॥ वाग् यज्ञेन कल्पताम् ॥

See Listen and Chant

These Chanting are to Inspire You for, to Practice and Learn to Chanting Bhagavat Stotram. The occasional drift while highlighting is negligible and unavoidable because of the chanting styles. Some Chanting are collected from Internet, for educative and guided chanting practice and not to infringe any Copyrights.

Ready... Play...

Amara Kosha Vanaushadhi Varga

Amara Kosha is one of the most popular Sanaskrit kosha which is by-heart memorized and this page will facilitate you to learn, listen, see and chant. There are about 25 Varga and each varga is shown in individual page.

॥ अमरकोषः ॥

॥अथ वनौषधिवर्गः॥
अटव्यरण्यं विपिनं गहनं काननं वनम्।
महारण्यमरण्यानी गृहारामास्तु निष्कुटाः॥
आरामः स्यादुपवनं कृत्रिमं वनमेव यत्।
अमात्यगणिकागेहोपवने वृक्षवाटिका॥
पुमानाक्रीड उद्यानं राज्ञः साधारणं वनम्।
स्यादेतदेव प्रमद वनमन्तःपुरोचितम्॥
वीथ्यालिरावलिः पङ्क्तिः श्रेणी लेखास्तु राजयः।
वन्या वनसमूहे स्याद् अङ्कुरोऽभिनवोद्भिदि॥
वृक्षो महीरुहः शाखी विटपी पादपस्तरुः।
अनोकहः कुटः शालः पलाशी द्रुद्रुमागमाः॥
वानस्पत्यः फलैः पुष्पात् तैरपुष्पाद्वनस्पतिः।
ओषध्यः फलपाकान्ताः स्युरवन्ध्यह् फलेग्रहिः॥
वन्ध्योऽफलोऽवकेशी च फलवान्फलिनः फली।
प्रफुल्लोत्फुल्लसंफुल्ल व्याकोशविकचस्फुटाः॥
फुल्लश्चैते विकसिते स्युरवन्ध्यादयस्त्रिषु।
स्थाणुर्वा ना ध्रुवः शङ्कुः ह्रस्वशाखाशिफः क्षुपः॥
अप्रकाण्डे स्तम्बगुल्मौ वल्ली तु व्रततिर्लता।
लता प्रतानिनी वीरुद् गुल्मिन्युलप इत्यपि॥
नगाद्यारोह उच्छ्राय उत्सेधश्चोच्छ्रयश्च सः।
अस्त्री प्रकाण्डः स्कन्धः स्यात् मूलाच्छाखावधिस्तरोः॥
समे शाखालते स्कन्ध शाखाशाले शिफाजटे।
शाखाशिफावरोहः स्यात् मूलाच्चाग्रं गता लता॥
शिरोग्रं शिखरं वा ना मूलं बुध्नोऽङ्घ्रिनामकः।
सारो मज्जा नरि त्वक्स्त्री वल्कं वल्कलमस्त्रियाम्॥
काष्ठं दार्विन्धनं त्वेधः इध्ममेधः समित्स्त्रियाम्।
निष्कुहः कोटरं वा ना वल्लरिर्मञ्जरिः स्त्रियौ॥
पत्रं पलाशं छदनं दलं पर्णं छदः पुमान्।
पल्लवोऽस्त्री किसलयं विस्तारो विटपोऽस्त्रियाम्॥
वृक्षादीनां फलं सस्यं वृन्तं प्रसवबन्धनम्।
