॥अथ नानार्थवर्गः॥
नानाऽर्थाः केऽपि कान्ताऽऽदि वर्गेष्वेवाऽत्र कीर्तिताः।
भूरिप्रयोगा ये येषु पर्यायेष्वपि तेषु ते॥
आकाशे त्रिदिवे नाकः लोकस्तु भुवने जने।
पद्ये यशसि च श्लोकः शरे खड्गे च सायकः॥
जम्बुकौ क्रोष्टुवरुणौ पृथुकौ चिपिटाऽर्भकौ।
आलोकौ दर्शनद्योतौ भेरीपटहमानकौ॥
उत्सङ्गचिह्नयोरङ्कः कलङ्कोऽङ्काऽपवादयोः।
तक्षको नागवर्द्धक्यः अर्कः स्फटिकसूर्ययोः॥
मारुते वेधसि ब्रघ्ने पुंसि कः कं शिरोऽम्बुनोः।
स्यात् पुलाकस्तुच्छधान्ये संक्षेपे भक्तसिक्थके॥
उलूके करिणः पुच्छ मूलोपान्ते च पेचकः।
कमण्डलौ च करकः सुगते च विनायकः॥
किष्कुर्हस्ते वितस्तौ च शूककीटे च वृश्चिकः।
प्रतिकूले प्रतीकस्त्रिषु एकदेशे तु पुंस्ययम्॥
स्याद् भूतिकं तु भूनिम्बे कत्तृणे भूस्तृणेऽपि च।
ज्योत्स्निकायां च घोषे च कोशातक्यथ कट्फले॥
सिते च खदिरे सोमवल्कः स्यादथ सिह्लके।
तिलकल्के च पिण्याकः बाह्लीकं रामठेऽपि च॥
महेन्द्र गुग्गुलूलूक व्यालग्राहिषु कौशिकः।
रुक्तापशङ्कास्वातङ्कः स्वल्पेऽपि क्षुल्लकस्त्रिषु॥
जैवातृकः शशाङ्केऽपि खुरेऽप्यश्वस्य वर्तकः।
व्याघ्रेऽपि पुण्डरीको ना यवान्यामपि दीपकः॥
शालावृकाः कपिक्रोष्टुश्वानः स्वर्णेऽपि गैरिकम्।
पीडाऽर्थेऽपि व्यलीकं स्यात् अलीकं त्वप्रियेऽनृते॥
शीलाऽन्वयावनूके द्वे शल्के शकलवल्कले।
साऽष्टे शते सुवर्णानां हेम्न्युरोभूषणे पले॥
दीनारेऽपि च निष्कोऽस्त्री कल्कोऽस्त्री शमलैनसोः।
दम्भेऽप्यथ पिनाकोऽस्त्री शूलशङ्करधन्वनोः॥
धेनुका तु करेण्वां च मेघजाले च कालिका।
कारिका यातनावृत्त्योः कर्णिका कर्णभूषणे॥
करिहस्तेऽङ्गुलौ पद्मबीजकोश्यां त्रिषूत्तरे।
वृन्दारकौ रूपिमुख्यावेके मुख्याऽन्यकेवलाः॥
स्याद् दाम्भिकः कौक्कुटिकः यश्चाऽदूरेरितेक्षणः।
ललाटिकः प्रभोर्भाल दर्शी कार्याऽक्षमश्च यः॥
भूभृन्नितम्ब वलयचक्रेषु कटकोऽस्त्रियाम्।
सूच्यग्रे क्षुद्रशत्रौ च रोमहर्षे च कण्टकः॥
पाकौ पक्तिशिशू मध्य रत्ने नेतरि नायकः।
पर्यङ्कः स्यात् परिकरे स्याद् व्याघ्रेऽपि च लुब्धकः॥
पेटकस्त्रिषु वृन्देऽपि गुरौ देश्ये च देशिकः।
खेटकौ ग्रामफलकौ धीवरेऽपिच जालिकः॥
