॥ वाग् यज्ञेन कल्पताम् ॥

See Listen and Chant

These Chanting are to Inspire You for, to Practice and Learn to Chanting Bhagavat Stotram. The occasional drift while highlighting is negligible and unavoidable because of the chanting styles. Some Chanting are collected from Internet, for educative and guided chanting practice and not to infringe any Copyrights.

Ready... Play...

Amara Kosha Shabdhadhi Varga

Amara Kosha is one of the most popular Sanaskrit kosha which is by-heart memorized and this page will facilitate you to learn, listen, see and chant. There are about 25 Varga and each varga is shown in individual page.

॥ अमरकोषः ॥

॥अथ शब्दादिवर्गः॥
ब्राह्मी तु भारती भाषा गीर्वाग्वाणी सरस्वती।
व्याहार उक्तिर्लपितं भाषितं वचनं वचः॥
अपभ्रंशोऽपशब्दः स्यात् शास्त्रे शब्दस्तु वाचकः।
तिङ् सुबन्तचयो वाक्यं क्रिया वा कारकान्विता॥
श्रुतिः स्त्री वेद आम्नायः त्रयी धर्मस्तु तद्विधिः।
स्त्रियामृक् सामयजुषी इति वेदास्त्रयस्त्रयी॥
शिक्षेत्यादि श्रुतेरङ्गम् ओङ्कारप्रणवौ समौ।
इतिहासः पुरावृत्तम् उदात्ताद्यास्त्रयः स्वराः॥
आन्वीक्षिकी दण्डनीतिः तर्कविद्याऽर्थशास्त्रयोः।
आख्यायिकोपलब्धार्था पुराणं पञ्चलक्षणम्॥
प्रबन्धकल्पना कथा प्रवह्लिका प्रहेलिका।
स्मृतिस्तु धर्मसंहिता समाहृतिस्तु संग्रहः॥
समस्या तु समासार्था किंवदन्ती जनश्रुतिः।
वार्ता प्रवृत्तिर्वृत्तान्तः उदन्तः स्यादथाऽह्वयः॥
आख्याह्वे अभिधानं च नामधेयं च नाम च।
हूतिराकारणाऽऽह्वानं संहूतिर्बहुभिः कृता॥
विवादो व्यवहारः स्याद् उपन्यासस्तु वाङ्मुखम्।
उपोद्धात उदाहारः शपनं शपथः पुमान्॥
प्रश्नोऽनुयोगः पृच्छा च प्रतिवाक्योत्तरे समे।
मिथ्याभियोगोऽभ्याख्यानम् अथ मिथ्याभिशंसनम्॥
अभिशापः प्रणादस्तु शब्दः स्यादनुरागजः।
यशः कीर्तिः समज्ञा च स्तवः स्तोत्रं स्तुतिर्नुतिः॥
आम्रेडितं द्विस्त्रिरुक्तम् उच्चैर्घुष्टं तु घोषणा।
काकुः स्त्रियां विकारो यः शोकभीत्यादिभिर्ध्वनेः॥
अवर्णाऽक्षेपनिर्वादपरीवादापवादवत्।
उपक्रोशो जुगुप्सा च कुत्सा निन्दा च गर्हणे॥
पारुष्यमतिवादः स्याद् भर्त्सनं त्वपकारगीः।
यः सनिन्द उपालम्भः तत्र स्यात्परिभाषणम्॥
तत्र त्वाक्षारणा यः स्याद् आक्रोशो मैथुनं प्रति।
स्यादाभाषणमालापः प्रलापोऽनर्थकं वचः॥
अनुलापो मुहुर्भाषा विलापः परिदेवनम्।
विप्रलापो विरोधोक्तिः संलापो भाषणं मिथः॥
सुप्रलापः सुवचनम् अपलापस्तु निह्नवः।
चोद्यमाक्षेपाऽभियोगौ शापाऽक्रोशौ दुरेषणा॥
अस्त्री चाटु चटु श्लाघा प्रेम्णा मिथ्याविकत्थनम्।
संदेशवाग्वाचिकं स्याद् वाग्भेदास्तु त्रिषूत्तरे॥
रुशती वागकल्याणी स्यात्कल्या तु शुभात्मिका॥
अत्यर्थमधुरं सान्त्वं संगतं हृदयङ्गमम्।
निष्ठुरं परुषं ग्राम्यम् अश्लीलं नृतं प्रिये॥
सत्येऽथ संकुलक्लिष्टे परस्परपराहते।
लुप्तवर्णपदं ग्रस्तं निरस्तं त्वरितोदितम्॥
अम्बूकृतं सनिष्ठीवम् अबद्धं स्यादनर्थकम्।
अनक्षरमवाच्यं स्याद् आहतं तु मृषार्थकम्॥
सोल्लुण्ठनं तु सोत्प्रासं भणितं रतिकूजितम्।
श्राव्यं हृद्यं मनोहारि विस्पष्टं प्रकटोदितम्॥
अथ म्लिष्टमविस्पष्टं वितथं त्वनृतं वचः।
सत्यं तथ्यमृतं सम्यक् अमूनि त्रिषु तद्वति॥
शब्दे निनादनिनदध्वनिध्वानरवस्वनाः।
स्वाननिर्घोषनिर्ह्रादनादनिस्वाननिस्वनाः॥
आरवाऽऽरावसंरावविरावा अथ मर्मरः।
स्वनिते वस्त्रपर्णानां भूषणानां तु शिञ्जितम्॥
निक्वाणो निक्वणः क्वाणः क्वणः क्वणनमित्यपि।
वीणायाः क्वणिते प्रादेः प्रक्वाणप्रक्वणादयः॥
कोलाहलः कलकलः तिरश्चां वाशितं रुतम्।
स्त्री प्रतिश्रुत्प्रतिध्वाने गीतं गानमिमे समे॥
॥इति शब्दादिवर्गः॥

प्रियव्रतचरित्रम् । The historical story of Priyavrata. ...
गृहात्प्रव्रजितानां प्रचेतसां नारदोपदेशान्मुक्तिः । Prachetas who left home, obtained liberation from the discourse of Narada ...
दशप्रचेतसां भगवद्दर्शानं वरप्राप्तिश्च तेभ्यो मारिषागर्भाद्दक्षोत्पत्तिश्च । Sighting of Lord Vishnu by Dashaprachetas and getting boon, ...
पुरञ्जनोपाख्यानस्य तात्पर्यं नारदोपदेशः प्राचीनबर्हिषो मुक्तिश्च । The inner meaniing of Puranjana discourse and advise of ...
Loading story text...
https://www.krishnadhevalipi.org/wp-content/uploads/stories/txt/ra_story_words1905.txt
https://www.krishnadhevalipi.org/wp-content/uploads/stories/json/ra_story1905.json

Details of update

last updated - 23rd May, 2026