आमे फले शलाटुः स्यात् शुष्के वानमुभे त्रिषु॥
क्षारको जालकं क्लीबे कलिका कोरकः पुमान्।
स्याद्गुच्छकस्तु स्तबकः कुङ्मलो मुकुलोऽस्त्रियाम्॥
स्त्रियः सुमनसः पुष्पं प्रसूनं कुसुमं सुमम्।
मकरन्दः पुष्परसः परागः सुमनोरजः॥
द्विहीनं प्रसवे सर्वं हरीतक्यादयः स्त्रियाम्।
आश्वत्थवैणवप्लाक्ष नैयग्रोधैङ्गुदम् फले॥
बार्हतं च फले जम्ब्वा जम्बूः स्त्री जम्बु जाम्बवम्।
पुष्पे जातीप्रभृतयः स्वलिङ्गाः व्रीहयः फले॥
विदार्याद्यास्तु मूलेऽपि पुष्पे क्लीबेऽपि पाटला।
बोधिद्रुमश्चलदलः पिप्पलः कुञ्जराशनः॥
अश्वत्थेऽथ कपित्थे स्युः दधित्थग्राहिमन्मथाः।
तस्मिन्दधिफलः पुष्प फलदन्तशठावपि॥
उदुम्बरो जन्तुफलः यज्ञाङ्गो हेमदुग्धकः।
कोविदारे चमरिकः कुद्दालो युगपत्रकः॥
सप्तपर्णो विशालत्वक् शारदो विषमच्छदः।
आरग्वधे राजवृक्ष शम्पाकचतुरङ्गुलाः॥
आरेवतव्याधिघात कृतमालसुवर्णकाः।
स्युर्जम्बीरे दन्तशठ जम्भजम्भीरजम्भलाः॥
वरुणो वरणः सेतुः तिक्तशाकः कुमारकः।
पुंनागे पुरुषस्तुङ्गः केसरो देववल्लभः॥
पारिभद्रे निम्बतरुः मन्दारः पारिजातकः।
तिनिशे स्यन्दनो नेमी रथद्रुरतिमुक्तकः॥
वञ्जुलश्चित्रकृच्चाथ द्वौ पीतनकपीतनौ।
आम्रातके मधूके तु गुडपुष्पमधुद्रुमौ॥
वानप्रस्थमधुष्ठीलौ जलजेऽत्र मधूलकः।
पीलौ गुडफलः स्रंसी तस्मिंस्तु गिरिसम्भवे॥
अक्षोटकन्दरालौ द्वौ अङ्कोटे तु निकोचकः।
पलाशे किंशुकः पर्णः वातपोतोऽथ वेतसे॥
रथाभ्रपुष्पविदुर शीतवानीरवञ्जुलाः।
द्वौ परिव्याधविदुलौ नादेयी चाम्बुवेतसे॥
शोभाञ्जने शिग्रुतीक्ष्ण गन्धकाक्षीवमोचकाः।
रक्तोऽसौ मधुशिग्रुः स्याद् अरिष्टः फेनिलः समौ॥
बिल्वे शाण्डिल्यशैलूषौ मालूरश्रीफलावपि।
प्लक्षो जटी पर्कटी स्यात् न्यग्रोधो बहुपाद्वटः॥
गालवः शाबरो लोध्रः तिरीटस्तिल्वमार्जनौ।
आम्रश्चूतो रसालोऽसौ सहकारोऽतिसौरभः॥
कुम्भोलूखलकं क्लीबे कौशिको गुग्गुलुः पुरः।
शेलुः श्लेष्मातकः शीत उद्दालो बहुवारकः॥
राजादनं प्रियालः स्यात् सन्नकद्रुर्धनुःपटः।
गम्भारी सर्वतोभद्रा काश्मरी मधुपर्णिका॥
श्रीपर्णी भद्रपर्णी च काश्मर्यश्चाप्यथ द्वयोः।
कर्कन्धूर्बदरी कोलिः कोलं कुवलफेनिले॥
सौवीरं बदरं घोण्टा अप्यथ स्यात्स्वादुकण्टकः।
विकङ्कतः सुवावृक्षः ग्रन्थिलो व्याघ्रपादपि॥
ऐरावतो नागरङ्गः नादेयी भूमिजम्बुका।
तिन्दुकः स्फूर्जकः कालस्कन्धश्च शितिसारके॥