पुष्परेणौ च किञ्जल्कः शुल्कोऽस्त्री स्त्रीधनेऽपि च।
स्यात् कल्लोलेऽप्युत्कलिका वार्धकं भाववृन्दयोः॥
करिण्यां चापि गणिका दारकौ बालभेदकौ।
अन्धेऽप्यनेडमूकः स्यात् टङ्कौ दर्पाऽश्मदारणौ॥
मयूखस्त्विट्करज्वालास्वलिबाणौ शिलीमुखौ।
शङ्खो निधौ ललटाऽस्थ्नि कम्बौ न स्त्रीन्द्रियेऽपि खम्॥
धृणिज्वाले अपि शिखे शैलवृक्षौ नगावगौ।
आशुगौ वायुविशिखौ शराऽर्कविहगाः खगाः॥
पतङ्गौ पक्षिसूर्यौ च पूगः क्रमुकवृन्दयोः।
पशवोऽपि मृगा वेगः प्रवाहजवयोरपि॥
परागः कौसुमे रेणौ स्नानीयादौ रजस्यपि।
गजेऽपि नागमातङ्गावपाङ्गस्तिलकेऽपि च॥
सर्गः स्वभावनिर्मोक्षनिश्चयाऽध्यायसृष्टिषु।
योगः संनहनोपाय ध्यानसंगतियुक्तिषु॥
भोगः सुखे स्त्र्यादिभृतावहेश्च फणकाययोः।
चातके हरिणे पुंसि सारङ्गः शबले त्रिषु॥
कपौ च प्लवगः शापे त्वभिषङ्गः पराभवे।
यानाऽऽद्यङ्गे युगः पुंसि युगं युग्मे कृताऽऽदिषु॥
स्वर्गेषुपशुवाग्वज्र दिङ्नेत्रधृणिभूजले।
लक्ष्यदृष्ट्या स्त्रियां पुंसि गौर्लिङ्गं चिह्न शेफसोः॥
शृङ्गं प्राधान्यसान्वोश्च वराङ्गं मूर्धगुह्ययोः।
भगं श्रीकाममाहात्म्य वीर्ययत्नाऽर्ककीर्तिषु॥
परिघः परिघातेऽस्त्रे अप्योघो वृन्देऽम्भसां रये।
मूल्ये पूजाविधावर्घः अंहोदुःखव्यसनेष्वघम्॥
त्रिष्विष्टेऽल्पे लघुः काचाः शिक्यमृद्भेददृग्रुजः।
विपर्यासे विस्तरे च प्रपञ्चः पावके शुचिः॥
मास्यमात्ये चाप्युपधे पुंसि मेध्ये सिते त्रिषु।
अभिष्वङ्गे स्पृहायां च गभस्तौ च रुचिः स्त्रियाम्॥
प्रसन्ने भल्लुकेऽप्यच्छो गुच्छः स्तबक हारयोः।
परिधानाऽञ्जले कच्छः जलप्रान्ते त्रि लिङ्गकः॥
केकि तार्क्ष्यावहिभुजौ दन्तविप्राऽण्डजा द्विजाः।
अजा विष्णुहरच्छागाः गोष्ठाऽध्वनिवहा व्रजाः॥
धर्मराजौ जिनयमौ कुञ्जो दन्तेऽपि न स्त्रियाम्।
वलजे क्षेत्रपूर्द्वारे वलजा वल्गुदर्शना॥
समे क्ष्मांशे रणेऽप्याजिः प्रजा स्यात् संततौ जने।
अब्जौ शङ्खशशाङ्कौ च स्वके नित्ये निजं त्रिषु॥
पुंस्यात्मनि प्रवीणेच क्षेत्रज्ञो वाच्यलिङ्गकः।
संज्ञा स्याच् चेतना नाम हस्ताऽऽद्यैश्चार्थसूचना॥
काकेभगण्डौ करटौ गजगण्डकटी कटौ।
शिपिविष्टस्तु खलतौ दुश्चर्मणि महेश्वरे॥
देवशिल्पिन्यपि त्वष्टा दिष्टं दैवेऽपि न द्वयोः।
