॥अथ सिंहादिवर्गः॥
सिंहो मृगेन्द्रः पञ्चास्यः हर्यक्षः केसरी हरिः।
कण्टीरवो मृगारिपुः मृगदृष्टिर्मृगाशनः॥
पुण्डरीकः पञ्चनखः चित्रकायमृगद्विषः।
शार्दूलद्वीपिनौ व्याघ्रे तरक्षुस्तु मृगादनः॥
वराहः सूकरो घृष्टिः कोलः पोत्री किरिः किटिः।
दंष्ट्री घोणी स्तब्धरोमा क्रोडो भूदार इत्यपि॥
कपिप्लवंगप्लवग शाखामृगवलीमुखाः।
मर्कटो वानरः कीशः वनौका अथ भल्लुके॥
ऋक्षाच्छभल्लभल्लूकाः गण्डके खड्गखड्गिनौ।
लुलायो महिषो वाहाद्विषत्कासरसैरिभाः॥
स्त्रियां शिवा भूरिमायगोमायुमृगधूर्तकाः।
शृगालवञ्चकक्रोष्टुफेरुफेरवजम्बुकाः॥
ओतुर्बिडालो मार्जारः वृषदंशक आखुभुक्।
त्रयो गौधेरगौधार गौधेया गोधिकात्मजे॥
श्वावित्तु शल्यस्तल्लोम्नि शलली शललं शलम्।
वातप्रमीर्वातमृगः कोकस्त्वीहामृगो वृकः॥
मृगे कुरङ्गवातायुहरिणाजिनयोनयः।
ऐणेयमेण्याश्चर्माध्यमेणस्यैणमुभे त्रिषु॥
कदली कन्दली चीनः चमूरुप्रियकावपि।
समूरुश्चेति हरिणा अमी अजिनयोनयः॥
कृष्णसाररुरुन्यङ्कुः अङ्कुशम्बररौहिषाः।
गोकर्णपृषतैणर्श्य रोहिताश्चमरो मृगाः॥
गन्धर्वः शरभो रामः सृमरो गवयः शशः।
इत्यादयो मृगेन्द्राद्याः गवाद्याः पशुजातयः॥
अधोगन्ता तु खनकः वृकः पुंध्वज उन्दुरः।
उन्दुरुर्मूषकोऽप्याखुः गिरिका बालमूषिका॥
सरटः कृकलासः स्यात् मुसली गृहगोधिका।
लूता स्त्री तन्तुवायोर्णनाभमर्कटकाः समाः॥
नीलङ्गुस्तु कृमिः कर्णजलौकाः शतपद्युभे।
वृश्चिकः शूककीटः स्यात् अलिद्रुणौ तु वृश्चिके॥
पारावतः कलरवः कपोतोऽथ शशादनः।
पत्री श्येन उलूकस्तु वायसारातिपेचकौ॥
दिवान्धः कौशिको घूकः दिवाभीतो निशाटनः।
व्याघ्राटः स्याद्भरद्वाजः खञ्जरीटस्तु खञ्जनः॥
लोहपृष्ठस्तु कङ्कः स्यात् अथ चाषः किकीदिविः।
कलिङ्गभृङ्गधूम्याटा अथ स्याच्छतपत्रकः॥
दार्वाघाटोऽथ सारङ्गः तोककश्चातकः समाः।
कृकवाकुस्ताम्रचूडः कुक्कुटश्चरणायुधः॥
चटकः कलविङ्कः स्यात् तस्य स्त्री चटका तयोः।
पुमपत्ये चाटकैरः स्त्र्यपत्ये चटकैव सा॥
कर्करेटुः करेटुः स्यात् कृकणक्रकरौ समौ।
वनप्रियः परभृतः कोकिलः पिक इत्यपि॥
काके तु करटारिष्टबलिपुष्टसकृत्प्रजाः।
ध्वाङ्क्षात्मघोषपरभृद् बलिभुग्वायसा अपि॥
स एव च चिरञ्जीवी चैकदृष्टिश्च मौकुलिः।
द्रोणकाकस्तु काकोलः दात्यूहः कालकण्ठकः॥