काकेन्दुः कुलकः काकतिन्दुकः काकपीलुके।
गोलीढो झाटलो घण्टा पाटलिर्मोक्षमुष्ककौ॥
तिलकः क्षुरकः श्रीमान् समौ पिचुलझावुकौ।
श्रीपर्णिका कुमुदिका कुम्भी कैटर्यकट्फलौ॥
क्रमुकः पट्टिकाख्यः स्यात् पट्टी लाक्षाप्रसादनः।
तूदस्तु यूपः क्रमुकः ब्रह्मण्यो ब्रह्मदारु च॥
तूलं च नीपप्रियक कदम्बास्तु हरिप्रियः।
वीरवृक्षोऽरुष्करोऽग्निमुखी भल्लातकी त्रिषु॥
गर्दभाण्डे कन्दराल कपीतनसुपार्श्वकाः।
प्लक्षश्च तिन्तिडी चिञ्च अम्लिकाथो पीतसारके॥
सर्जकासनबन्धूक पुष्पप्रियकजीवकाः।
साले तु सर्जकार्श्याश्व कर्णकाः सस्यसम्बरः॥
नदीसर्जो वीरतरुः इन्द्रद्रुः ककुभोऽर्जुनः।
राजादनः फलाध्यक्षः क्षीरिकायामथ द्वयोः॥
इङ्गुदी तापसतरुः भूर्जे चर्मिमृदुत्वचौ।
पिच्छिला पूरणी मोचा स्थिरायुः शाल्मलिर्द्वयोः॥
पिच्छा तु शाल्मलीवेष्टे रोचनः कूटशाल्मलिः।
चिरबिल्वो नक्तमालः करजश्च करञ्जके॥
प्रकीर्यः पूतिकरजः पूतिकः कलिमारकः।
करञ्जभेदाः ष्ड्ग्रन्थः मर्कट्यङ्गारवल्लरी॥
रोही रोहितकः प्लीह शत्रुर्दाडिमपुष्पकः।
गायत्री बालतनयः खदिरो दन्तधावनः॥
अरिमेदो विट्खदिरे कदरः खदिरे सिते।
सोमवल्कोऽप्यथ व्याघ्र पुच्छगन्धर्वहस्तकौ॥
एरण्ड उरुबूकश्च रुचकश्चित्रकश्च सः।
चञ्चुः पञ्चाङ्गुलो मण्डवर्धमानव्यडम्बकाः॥
अल्पा शमी शमीरः स्यात् छमी सक्तुफला शिवा।
पिण्डीतको मरुबकः श्वसनः करहाटकः॥
शल्यश्च मदने शक्रपादपः पारिभद्रकः।
भद्रदारु द्रुकिलिमं पीतदारु च दारु च॥
पूतिकाष्ठं च सप्त स्युर्देवदारुण्यथ द्वयोः।
पाटलिः पाटलामोघा काचस्थाली फलेरुहा॥
कृष्णवृन्ता कुबेराक्षी श्यामा तु महिलाह्वया।
लता गोवन्दनी गुन्द्रा प्रियङ्गुः फलिनी फली॥
विष्वक्सेना गन्धफली कारम्भा प्रियकश्च सा।
मण्डूकपर्णपत्रोर्ण नटकट्वङ्गटुण्टुकाः॥
स्योनाकशुकनासर्क्ष दीर्घवृन्तकुटन्नटाः।
शोणकश्चारालौ तिष्यफला त्वामलकी त्रिषु॥
अमृता च वयःस्था च त्रिलिङ्गस्तु बिभीतकः।
नाक्षस्तुषः कर्षफलः भूतावासः कलिद्रुमः॥
अभया त्वव्यथा पथ्या कायस्था पूतनामृता।
करीतकी हैमवती चेतकी श्रेयसी शिवा॥
पीतद्रुः सरलः पूतिकाष्ठं चाथ द्रुमोत्पलः।
कर्णिकारः परिव्याधोः लकुचो लिकुचो डहुः॥
पनसः कण्टकिफलः निचुलो हिज्जलोऽम्बुजः।
काकोदुम्बरिका फल्गुः मलयूर्जघनेफला॥
अरिष्टः सर्वतोभद्र हिङ्गुनिर्यासमालकाः।
पिचुमन्दश्च निम्बेऽथ पिच्छिलागुरुशिंशपा॥