रसे कटुः कट्वकार्ये त्रिषु मत्सरतीक्ष्णयोः॥
रिष्टं क्षेमाऽशुभाऽभावेष्वरिष्टे तु शुभाऽशुभे।
मायानिश्चलयन्त्रेषु कैतवाऽनृतराशिषु॥
अयोघने शैलशृङ्गे सीराङ्गे कूटमस्त्रियाम्।
सूक्ष्मैलायां त्रुटिः स्त्री स्यात् कालेऽल्पे संशयेऽपि सा॥
आत्युत्कर्षाऽश्रयः कोट्यः मूले लग्नकचे जटा।
व्युष्टिः फले समृद्धौ च दृष्टिर्ज्ञानेऽक्ष्णि दर्शने॥
इष्टिर्यागेच्छयोः सृष्टं निश्चिते बहुनि त्रिषु।
कष्टे तु कृच्छ्रगहने दक्षाऽमन्दाऽगदेषु तु॥
पटुर्द्वौ वाच्यलिङ्गौ च नीलकण्ठः शिवेऽपि च।
पुंसि कोष्ठोऽन्तर्जठरं कुसूलोऽन्तर्गृहं तथा॥
निष्ठा निष्पत्तिनाशाऽन्ताः काष्ठोत्कर्षे स्थितौ दिशि।
त्रिषु ज्येष्ठोऽतिशस्तेऽपि कनिष्ठोऽतियुवाऽल्पयोः॥
दण्डोऽस्त्री लगुडेऽपि स्याद् गुडो गोलेक्षुपाकयोः।
सर्प मांसात्पशू व्याडौ गोभूवाचस्त्विडा इलाः॥
क्ष्वेडवंशशलाकाऽपि नाडी नालेऽपि षट्क्षणे।
काण्डोऽस्त्री दण्डबाणाऽर्व वर्गाऽवसरवारिषु॥
स्याद् भाण्डमश्वाऽऽभरणे अमत्रे मूलवणिग्धने।
भृशप्रतिज्ञयोर्बाढं प्रगाढं भृशकृच्छ्रयोः॥
शक्तस्थूलौ त्रिषु दृढौ व्यूढौ विन्यस्तसंहतौ।
भ्रूणोऽर्भके स्त्रैणगर्भे बाणो बलिसुते शरे॥
कणोऽतिसूक्ष्मे धान्यांशे संघाते प्रमथे गणः।
पणो द्यूताऽऽदिषूत्सृष्टे भृतौ मूल्ये धनेऽपि च॥
मौर्व्यां द्रव्याऽऽश्रिते सत्व शौर्यसंध्याऽऽदिके गुणः।
निर्व्यापारस्थितौ काल विशेषोत्सवयोः क्षणः॥
वर्णो द्विजाऽऽदौ शुक्लाऽऽदौ स्तुतौ वर्णं तु वाऽक्षरे।
अरुणो भास्करेऽपि स्याद् वर्णभेदेऽपि च त्रिषु॥
स्थाणुः शर्वोऽप्यथ द्रोणः काकेऽप्याजौ रवे रणः।
ग्रामणीर्नापिते पुंसि श्रेष्ठे ग्रामाऽधिपे त्रिषु॥
ऊर्णा मेषाऽऽदिलोम्नि स्यात् आवर्ते चान्तरा भ्रुवोः।
हरिणी स्यान् मृगी हेम प्रतिमा हरिता च या॥
त्रिषु पाण्डौ च हरिणः स्थूणा स्तम्भेऽपि वेश्मनः।
त्रिष्णे स्पृहापिपासे द्वे जुगुप्साकरुडे घृडे॥
वणिक्पथे च विपणिः सुरा प्रत्यक् च वारुणी।
करेणुरिभ्यां स्त्री नेभे द्रविणं तु बलं धनम्॥
शरणं गृहरक्षित्रोः श्रीपर्णं कमलेऽपि च।
विषाऽभिमरलोहेषु तीक्ष्णं क्लीबे खरे त्रिषु॥
प्रमाणं हेतुमर्यादा शास्त्रेयत्ताप्रमातृषु।
