॥ वाग् यज्ञेन कल्पताम् ॥

See Listen and Chant

These Chanting are to Inspire You for, to Practice and Learn to Chanting Bhagavat Stotram. The occasional drift while highlighting is negligible and unavoidable because of the chanting styles. Some Chanting are collected from Internet, for educative and guided chanting practice and not to infringe any Copyrights.

Ready... Play...

Amara Kosha Pura Varga

Amara Kosha is one of the most popular Sanaskrit kosha which is by-heart memorized and this page will facilitate you to learn, listen, see and chant. There are about 25 Varga and each varga is shown in individual page.

॥ अमरकोषः ॥

॥अथ पुरवर्गः॥
पूः स्त्री पुरीनगर्यौ वा पत्तनं पुटभेदनम्।
स्थानीयं निगमोऽन्यत्तु यन्मूलनगरात्पुरम्
तच्छाखानगरं वेशः वेश्याजनसमाश्रयः
आपणस्तु निषद्यायां विपणिः पण्यवीथिका
रथ्या प्रतोली विशिखा स्याच्चयो वप्रमस्त्रियाम्
प्राकारो वरणः सालः प्राचीनं प्रातन्तो वृतिः
भित्तिः स्त्री कुड्यमेडूकं यदन्तर्न्यस्तकीकसम्
गृहं गेहोदवसितं वेश्म सद्म निकेतनम्
निशान्तं पस्त्यसदनं भवनागारमन्दिरम्
गृहाः पुंसि च भूम्न्येव निकाय्यनिलयालयाः
वासः कुटी द्वयोः शाला सभा संजवनं त्विदम्
चतुःशालं मुनीनां तु पर्णशालोटजोऽस्त्रियाम्
चैत्यमायतनं तुल्ये वाजिशाला तु मन्दुरा
आवेशनं शिल्पिशाला प्रपा पानीयशालिका
मठश्छात्रादिनिलयो गञ्जा तु मदिरागृहम्
गर्भागारं वासगृहम् अरिष्टं सूतिकागृहम्
कुट्टिमोऽस्त्री निबद्धाभूः चन्द्रशाला शिरोगृहम्
वातायनं गवाक्षोऽथ मण्डपोऽस्त्री जनाश्रयः
हर्म्यादि धनिनां वासः प्रासादो देवभूभुजाम्
सौधोऽस्त्री राजसदनम् उपकार्योपकारिका
स्वस्तिकः सर्वतोभद्रः नन्द्यावर्तादयोऽपि च
विच्छन्दकः प्रभेदा हि भवन्तीश्वरसद्मनाम्
स्त्र्यगारं भूभुजामन्तःपुरं स्यादवरोधनम्
शुद्धान्तश्चावरोधश्च स्यादट्टः क्षौममस्त्रियाम्
प्रघाणप्रघणालिन्दा बहिर्द्वारप्रकोष्ठके
गृहावग्रहणी देहली अङ्गणं चत्वराजिरे
अधस्ताद्दारुणि शिला नासा दारुपरि स्थितम्
प्रच्छन्नमन्तर्द्वारं स्यात् पक्षद्वारं तु पक्षकम्
वलीकनीध्रे पटलप्रान्तेऽथ पटलं छदिः
गोपानसी तु वलभी छादने वक्रदारुणि
कपोतपालिकायां तु विटङ्कं पुंनपुंसकम्
स्त्री द्वार्द्वारं प्रतीहारः स्याद्धितर्दिस्तु वेदिका
तोरणोऽस्त्री बहिर्द्वारं पुरद्वारं तु गोपुरम्
कूटं पूर्द्वारि यद्धस्ति नखस्तस्मिन्नथ त्रिषु
कपाटमररं तुल्ये तद्विष्कम्भोऽर्गलं न ना
आरोहणं स्यात्सोपानं निश्रेणिस्त्वधिरोहिणी
संमार्जनी शोधनी स्यात् संकरोऽवकरस्तया
क्षिप्ते मुखं निःसरणं संनिवेशो निकर्षणम्
समौ संवसथग्रामौ वेश्मभूर्वास्तुरस्त्रियाम्
ग्रामान्त उपशल्यं स्यात् सीमसीमे स्त्रियामुभे
घोष आभीरपल्ली स्यात् पक्कणः शबरालयः
॥इति पुरवर्गः॥

प्रियव्रतचरित्रम् । The historical story of Priyavrata. ...
गृहात्प्रव्रजितानां प्रचेतसां नारदोपदेशान्मुक्तिः । Prachetas who left home, obtained liberation from the discourse of Narada ...
दशप्रचेतसां भगवद्दर्शानं वरप्राप्तिश्च तेभ्यो मारिषागर्भाद्दक्षोत्पत्तिश्च । Sighting of Lord Vishnu by Dashaprachetas and getting boon, ...
पुरञ्जनोपाख्यानस्य तात्पर्यं नारदोपदेशः प्राचीनबर्हिषो मुक्तिश्च । The inner meaniing of Puranjana discourse and advise of ...
Loading story text...
https://www.krishnadhevalipi.org/wp-content/uploads/stories/txt/ra_story_words1911.txt
https://www.krishnadhevalipi.org/wp-content/uploads/stories/json/ra_story1911.json

Details of update

last updated - 23rd May, 2026