कपिला भस्मगर्भा सा शिरीषस्तु कपीतनः।
भण्डिलोऽप्यथ चाम्पेयः चम्पको हेमपुष्पकः॥
एतस्य कलिका गन्धफली स्यादथ केसरे।
बकुलो वञ्जुलोऽशोके समौ करकदाडिमौ॥
चाम्पेयः केसरो नागकेसरः काञ्चनाह्वयः।
जया जयन्ती तर्कारी नादेयी वैजयन्तिका॥
श्रीपर्णमग्निमन्थः स्यात् कणिका गणिकारिका।
जयोऽथ कुटजः शक्रः वत्सको गिरिमल्लिका॥
एतस्यैव कलिङ्गेन्द्रयवभद्रयवं फले।
कृष्णपाकफलाविग्नसुषेणाः करमर्दके॥
कालस्कन्धस्तमालः स्यात् तापिच्छोऽप्यथ सिन्दुके।
सिन्दुवारेन्द्रसुरसौ निर्गुण्डीन्द्राणिकेत्यपि॥
वेणी गरा गरी देवताडो जीमूत इत्यपि।
श्रीहस्तिनी तु भूरुण्डी तृणशून्यं तु मल्लिका॥
भूपदी शीतभीरुश्च सैवास्फोटा वनोद्भवा।
शेफालिका तु सुवहा निर्गुण्डी नीलिका च सा॥
सितासौ श्वेतसुरसा भूतवेश्यथ मागधी।
गणिका यूथिकाम्बष्ठा सा पीता हेमपुष्पिका॥
अतिमुक्तः पुण्ड्रकः स्याद् वासन्ती माधवी लता।
सुमना मालती जातिः सप्तला नवमालिका॥
माध्यं कुन्दं रक्तकस्तु बन्धूको बन्धुजीवकः।
सहा कुमारी तरणिः अम्लानस्तु महासहा॥
तत्र शोणे कुरबकः तत्र पीते कुरकण्टकः।
नीली झिण्टी द्वयोर्बाणा दासी चार्तगलश्च सा॥
सैरेयकस्तु झिण्टी स्यात् तस्मिन्कुरबकोऽरुणे।
पीता कुरण्टको झिण्टी तस्मिन्सहचरी द्वयोः॥
ओण्ड्रपुष्पं जपापुष्पं वज्रपुष्पं तिलस्य यत्।
प्रतिहासशतप्रास चण्डातहयमारकाः॥
करवीरे करीरे तु क्रकरग्रन्थिलावुभौ।
उन्मत्तः कितवो धूर्तः धत्तूरः कनकाह्वयः॥
मातुलो मदनश्चास्य फले मातुलपुत्रकः।
फलपूरो बीजपूरः रुचको मातुलुङ्गके॥
समीरणो मरुबकः प्रस्थपुष्पः फणिज्जकः।
जम्बीरोऽप्यथ पर्णासे कठिञ्जरकुठेरकौ॥
सितेऽर्जकोऽत्र पाठी तु चित्रको वह्निसंज्ञकः।
अर्काह्ववसुकास्फोट गणरूपविकीरणाः॥
मन्दारश्चार्कपर्णोऽत्र शुक्लेऽलर्कप्रतापसौ।
शिवमल्ली पाशुपत एकाष्ठीलो बुको वसुः॥
वन्दा वृक्षादनी वृक्षरुहा जीवन्तिकेत्यपि।
वत्सादनी छिन्नरुहा गुडूची तन्त्रिकामृता॥
जीवन्तिका सोमवल्ली विशल्या मधुपर्ण्यपि।
मूर्वा देवी मधुरसा मोरटा तेजनी स्रुवा॥
मधूलिका मधुश्रेणी गोकर्णी पीलुपर्ण्यपि।
पाटाम्बष्टा विद्धकर्न्णी स्थापनी श्रेयसी रसा॥
एकाष्टीला पापचेली प्राचीना वनतिक्तिका।
कटुः कटम्भराशोकरोहिणी कटुरोहिणी॥
मत्स्यपित्ता कृष्णभेदी चक्राङ्गी शकुलादनी।
आत्मगुप्ताजहाव्यण्डा कण्डूरा प्रावृषायणी॥