करणं साधकतमं क्षेत्रगात्रेन्द्रियेष्वपि॥
प्राण्युत्पादे संसरणम् असंबाधचमूगतौ।
घण्टापथेऽथ वान्ताऽन्ने समुद्गिरणमुन्नये॥
अतस्त्रिषु विषाणं स्यात् पशुशृङ्गेभदन्तयोः।
प्रवणं क्रमनिम्नोर्व्यां प्रह्वे ना तु चतुष्पथे॥
संकीर्णौ निचिताऽशुद्धा विरिणं शून्यमूषरम्।
सेतौ च चरणो वेणी नदीभेदे कचोच्चये॥
देवसूर्यौ विवस्वन्तौ सरस्वन्तौनदाऽर्णवौ।
पक्षितार्क्ष्यौ गरुत्मन्तौ शकुन्तौ भासपक्षिणौ॥
अग्न्युत्पातौ धूमकेतू जीमूतौ मेघपर्वतौ।
हस्तौ तु पाणिनक्षत्रे मरुतौ पवनाऽमरौ॥
यन्ता हस्तिपके सूते भर्ता धातरि पोष्टरि।
यानपात्रे शिशौ पोतः प्रेतः प्राण्यन्तरे मृते॥
ग्रहभेदे ध्वजे केतुः पार्थिवे तनये सुतः।
स्थपतिः कारुभेदेऽपि भूभृद् भूमिधरे नृपे॥
मूर्धाभिषिक्तो भूपेऽपि ऋतुः स्त्री कुसुमेऽपि च।
विष्णावप्यजिताऽव्यक्तौ सूतस्त्वष्टरि सारथौ॥
व्यक्तः प्राज्ञेऽपि दृष्टान्तौ उभौ शास्त्रनिदर्शने।
क्षत्ता स्यात् सारथौ द्वाःस्थे क्षत्रियायां च शूद्रजे॥
वृत्तान्तः स्यात् प्रकरणे प्रकारे कार्त्स्न्यवार्तयोः।
आनर्तः समरे नृत्यस्थान नीवृद्विशेषयोः॥
कृतान्तो यम सिद्धान्त दैवाऽकुशलकर्मसु।
श्लेष्माऽऽदि रस रक्ताऽऽदि महा भूतानि तद् गुणाः॥
इन्द्रियाण्यश्म विकृतिः शब्दयोनिश्च धातवः।
कक्षान्तरेऽपि शुद्धान्तः भूपस्याऽसर्व गोचरे॥
कासू सामर्थ्ययोः शक्तिः मूर्तिः काठिन्यकाययोः।
विस्तार वल्लयोर्व्रततिः वसती रात्रिवेश्मनोः॥
क्षयाऽर्चयोरपचितिः सातिर्दानाऽवसानयोः।
अर्तिः पीडा धनुष्कोट्योः जातिः सामान्यजन्मनोः॥
प्रचार स्यन्दयो रीतिः ईतिर्डिम्ब प्रवासयोः।
उदयेऽधिगमे प्राप्तिः त्रेता त्वग्नित्रये युगे॥
वीणाभेदेऽपि महती भूतिर्भस्मनि सम्पदि।
नदी नगर्योर्नागानां भोगवत्यथ संगरे॥
संगे सभायां समितिः क्षयवासावपि क्षिती।
रवेरर्चिश्च शस्त्रं च वह्निज्वाला च हेतयः॥
जगती जगति छन्दः विशेषोऽपि क्षितावपि।
पङ्क्तिश्छन्दोऽपि दशमं स्यात् प्रभावेऽपि चाऽऽयतिः॥
पत्तिर्गतौ च मूले तु पक्षतिः पक्षभेदयोः।
प्रकृतिर्योनिलिङ्गे च कैशिक्याऽऽद्याश्च वृत्तयः॥
सिकताः स्युर्वालुकाऽपि वेदे श्रवसि च श्रुतिः।
वनिता जनिताऽत्यर्थाऽनुरागायां च योषिति॥
