रह्मन् जामातुः श्वशुरस्य च।
विद्वेषस्तु यतः प्राणांस्तत्यजे दुस्त्यजान् सती॥३॥
मैत्रेय उवाच।
पुरा विश्वसृजां सत्रे समेताः परमर्षयः।
तथामरगणाः सर्वे सानुगा मुनयोऽग्नयः॥४॥
तत्र प्रविष्टमृषयो दृष्ट्वार्कमिव रोचिषा।
भ्राजमानं वितिमिरं कुर्वन्तं तन्महत्सदः॥५॥
उदतिष्ठन्सदस्यास्ते स्वधिष्ण्येभ्यः सहाग्नयः।
ऋते विरिञ्चं शर्वं च तद्भासाऽऽक्षिप्तचेतसः॥६॥
सदसस्पतिभिर्दक्षो भगवान् साधु सत्कृतः।
अजं लोकगुरुं नत्वा निषसाद तदाज्ञया॥७॥
प्राङ्निषण्णं मृडं दृष्ट्वा नामृष्यत्तदनादृतः।
उवाच वामं चक्षुर्भ्यामभिवीक्ष्य दहन्निव॥८॥
श्रूयतां ब्रह्मर्षयो मे सह देवाः सहाग्नयः।
साधूनां ब्रुवतो वृत्तं नाज्ञानान्न च मत्सरात्॥९॥
अयं तु लोकपालानां यशोघ्नो निरपत्रपः।
सद्भिराचरितः पन्था येन स्तब्धेन दूषितः॥१०॥
एष मे शिष्यतां प्राप्तो यन्मे दुहितुरग्रहीत्।
पाणिं विप्राग्निमुखतः सावित्र्या इव साधुवत्॥११॥
गृहीत्वा मृगशावाक्ष्याः पाणिं मर्कटलोचनः।
प्रत्युत्थानाभिवादार्हे वाचाप्यकृत नोचितम्॥१२॥
लुप्तक्रियायाशुचये मानिने भिन्नसेतवे।
अनिच्छन्नप्यदां बालां शूद्रायेवोशतीं गिरम्॥१३॥
प्रेतावासेषु घोरेषु प्रेतैर्भूतगणैर्वृतः।
अटत्युन्मत्तवन्नग्नो व्युप्तकेशो हसन् रुदन्॥१४॥
चिताभस्मकृतस्नानः प्रेतस्रङ्न्रस्थिभूषणः।
शिवापदेशो ह्यशिवो मत्तो मत्तजनप्रियः।
पतिः प्रमथभूतानां तमोमात्रात्मकात्मनाम्॥१५॥
तस्मा उन्मादनाथाय नष्टशौचाय दुर्हृदे।
दत्ता बत मया साध्वी चोदिते परमेष्ठिना॥१६॥
मैत्रेय उवाच।
विनिन्द्यैवं स गिरिशमप्रतीपमवस्थितम्।
दक्षोऽथाप उपस्पृश्य क्रुद्धः शप्तुं प्रचक्रमे॥१७॥
अयं तु देवयजन इन्द्रोपेन्द्रादिभिर्भवः।
सह भागं न लभतां देवैर्देवगणाधमः॥१८॥
निषिध्यमानः स सदस्यमुख्यै-
र्दक्षो गिरित्राय विसृज्य शापम्।
तस्माद्विनिष्क्रम्य विवृद्धमन्यु-
र्जगामकौरव्य निजं निकेतनम्॥१९॥
विज्ञाय शापं गिरिशानुगाग्रणीः
नन्दीश्वरो रोषकषायदूषितः।
दक्षाय शापं विससर्ज दारुणं
ये चान्वमोदंस्तदवाच्यतां द्विजाः॥२०॥
य एतन्मर्त्यमुद्दिश्य भगवत्यप्रतिद्रुहि।
द्रुह्यत्यज्ञः पृथग्दृष्टिस्तत्त्वतो विमुखो भवेत्॥२१॥
गृहेषु कूटधर्मेषु सक्तो ग्राम्यसुखेच्छया।
कर्मतन्त्रं वितनुते वेदवादविपन्नधीः॥२२॥
बुद्ध्या पराभिध्यायिन्या विस्मृतात्मगतिः पशुः।
स्त्रीकामः सोऽस्त्वतितरां दक्षो बस्तमुखोऽचिरात्॥२३॥
विद्याबुद्धिरविद्यायां कर्ममय्यामसौ जडः।
संसरन्त्विह ये चामुमनु शर्वावमानिनम्॥२४॥
गिरः श्रुतायाः पुष्पिण्या मधुगन्धेन भूरिणा।
मथ्ना चोन्मथितात्मानः सम्मुह्यन्तु हरद्विषः॥२५॥
सर्वभक्षा द्विजा वृत्त्यै धृतविद्या तपोव्रताः।
वित्तदेहेन्द्रियारामा याचका विचरन्त्विह॥२६॥
तस्यैवं ददतः शापं श्रुत्वा द्विजकुलाय वै।
भृगुः प्रत्यसृजच्छापं ब्रह्मदण्डं दुरत्ययम्॥२७॥
भवव्रतधरा ये च ये च तान् समनुव्रताः
पाखण्डिनस्ते भवन्तु सच्छास्त्रपरिपन्थिनः॥२८॥
नष्टशौचा मूढधियो जटाभस्मास्थिधारिणः।
विशन्तु शिवदीक्षायां यत्र दैवं सुरासवम्॥२९॥
ब्रह्म च ब्राह्मणांश्चैव यद्यूयं परिनिन्दथ।
सेतुं विधारणं पुंसामतः पाखण्डमाश्रिताः॥३०॥
एष एव हि लोकानां शिवः पन्थाः सनातनः।
यं पूर्वे चानुसन्तस्थुर्यत्प्रमाणं जनार्दनः॥३१॥
तद्ब्रह्म परमं शुद्धं सतां वर्त्म सनातनम्।
विगर्ह्य यात पाखण्डं दैवं वो यत्र भूतराट्॥३२॥
मैत्रेय उवाच।
तस्यैवं वदतः शापं भृगोः स भगवान् भवः।
निश्चक्राम ततः किञ्चिद्विमना इव सानुगः॥३३॥
तेऽपि विश्वसृजः सत्रं सहस्रपरिवत्सरान्।
संविधाय महेष्वास यत्रेज्य ऋषभो हरिः॥३४॥
आप्लुत्यावभृथं यत्र गङ्गा यमुनयान्विता।
विरजेनात्मना सर्वे स्वं स्वं धाम ययुस्ततः॥३५॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
चतुर्थस्कन्धे दक्षशापो नाम द्वितीयोध्यायः॥२॥