ऋष्यप्रोक्ता शूकशिम्बिः कपिकच्छुश्च मर्कटी।
चित्रोपचित्रा न्यग्रोधी द्रवन्ती शम्बरी वृशा॥
प्रत्यक्ष्रेणी सुतश्रेणी रण्डा मूषिकपर्ण्यपि।
अपामार्गः शैखरिकः धामार्गवमयूरकौ॥
प्रत्यक्पर्णी केशपर्णी किणिही खरमञ्जरी।
हञ्जिका ब्राह्मणी पद्मा भार्गी ब्राह्मणयष्टिका॥
अङ्गारवल्ली बालेयशाकबर्बरवर्धकाः।
मञ्जिष्टा विकसा जिङ्गी समङ्गा कालमेषिका॥
मण्डूकपर्णी भण्डीरी भण्डी योजनवल्ल्यपि।
यासो यवासो दुःस्पर्शः धन्वयासः कुनाशकः॥
रोदनी कच्छुरानन्ता समुद्रान्ता दुरालभा।
पृश्निपर्णी पृथक्पर्णी चित्रपर्ण्यङ्घ्रिवल्लिका॥
क्रोष्टुविन्ना सिंहपुच्छी कलशिर्धावनी गुहा।
निदिग्धिका स्पृशी व्याघ्री बृहती कण्टकारिका॥
प्रचोदनी कुली क्षुद्रा दुःस्पर्शा राष्ट्रिकेत्यपि।
नीली काला क्लीतकिका ग्रामीणा मधुपर्णिका॥
रञ्जनी श्रीफली तुत्था द्रोणी दोला च नीलिनी।
अवल्गुजः सोमराजी सुवल्लिः सोमवल्लिका॥
कालमेषी कृष्णफला बाकुची पूतिफल्यपि।
कृष्णोपकुल्या वैदेही मागधी चपला कणा॥
उषणा पिप्पली शौण्डी कोलाथ करिपिप्पली।
कपिवल्ली कोलवल्ली श्रेयसी वशिरः पुमान्॥
चव्यं तु चविका काकचिञ्चीगुञ्जे तु कृष्णला।
पलंकषा त्विक्षुगन्धा श्वदंष्ट्रा स्वादुकण्टकः॥
गोकण्टको गोक्षुरकः वनश‍ृन्ङ्गाट इत्यपि।
विश्वा विषा प्रतिविषा अतिविषोपविषारुणा॥
श‍ृन्गी महौषधं चाथ क्षीरावी दुग्धिका समे।
शतमूली बहुसुता अभीरूरिन्दीवरी वरी॥
ऋष्यप्रोक्ताभीरुपत्री नारायण्यः शतावरी।
अहेरुरथ पीतद्रुकालीयकहरिद्रवः॥
दार्वी पचंपचा दारु हरिद्रा पर्जनीत्यपि।
वचोग्रगन्धा षड्ग्रन्था गोलोमी शतपर्विका॥
शुक्ला हैमवती वैध्यमातृसिंह्यौ तु वाशिका।
वृषोऽटरूषः सिंहास्यः वासको वाजिदन्तकः॥
आस्फोटा गिरिकर्णी स्याद् विष्णुक्रान्तापराजिता।
इक्षुगन्धा तु काण्डेक्षु कोकिलाक्षेक्षुरक्षुराः॥
शालेयः स्याच्छीतशिवश्छत्रा मधुरिका मिसिः।
मिश्रेयाप्यथ सीहुण्डः वज्रः स्नुक्स्त्री स्नुही गुडा॥
समन्तदुग्धाथो वेल्लम् अमोघा चित्रतण्डुला।
तण्डुलश्च कृमिघ्नश्च विडङ्गं पुंनपुंसकम्॥
बला वाट्यालका घण्टा रवा तु शणपुष्पिका।
मृद्वीका गोस्तनी द्राक्षा स्वाद्वी मधुरसेति च॥
सर्वानुभूतिः सरला त्रिपुटा त्रिवृता त्रिवृत्।
त्रिभण्डी रोचनी श्यामा पालिन्ध्यौ तु सुषेणिका॥
काला मसूरविदलार्धचन्द्रा कालमेषिका।
मधुकं क्लीतकं यष्टिमधुकं मधुयष्टिका॥