गुप्तिः क्षितिव्युदासेऽपि धृतिर्धारणधैर्ययोः।
बृहती क्षुद्र वार्ताकी छन्दोभेदे महत्यपि॥
वासिता स्त्री करिण्योश्च वार्ता वृत्तौ जनश्रुतौ।
वार्तं फल्गुन्यरोगे च त्रिष्वप्सु च घृताऽमृते॥
कलधौतं रूप्यहेम्नोः निमित्तम् हेतुलक्ष्मणोः।
श्रुतं शास्त्राऽवधृतयोः युगपर्याप्तयोः कृतम्॥
अत्याहितं महाभीतिः कर्म जीवाऽनपेक्षि च।
युक्ते क्ष्माऽऽदावृते भूतं प्राण्यतीते समे त्रिषु॥
वृत्तं पद्ये चरित्रे त्रिषु अतीते दृढनिस्तले।
महद् राज्यं चाऽवगीतं जन्ये स्याद् गर्हिते त्रिषु॥
श्वेतं रूप्येऽपि रजतं हेम्नि रूप्ये सिते त्रिषु।
त्रिष्वतो जागदिङ्गेऽपि रक्तं नील्याऽऽदि रागि च॥
अवदातः सिते पीते शुद्धे बद्धाऽर्जुनौ सितौ।
युक्तेऽति संस्कृतेऽमर्षिणि अभिनीतोऽथ संस्कृतम्॥
कृत्रिमे लक्षणोपेते अप्यनन्तोऽनवधावपि।
ख्याते हृष्टे प्रतीतोऽभिजातस्तु कुलजे बुधे॥
विविक्तौ पूतविजनौ मूर्छितौ मूढसोच्छ्रयौ।
द्वौ चाम्ल परुषौ शुक्तौ शिती धवलमेचकौ॥
सत्ये साधौ विद्यमाने प्रशस्तेऽभ्यर्हिते च सत्।
पुरस्कृतः पूजितेऽरात्यभियुक्तेऽग्रतः कृते॥
निवातावाश्रयाऽवातौ शस्त्राऽभेद्यं च वर्म यत्।
जातोन्नद्धप्रवृद्धाः स्युः उच्छ्रिता उत्थितास्त्वमी॥
वृद्धिमत् प्रोद्यतोत्पन्ना आदृतौ सादराऽर्चितौ।
अर्थोऽभिधेय रै वस्तु प्रयोजन निवृत्तिषु॥
निपानाऽऽगमयोस्तीर्थमृषि जुष्टे जले गुरौ।
समर्थस्त्रिषु शक्तिस्थे संबद्धाऽर्थे हितेऽपि च॥
दशमीस्थौ क्षीणराग वृद्धौ वीथी पदव्यपि।
आस्थानी यत्नयोरास्था प्रस्थोऽस्त्री सानु मानयोः॥
शास्त्र द्रविणयोर्ग्रन्थः संस्थाऽऽधारे स्थितौ मृतौ।
अभिप्राय वशौ छन्दावब्दौ जीमूत वत्सरौ॥
अपवादौ तु निन्दाऽऽज्ञे दायादौ सुत बान्धवौ।
पादा रश्म्यङ्घ्रि तुर्यांशाः चन्द्राऽग्न्यर्कास्तमोनुदः॥
निर्वादो जनवादेऽपि शादो जम्बाल शष्पयोः।
आरावे रुदिते त्रातरि आक्रन्दो दारुणे रणे॥
स्यात् प्रसादोऽनुरगेऽपि सूदः स्याद् व्यञ्जनेऽपि च।
गोष्ठाऽध्यक्षेऽपि गोविन्दः हर्षेऽप्यामोदवन् मदः॥
प्राधान्ये राजलिङ्गे च वृषाङ्गे ककुदोऽस्त्रियाम्।
स्त्री संविज्ज्ञान संभाषा क्रियाकाराऽऽजि नामसु॥
धर्मे रहस्युपनिषत् स्यादृतौ वत्सरे शरत्।