आतापिचिल्लौ दाक्षाय्यगृध्रौ कीरशुकौ समौ।
क्रुङ्क्रौञ्चोऽथ बकः कह्वः पुष्कराह्वस्तु सारसः॥
कोकश्चक्रश्चक्रवाकः रथाङ्गाह्वयनामकः।
कादम्बः कलहंसः स्यात् उत्क्रोशकुररौ समौ॥
हंसास्तु श्वेतगरुतः चक्राङ्गा मानसौकसः।
राजहंसास्तु ते चञ्चु चरणैर्लोहितैः सिताः॥
मलिनैर्मल्लिकाक्षास्ते धार्तराष्ट्राः सितेतरैः।
शरारिराटिराडिश्च बलाका बिसकण्ठिका॥
हंसस्य योषिद्वरटा सारसस्य तु लक्ष्मणा।
जतुकाजिनपत्रा स्यात् परोष्णी तैलपायिका॥
वर्वणा मक्षिका नीला सरघा मधुमक्षिका।
पतङ्गिका पुत्तिका स्यात् दंशस्तु वनमक्षिका॥
दंशी तज्जातिरल्पा स्यात् गन्धोली वरटा द्वयोः।
भृङ्गारी झीरुका चीरी झिल्लिका च समा इमाः॥
समौ पतङ्गशलभौ खध्योतो ज्योतिरिङ्गणः।
मधुव्रतो मधुकरः मधुलिण्मधुपालिनः॥
द्विरेफपुष्पलिड्भृङ्गषट्पदभ्रमरालयः।
मयूरो बर्हिणो बर्ही नीलकण्ठो भुजंगभुक्॥
शिखावलः शिखी केकी मेघनादानुलास्यपि।
केका वाणी मयूरस्य समौ चन्द्रकमेचकौ॥
शिखा चूडा शिखण्डस्तु पिच्छबर्हे नपुंसके।
खगे विहङ्गविहग विहङ्गमविहायसः॥
शकुन्तिपक्षिशकुनि शकुन्तशकुनद्विजाः।
पतत्रिपत्रिपतग पतत्पत्ररथाण्डजाः॥
नगौकोवाजिविकिर विविष्किरपतत्रयः।
नीडोद्भवाः गरुत्मन्तः पित्सन्तो नभसंगमाः॥
तेषां विशेषा हारीतः मद्गुः कारण्डवः प्लवः।
तित्तिरिः कुक्कुभो लावः जीवञ्जीवश्च कोरकः॥
कोयष्टिकष् टिट्टिभकः वर्तको वर्तिकादयः।
गरुत्पक्षच्छदाः पत्रं पतत्रं च तनूरुहम्॥
स्त्री पक्षतिः पक्षमूलं चञ्चुस्त्रोटिरुभे स्त्रियौ।
प्रडीनोड्डीनसँडीनान्येताः खगगतिक्रियाः॥
पेशी कोशो द्विहीनेऽण्डं कुलायो नीडमस्त्रियाम्।
पोतः पाकोऽर्भको डिम्भः पृथुकः शावकः शिशुः॥
स्त्रीपुंसौ मिथुनं द्वन्द्वं युग्मं तु युगुलं युगम्।
समूहे निवहव्यूहसंदोहविसरव्रजाः॥
स्तोमौघनिकरव्रातवारसंघातसंचयाः।
समुदायः समुदयः समवायश्च यो गणः॥
स्त्रियां तु संहतिर्वृन्दं निकुरम्बं कदम्बकम्।
वृन्दभेदाः समैर्वर्गः संघसार्थौ तु जन्तुभिः॥
सजातीयैः कुलं यूथं तिरश्चां पुंनपुंसकम्।
पशूनां समजोऽन्येषां समाजोऽथ सधर्मिणाम्॥
स्यान्निकायः पुञ्जराशी तूत्करः कूटमस्त्रियाम्।
कापोतशौकमायूर तैत्तिरादीनि तद्गणे॥
गृहासक्ताः पक्षिमृगाः छेकास्ते गृह्यकाश्च ते॥
॥इति सिंहादिवर्गः॥