विदारी क्षीरशुक्लेक्षुगन्धा क्रोष्टी तु या सिता।
अन्या क्षीरविदारी स्यात् महाश्वेतर्क्षगन्धिका॥
लाङ्गली शारदी तोयपिप्पली शकुलादनी।
खराश्वा कारवी दीप्यः मयूरो लोचमस्तकः॥
गोपी श्यामा शारिवा स्याद् अनन्तोत्पलशारिवा।
योग्यमृद्धिः सिद्धिलक्ष्म्यौ वृद्धेरप्याह्वया इमे॥
कदली वारणबुसा रम्भा मोचांशुमत्फला।
काष्ठीला मुद्गपर्णी तु काकमुद्गा सहेत्यपि॥
वार्ताकी हिङ्गुली सिंही भण्टाकी दुष्प्रधर्षिणी।
नाकुली सुरसा रास्ना सुगन्धा गन्धनाकुली॥
नकुलेष्टा भुजंगाक्षी छत्राकी सुवहा च सा।
विदारिगन्धांशुमती सालपर्णी स्थिरा ध्रुवा॥
तुण्डिकेरी समुद्रान्ता कार्पासी बदरेति च।
भारद्वाजी तु सा वन्या श‍ृङ्गी तु ऋषभो वृशः॥
गाङ्गेरुकी नागबला झषा ह्रस्वगवेधुका।
धामार्गवो घोशकः स्यात् महाजाली स पीतकः॥
ज्योत्स्नी पटोलिका जाली नादेयी भूमिजम्बुका।
स्याल्लाङ्गलिक्यग्निशिखा काकाङ्गी काकनासिका॥
गोधापदी तु सुवहा मुसली तालमूलिका।
अजश‍ृङ्गी विषाणी स्याद् गोजिह्वादार्विके समे॥
ताम्बूलवल्ली ताम्बूली नागवल्ल्यप्यथ द्विजा।
हरेणू रेणुका कौन्ती कपिला भस्मगन्धिनी॥
एलावालुकमैलेयं सुगन्धि हरिवालुकम्।
वालुकं चाथ पालङ्क्यां मुकुन्दः कुन्दकुन्दुरू॥
बालं ह्रीबेरबर्हिष्ठोदीच्यं केशाम्बुनाम च।
कालानुसार्यवृद्धाश्म पुष्पशीतशिवानि तु॥
शैलेयं तालपर्णी तु दैत्या गन्धकुटी मुरा।
गन्धिनी गजभक्ष्या तु सुवहा सुरभी रसा॥
महेरणा कुन्दुरुकी सल्लकी ह्लादिनीति च।
अग्निज्वालासुभिक्षे तु धातकी धातुपुष्पिका॥
पृथ्वीका चन्द्रवालैला निष्कुटिर्बहिलाथ सा।
सूक्ष्मोपकुञ्चिका तुत्था कोरङ्गी त्रिपुटा त्रुटिः॥
व्याधिः कुष्टं पारिभाव्यं वाप्यं पाकलमुत्पलम्।
शङ्खिनी चोरपुष्पी स्यात् केशिन्यथ वितुन्नकः॥
झटामलाज्झटा ताली शिवा तामलकीति च।
प्रपौण्डरीकं पौण्डर्यमथ तुन्नः कुबेरकः॥
कुणिः कच्छः कान्तलकः नन्दिवृक्षोऽथ राक्षसी।
चण्डा धनहरी क्षेमदुष्पत्रगणहासकाः॥
व्याडायुधं व्याघ्रनखं करजं चक्रकारकम्।
सुषिरा विद्रुमलता कपोताङ्घ्रिर्नटी नली॥
धमन्यञ्जनकेशी च हनुर्हट्टविलासिनी।
शुक्तिः शङ्खः खुरः कोलदलं नखमथाढकी॥
काक्षी मृत्स्ना तुवरिका मृत्तालकसुराष्ट्रजे।
कुटन्नटं दाशपुरं वानेयं परिपेलवम्॥
प्लवगोपुरगोनर्द कैवर्तीमुस्तकानि च।
ग्रन्थिपर्णं शुकं बर्हं पुष्पं स्थौणेयकुक्कुरे॥