पदं व्यवसिति त्राण स्थान लक्ष्माङ्घ्रि वस्तुषु॥
गोष्पदं सेविते माने प्रतिष्ठा कृत्यमास्पदम्।
त्रिष्विष्ट मधुरौ स्वादू मृदू चातीक्ष्ण कोमलौ॥
मूढाऽल्पाऽपटु निर्भाग्या मन्दाः स्युर्द्वौ तु शारदौ।
प्रत्यग्राऽप्रतिभौ विद्वत् सुप्रगल्भौ विशारदौ॥
व्यामो वटश्च न्यग्रोधौ उत्सेधः काय उन्नतिः।
पर्याहारश्च मार्गश्च विवधौ वीवधौ च तौ॥
परिधिर्यज्ञिय तरोः शाखायामुपसूर्यके।
बन्धकं व्यसनं चेतः पीडाऽधिष्ठानमाधयः॥
स्युः समर्थन नीवाक नियमाश्च समाधयः।
दोषोत्पादेऽनुबन्धः स्यात् प्रकृत्यादि विनश्वरे॥
मुख्याऽनुयायिनि शिशौ प्रकृत्याऽनुवर्तने।
विधुर्विष्णौ चन्द्रमसि परिच्छेदे बिलेऽवधिः॥
विधिर्विधाने दैवेऽपि प्रणिधिः प्रार्थने चरे।
बुध वृद्धौ पण्डितेऽपि स्कन्धः समुदयेऽपि च॥
देशे नद विशेषेऽब्धौ सिन्धुर्ना सरिति स्त्रियाम्।
विधा विधौ प्रकारे च साधू रम्येऽपि च त्रिषु॥
वधूर्जाया स्नुषा स्त्री च सुधा लेपोऽमृतं स्नुही।
संधा प्रतिज्ञा मर्यादा श्रद्धा सम्प्रत्ययः स्पृहा॥
मधु मद्ये पुष्परसे क्षौद्रेऽप्यन्धं तमस्यपि।
अतस्त्रिषु समुन्नद्धौ पण्डितंमन्य गर्वितौ॥
ब्रह्मबन्धुरधिक्षेपे निर्देशेऽथाऽवलम्बितः।
अविदूरोऽप्यवष्टब्धः प्रसिद्धौ ख्यात भूषितौ॥
सूर्य वह्नी चित्रभानू भानू रश्मि दिवाकरौ।
भूतात्मानौ धातृ देहौ मूर्ख नीचौ पृथग्जनौ॥
ग्रावाणौ शैलपाषाणौ पत्रिणौ शरपक्षिणौ।
तरुशैलौ शिखरिणौ शिखिनौ वह्नि बर्हिणौ॥
प्रतियत्नावुभौ लिप्सा उपग्रहावथ सादिनौ।
द्वौ सारथि हयारोहौ वाजिनोऽश्वेषु पक्षिणः॥
कुलेऽप्यभिजनो जन्म भूम्यामप्यथ हायनाः।
वर्षार्चिर्व्रीहिभेदाश्च चन्द्राग्न्यर्का विरोचनाः॥
केशेऽपि वृजिनो विश्वकर्माऽर्क सुरशिल्पिनोः।
आत्मा यत्नो धृतिर्बुद्धिः स्वभावो ब्रह्म वर्ष्म च॥
शक्रो घातुक मत्तेभः वर्षुकाऽब्दो घनाघनः।
घनो मेघे मूर्तिगुणे त्रिषु मूर्ते निरन्तरे॥
अभिमानोऽर्थादिदर्पे ज्ञाने प्रणयर्हिंसयोः।
इनः सूर्ये प्रभौ राजा मृगाङ्के क्षत्रिये नृपे॥
वाणिन्यौ नर्तकी दूत्यौ स्रवन्त्यामपि वाहिनी।
ह्रादिन्यौ वज्रतडितौ वन्दायामपि कामिनी॥
त्वग् देहयोरपि तनुः सूनाऽधो जिह्विकाऽपि च।
