॥अथ व्योमवर्गः॥
द्योदिवौ द्वे स्त्रियामभ्रं व्योम पुष्करमम्बरम्।
नभोऽन्तरिक्षं गगनम् अनन्तं सुरवर्त्म खम्॥
वियद् विष्णुपदं वा तु पुंस्याकाशविहायसी।
विहासयोऽपि नाकोऽपि द्युरपि स्यात् तदव्ययम्॥
तारापथोऽन्तरिक्षं च मेघाध्वा च महाबिलम्।
विहायाः शकुने पुंसि गगने पुंनपुंसकम्॥
॥इति व्योमवर्गः॥