मरुन्माला तु पिशुना स्पृक्का देवी लता लघुः।
समुद्रान्ता वधूः कोटिवर्षा लङ्कोपिकेत्यपि॥
तपस्विनी जटामांसी जटिला लोमशामिषी।
त्वक्पत्रमुत्कटं भृङ्गं त्वचं चोचं वराङ्गकम्॥
कर्चूरको द्राविडकः काल्पको वेधमुख्यकः।
ओषध्यो जातिमात्रे स्युः अजातौ सर्वमौषधम्॥
शाकाख्यं पत्रपुष्पादि तण्डुलीयोऽल्पमारिषः।
विशल्याग्निशिखानन्ता फलिनी शक्रपुष्पिका॥
स्याद्दक्षगन्धा छगलान्त्रयावेगी वृद्धदारकः।
जुङ्गो ब्रह्मी तु मत्स्याक्षी वयःस्था सोमवल्लरी॥
पटुपर्णी हैमवती स्वर्णक्षीरी हिमावती।
हयपुच्छी तु काम्बोजी माषपर्णी महासहा॥
तुण्डिकेरी रक्तफला बिम्बिका पीलुपर्ण्यपि।
बर्बरा कबरी तुङ्गी खरपुष्पाजगन्धिका॥
एलापर्णी तु सुवहा रास्ना युक्तरसा च सा।
चाङ्गेरी चुक्रिका दन्तशटाम्बष्ठाम्ललोणिका॥
सहस्रवेधी चुक्रोऽम्लवेतसः शतवेध्यपि।
नमस्कारी गण्डकारी समङ्गा खदिरेत्यपि॥
जीवन्ती जीवनी जीवा जीवनीया मधुस्रवा।
कूर्चशीर्षो मधुरकः श‍ृङ्गह्रस्वाङ्गजीवकाः॥
किराततिक्तो भूनिम्बः अनार्यतिक्तोऽथ सप्तला।
विमला सातला भूरिफेना चर्मकषेत्यपि॥
वायसोली स्वादुरसा वयःस्थाथ मकूलकः।
निकुम्भो दन्तिका प्रत्यक्ष्रेण्युदुम्बरपर्ण्यपि॥
अजमोदा तूग्रगन्धा ब्रह्मदर्भा यवानिका।
मूले पुष्करकाश्मीर पद्मपत्राणि पौष्करे॥
अव्यथातिचरा पद्मा चारटी पद्मचारिणी।
काम्पिल्यः कर्कशश्चन्द्रः रक्ताङ्गो रोचनीत्यपि॥
प्रपुन्नाडस्त्वेडगजः दद्रुघ्नश्चकमर्दकः।
पद्माट उरणाख्यश्च पलाण्डुस्तु सुकन्दकः॥
लतार्कदुद्रुमौ तत्र हरितेऽथ महौषधम्।
लशुनं गृञ्जनारिष्टमहाकन्दरसोनकाः॥
पुनर्नवा तु शोथघ्नी वितुन्नं सुनिषण्णकम्।
स्याद्वातकः शीतलोऽपराजिता शणपर्ण्यपि॥
पारावताङ्घ्रिः कटभी पण्या ज्योतिष्मती लता।
वार्षिकं त्रायमाणा स्यात् त्रायन्ती बलभद्रिका॥
विष्वक्सेनप्रिया गृष्टिः वाराही बदरेत्यपि।
मार्कवो भृङ्गराजः स्यात् काकमाची तु वायसी॥
शतपुष्पा सितच्छत्रातिच्छत्रा मधुरा मिसिः।
अवाक्पुष्पी कारवी च सरणा तु प्रसारिणी॥
तस्यां कटंभरा राजबला भद्रबलेत्यपि।
जनी जतूका रजनी जतुकृच्चक्रवर्तिनी॥
संस्पर्शाथ शटी गन्धमूली षड्ग्रन्थिकेत्यपि।
कर्चूरोऽपि पलाशोऽथ कारवेल्लः कठिल्लकः॥
सुषवी चाथ कुलकं पतोलस्तिक्तकः पटुः।
कूष्माण्डकस्तु कर्कारुः उर्वारुः कर्कटी स्त्रियौ॥
इक्ष्वाकुः कटुतुम्बी स्यात् तुम्ब्यलाबूरुभे समे।