क्रतु विस्तारयोरस्त्री वितानं त्रिषु तुच्छके॥
मन्देऽथ केतनं कृत्ये केतावुपनिमन्त्रणे।
वेदस्तत्त्वं तपो ब्रह्म ब्रह्मा विप्रः प्रजापतिः॥
उत्साहने च हिंसायां सूचने चाऽपि गन्धनम्।
आतञ्चनं प्रतीवाप जवनाऽऽप्यायनाऽर्थकम्॥
व्यञ्जनं लाञ्छनं श्मश्रु निष्ठानाऽवयवेष्वपि।
स्यात् कौलीनं लोकवादे युद्धे पश्वहि पक्षिणाम्॥
स्यादुद्यानं निःसरणे वनभेदे प्रयोजने।
अवकाशे स्थितौ स्थानं क्रीडाऽऽदावपि देवनम्॥
उत्थानं पौरुषे तन्त्रे संनिविष्टोद्गमेऽपि च।
व्युत्थानं प्रतिरोधे च विरोधाचरणेऽपि च॥
मारणे मृतसंस्कारे गतौ द्रव्येऽर्थ दापने।
निर्वर्तनोपकरणाऽनुव्रज्यासु च साधनम्॥
निर्यातनं वैर शुद्धौ दाने न्यासाऽर्पणेऽपि च।
व्यसनं विपदि भ्रंशे दोषे कामजकोपजे॥
पक्ष्माऽक्षिलोम्नि किञ्जल्के तन्त्वाऽऽद्यम्शेऽप्यणीयसि।
तिथिभेदे क्षणे पर्व वर्त्म नेत्रच्छदेऽध्वनि॥
अकार्यगुह्ये कौपीनं मैथुनं संगतौ रते।
प्रधानं परमाऽऽत्मा धीः प्रज्ञानं बुद्धिचिह्नयोः॥
प्रसूनं पुष्पफलयोः निधनं कुलनाशयोः।
क्रन्दने रोदनाऽऽह्वाने वर्ष्म देहप्रमाणयोः॥
गृहदेहत्विट्प्रभावा धामान्यथ चतुष्पथे।
संनिवेशे च संस्थानं लक्ष्म चिह्नप्रधानयोः॥
आच्छादने संविधानमपवारणमित्युभे।
आराधनं साधने स्यात् अवाप्तौ तोषणेऽपि च॥
अधिष्ठानं चक्रपुरप्रभावाऽध्यासनेष्वपि।
रत्नं स्वजातिश्रेष्ठेऽपि वने सलिलकानने॥
तलिनं विरले स्तोके वाच्यलिङ्गं तथोत्तरे।
समानाः सत्समैके स्युः पिशुनौ खलसूचकौ॥
हीनन्यूनावूनगर्ह्यौ वेगिशूरौ तरस्विनौ।
अभिपन्नोऽपराद्धोऽभिग्रस्तव्यापद्गतावपि॥
कलापो भूषणे बर्हे तूणीरे संहतावपि।
परिच्छदे परीवापः पर्युप्तौ सलिलस्थितौ॥
गोधुग्गोष्ठपती गोपौ हरविष्णू वृषाकपी।
बाष्पमूष्माश्रु कशिपु त्वन्नमाच्छादनं द्वयम्॥
तल्पं शय्याऽट्टदारेषु स्तम्बेऽपि विटपोऽस्त्रियाम्।
प्राप्तरूपस्वरूपाऽभिरूपा बुधमनोज्ञयोः॥
भेद्यलिङ्गा अमी कूर्मी वीणाभेदश्च कच्छपी।
कुतपो मृगरोमोत्थपटे चाह्नोऽष्टमेंऽशके॥
रवर्णे पुंसि रेफः स्यात्कुत्सिते वाच्यलिङ्गकः।
अन्तराभवसत्वेऽश्वे गन्धर्वो दिव्यगायने॥
कम्बुर्ना वलये शङ्खे द्विजिह्वौ सर्पसूचकौ।
