॥ वाग् यज्ञेन कल्पताम् ॥

See Listen and Chant

These Chanting are to Inspire You for, to Practice and Learn to Chanting Bhagavat Stotram. The occasional drift while highlighting is negligible and unavoidable because of the chanting styles. Some Chanting are collected from Internet, for educative and guided chanting practice and not to infringe any Copyrights.

Ready... Play...

Bhagavata Puranam C4S19

स्वकीयेऽश्वमेधयज्ञे विघ्नकारिणमिन्द्रं हन्तुकामस्य पृथोर्ब्रह्मसान्त्वनया यज्ञाद्विरतिः । Attempt to kill Indra who troubles the Ashvamedha Yaga of Prthu and by the intervention of Lord Brahma and his consoling and pacifying words, cessation of further Yaga etc.

॥ श्रीमद्भागवतमहापुराणम् ॥

ॐ श्रीमद्भागवते चतुर्थस्कन्धे अथ एकोनविंशोऽध्यायः।
मैत्रेय उवाच।
अथादीक्षत राजा तु हयमेधशतेन सः।
ब्रह्मावर्ते मनोः क्षेत्रे यत्र प्राची सरस्वती॥१॥
तदभिप्रेत्य भगवान् कर्मातिशयमात्मनः।
शतक्रतुर्न ममृषे पृथोर्यज्ञमहोत्सवम्॥२॥
यत्र यज्ञपतिः साक्षाद्भगवान् हरिरीश्वरः।
अन्वभूयत सर्वात्मा सर्वलोकगुरुः प्रभुः॥३॥
अन्वितो ब्रह्मशर्वाभ्यां लोकपालैः सहानुगैः।
उपगीयमानो गन्धर्वैर्मुनिभिश्चाप्सरोगणैः॥४॥
सिद्धा विद्याधरा दैत्या दानवा गुह्यकादयः।
सुनन्दनन्दप्रमुखाः पार्षदप्रवरा हरेः॥५॥
कपिलो नारदो दत्तो योगेशाः सनकादयः।
तमन्वीयुर्भागवता ये च तत्सेवनोत्सुकाः॥६॥
यत्र धर्मदुघा भूमिः सर्वकामदुघा सती।
दोग्धि स्माभीप्सितानर्थान् यजमानस्य भारत॥७॥
ऊहुः सर्वरसान् नद्यः क्षीरदध्यन्नगोरसान्।
तरवो भूरि वर्ष्माणः प्रासूयन्त मधुच्युतः॥८॥
सिन्धवो रत्ननिकरान् गिरयोऽन्नं चतुर्विधम्।
उपायनमुपाजह्रुः सर्वे लोकाः सपालकाः॥९॥
इति चाधोक्षजेशस्य पृथोस्तु परमोदयम्।
असूयन् भगवानिन्द्रः प्रतिघातमचीकरत्॥१०॥
चरमेणाश्वमेधेन यजमाने यजुष्पतिम्।
वैन्ये यज्ञपशुं स्पर्धन्नपोवाह तिरोहितः॥११॥
तमत्रिर्भगवानैक्षत्त्वरमाणं विहायसा।
आमुक्तमिव पाखण्डं योऽधर्मे धर्मविभ्रमः॥१२॥
अत्रिणा चोदितो हन्तुं पृथुपुत्रो महारथः।
अन्वधावत सङ्क्रुद्धस्तिष्ठ तिष्ठेति चाब्रवीत्॥१३॥
तं तादृशाकृतिं वीक्ष्य मेने धर्मं शरीरिणम्।
जटिलं भस्मनाच्छन्नं तस्मै बाणं न मुञ्चति॥१४॥
वधान्निवृत्तं तं भूयो हन्तवेऽत्रिरचोदयत्।
जहि यज्ञहनं तात महेन्द्रं विबुधाधमम्॥१५॥
एवं वैन्यसुतः प्रोक्तस्त्वरमाणं विहायसा।
अन्वद्रवदभिक्रुद्धो रावणं गृध्रराडिव॥१६॥
सोऽश्वं रूपं च तद्धित्वा तस्मा अन्तर्हितः स्वराट्।
वीरः स्वपशुमादाय पितुर्यज्ञमुपेयिवान्॥१७॥
तत्तस्य चाद्भुतं कर्म विचक्ष्य परमर्षयः।
नामधेयं ददुस्तस्मै विजिताश्व इति प्रभो॥१८॥
उपसृज्य तमस्तीव्रं जहाराश्वं पुनर्हरिः।
चषाल यूपतश्छन्नो हिरण्यरशनं विभुः॥१९॥
अत्रिः सन्दर्शयामास त्वरमाणं विहायसा।
कपालखट्वाङ्गधरं वीरो नैनमबाधत॥२०॥
अत्रिणा चोदितस्तस्मै सन्दधे विशिखं रुषा।
सोऽश्वं रूपं च तद्धित्वा तस्थावन्तर्हितः स्वराट्॥२१॥
वीरश्चाश्वमुपादाय पितृयज्ञमथाव्रजत्।
तदवद्यं हरे रूपं जगृहुर्ज्ञानदुर्बलाः॥२२॥
यानि रूपाणि जगृहे इन्द्रो हयजिहीर्षया।