चित्रा गवाक्षी गोडुम्बा विशाला त्विन्द्रवारुणी॥
अर्शोघ्नः सूरणः कन्दः गण्डीरस्तु समष्ठिला।
कलम्ब्युपोदिका स्त्री तु मूलकं हिलमोचिका॥
वास्तुकं शाकभेदाः स्युः दूर्वा तु शतपर्विका।
सहस्रवीर्याभार्गव्यौ रुहानन्ताथ सा सिता॥
गोलोमी शतवीर्या च गण्डाली शकुलाक्षका।
कुरुविन्दो मेघनामा मुस्ता मुस्तकमस्त्रियाम्॥
स्याद्भद्रमुस्तको गुन्द्रा चूडाला चक्रलोच्चटा।
वंशे त्वक्सारकर्मारत्वाचिसारतृणध्वजाः॥
शतपर्वा यवफलः वेणुमस्करतेजनाः।
वेणवः कीचकास्ते स्युः ये स्वनन्त्यनिलोद्धताः॥
ग्रन्थिर्ना पर्वपरुशी गुन्द्रस्तेजनकः शरः।
नडस्तु धमनः पोटगलोऽथो काशमस्त्रियाम्॥
इक्षुगन्धा पोटगलः पुंसि भूम्नि तु बल्वजाः।
रसाल इक्षुस्तद्भेदाः पुण्ड्रकान्तारकादयः॥
स्याद्वीरणं वीरतरं मूलेऽस्योशीरमस्त्रियाम्।
अभयं नलदं सेव्यममृणालं जलाशयम्॥
लामज्जकं लघुलयम् अवदाहेष्टकापथे।
नडादयस्तृणं गर्मुच्छ्यामाकप्रमुखा अपि॥
अस्त्री कुशं कुथो दर्भः पवित्रमथ कत्तृणम्।
पौरसौगन्धिकध्यामदेवेजग्धकरौहिषम्॥
छत्रातिच्छत्रपालघ्नौ मालातृणकभूस्तृणे।
शष्पं बालतृणम् घासः यवसं तृणमर्जुनम्॥
तृणानां संहतिस्तृण्या नड्या तु नडसंहतिः।
तृणराजाह्वयस्तालः नालिकेरस्तु लाङ्गली॥
घोण्टा तु पूगः क्रमुकः गुवाकः खपुरोऽस्य तु।
फलमुद्वेगमेते च हिन्तालस हितास्त्रयः॥
खर्जूरः केतकी ताली खर्जूरी च तृणद्रुमाः॥
॥इति वनौषधिवर्गः॥

नारदव्याससंवादः भगवद्गुणकर्मवर्णनस्य महत्त्वं देवर्षिनारदकर्तृकं स्वकीयपूर्वजन्मवृत्तान्ताकथनं च - The conversation between Maharshi Vyasa and Dhevarshi Narada, ...
महर्षेर्व्यासस्यापरितोषः तदाश्रमे देवर्शिनारदस्यागमनं च - Maharshi Vyasa's ashrama visited by Dhevarshi Narada. ...
भगवतचतुर्विंशत्यवताराणां संक्षेपतो वर्णनम् - A brief intro about the 24 various incarnation of God Vishnu. ...
सूतप्रतिवचनम् - भगवत्कथायाः श्रवणकीर्तनयोर्निःश्रेयसकरत्वं भवगवद्भक्तेर्माहात्म्यवर्णनं च - The answer given by Suta Maharishi - The ...
Loading story text...
https://www.krishnadhevalipi.org/wp-content/uploads/stories/txt/ra_story_words1913.txt
https://www.krishnadhevalipi.org/wp-content/uploads/stories/json/ra_story1913.json

Details of update

last updated - 23rd May, 2026