तानि पापस्य खण्डानि लिङ्गं खण्डमिहोच्यते॥२३॥
एवमिन्द्रे हरत्यश्वं वैन्ययज्ञजिघांसया।
तद्गृहीतविसृष्टेषु पाखण्डेषु मतिर्नृणाम्॥२४॥
धर्म इत्युपधर्मेषु नग्नरक्तपटादिषु।
प्रायेण सज्जते भ्रान्त्या पेशलेषु च वाग्मिषु॥२५॥
तदभिज्ञाय भगवान् पृथुः पृथुपराक्रमः।
इन्द्राय कुपितो बाणमादत्तोद्यतकार्मुकः॥२६॥
तमृत्विजः शक्रवधाभिसन्धितं
विचक्ष्य दुष्प्रेक्ष्यमसह्यरंहसम्।
निवारयामासुरहो महामते
न युज्यतेऽत्रान्यवधः प्रचोदितात्॥२७॥
वयं मरुत्वन्तमिहार्थनाशनं
ह्वयामहे त्वच्छ्रवसा हतत्विषम्।
अयातयामोपहवैरनन्तरं
प्रसह्य राजन् जुहवाम तेऽहितम्॥२८॥
इत्यामन्त्र्य क्रतुपतिं विदुरास्यर्त्विजो रुषा।
स्रुग्घस्तान् जुह्वतोऽभ्येत्य स्वयम्भूः प्रत्यषेधत॥२९॥
न वध्यो भवतामिन्द्रो यद्यज्ञो भगवत्तनुः।
यं जिघांसथ यज्ञेन यस्येष्टास्तनवः सुराः॥३०॥
तदिदं पश्यत महद्धर्मव्यतिकरं द्विजाः।
इन्द्रेणानुष्ठितं राज्ञः कर्मैतद्विजिघांसता॥३१॥
पृथुकीर्तेः पृथोर्भूयात्तर्ह्येकोनशतक्रतुः।
अलं ते क्रतुभिः स्विष्टैर्यद्भवान् मोक्षधर्मवित्॥३२॥
नैवात्मने महेन्द्राय रोषमाहर्तुमर्हसि।
उभावपि हि भद्रं ते उत्तमश्लोकविग्रहौ॥३३॥
मास्मिन् महाराज कृथाः स्म चिन्तां
निशामयास्मद्वच आदृतात्मा।
यद्ध्यायतो दैवहतं नु कर्तुं
मनोऽतिरुष्टं विशते तमोऽन्धम्॥३४॥
क्रतुर्विरमतामेष देवेषु दुरवग्रहः।
धर्मव्यतिकरो यत्र पाखण्डैरिन्द्रनिर्मितैः॥३५॥
एभिरिन्द्रोपसंसृष्टैः पाखण्डैर्हारिभिर्जनम्।
ह्रियमाणं विचक्ष्वैनं यस्ते यज्ञध्रुगश्वमुट्॥३६॥
भवान् परित्रातुमिहावतीर्णो
धर्मं जनानां समयानुरूपम्।
वेनापचारादवलुप्तमद्य
तद्देहतो विष्णुकलासि वैन्य॥३७॥
स त्वं विमृश्यास्य भवं प्रजापते
सङ्कल्पनं विश्वसृजां पिपीपृहि।
ऐन्द्रीं च मायामुपधर्ममातरं
प्रचण्डपाखण्डपथं प्रभो जहि॥३८॥
मैत्रेय उवाच।
इत्थं स लोकगुरुणा समादिष्टो विशाम्पतिः।
तथा च कृत्वा वात्सल्यं मघोनापि च सन्दधे॥३९॥
कृतावभृथस्नानाय पृथवे भूरिकर्मणे।
वरान् ददुस्ते वरदा ये तद्बर्हिषि तर्पिताः॥४०॥
विप्राः सत्याशिषस्तुष्टाः श्रद्धया लब्धदक्षिणाः।
आशिषो युयुजुः क्षत्तरादिराजाय सत्कृताः॥४१॥
त्वयाऽऽहूता महाबाहो सर्व एव समागताः।
पूजिता दानमानाभ्यां पितृदेवर्षिमानवाः॥४२॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
चतुर्थस्कन्धे पृथुविजये एकोनविंशोऽध्यायः॥१९॥

आग्नीध्रचरितम् आग्नीध्रात् पुर्वचित्त्यां नवपुत्रोत्पत्तिः । The history behind Agnidhra and nine children born to Poorvaciti ...
प्रियव्रतचरित्रम् । The historical story of Priyavrata. ...
गृहात्प्रव्रजितानां प्रचेतसां नारदोपदेशान्मुक्तिः । Prachetas who left home, obtained liberation from the discourse of Narada ...
दशप्रचेतसां भगवद्दर्शानं वरप्राप्तिश्च तेभ्यो मारिषागर्भाद्दक्षोत्पत्तिश्च । Sighting of Lord Vishnu by Dashaprachetas and getting boon, ...
Loading story text...
https://www.krishnadhevalipi.org/wp-content/uploads/stories/txt/ra_story_words3080.txt
https://www.krishnadhevalipi.org/wp-content/uploads/stories/json/ra_story3080.json

Details of update

last updated - 23rd May, 2026