पूर्वोऽन्यलिङ्गः प्रागाह पुंबहुत्वेऽपि पूर्वजान्॥
कुम्भौ घटेभमूर्धांशौ डिम्भौ तु शिशुबालिशौ।
स्तम्भौ स्थूणाजडीभावौ शम्भू ब्रह्मत्रिलोचनौ॥
कुक्षिभ्रूणाऽर्भका गर्भा विस्रम्भः प्रणयेऽपि च।
स्याद्भेर्यां दुन्दुभिः पुंसि स्यादक्षे दुन्दुभिः स्त्रियाम्॥
स्यान्महारजने क्लीबं कुसुम्भं करके पुमान्।
क्षत्रियेऽपि च नाभिर्ना सुरभिर्गवि च स्त्रियाम्॥
सभा संसदि सभ्ये च त्रिष्वध्यक्षेऽपि वल्लभः।
किरण प्रग्रहौ रश्मी कपिभेकौ प्लवङ्गमौ॥
इच्छामनोभवौ कामौ शौर्योद्योगौ पराक्रमौ।
धर्माः पुण्ययमन्यायस्वभावाऽऽचारसोमपाः॥
उपायपूर्व आरम्भ उपधा चाप्युपक्रमः।
वणिक्पथः पुरं वेदः निगमा नागरो वणिक्॥
नैगमौ द्वौ बले रामः नीलचारुसिते त्रिषु।
शब्दाऽऽदिपूर्वो वृन्देऽपि ग्रामः क्रान्तौ च विक्रमः॥
स्तोमः स्तोत्रेऽध्वरे वृन्दे जिह्मस्तु कुतिलेऽलसे।
उष्णेऽपि घर्मश्चेष्टाऽलङ्कारे भ्रान्तौ च विभ्रमः॥
गुल्मा रुक्स्तम्बसेनाश्च जामिः स्वसृकुलस्त्रियोः।
क्षितिक्षान्त्योः क्षमा युक्ते क्षमं शक्ते हिते त्रिषु॥
त्रिषु श्यामौ हरित्कृष्णौ श्यामा स्याच्छारिवा निशा।
ललामं पुच्छपुण्ड्राऽश्व भूषाप्राधान्यकेतुषु॥
सूक्ष्ममध्यात्ममप्याद्ये प्रधाने प्रथमस्त्रिषु।
वामौ वल्गुप्रतीपौ द्वौ अधमौ न्यूनकुत्सितौ॥
जीर्णं च परिभुक्तं च यातयाममिदं द्वयम्।
तुरङ्गगरुडौ तार्क्ष्यौ निलयाऽपचयौ क्षयौ॥
श्वशुर्यौ देवरश्यालौ भ्रातृव्यौ भ्रातृजद्विषौ।
पर्जन्यौ रसदब्देन्द्रौ स्यादर्यः स्वामिवैश्ययोः॥
तिष्यः पुष्ये कलियुगे पर्यायोऽवसरे क्रमे।
प्रत्ययोऽधीन शपथज्ञानविश्वासहेतुषु॥
रन्ध्रे शब्देऽथानुशयः दीर्घद्वेषाऽनुतापयोः।
स्थूलोच्चयस्त्वसाकल्ये नागानां मध्यमे गते॥
समयाः शपथाऽऽचारकाल सिद्धान्तसंविदः।
व्यसनान्यशुभं दैवं विपदित्यनयास्त्रयः॥
अत्ययोऽतिक्रमे कृच्छ्रे दोषे दण्डेऽप्यथाऽऽपदि।
युद्धायत्योः सम्परायः पूज्यस्तु श्वशुरेऽपि च॥
पस्चादवस्थायि बलं समवायश्च सन्नयौ।
संघाते संनिवेशे च संस्त्यायः प्रणयास्त्वमी॥
विस्रम्भयाच्ञाप्रेमाणः विरोधेऽपि समुच्छ्रयः।
विषयो यस्य यो ज्ञातः तत्र शब्दाऽऽदिकेष्वपि॥
निर्यासेऽपि कषायो स्त्री सभायां च प्रतिश्रयः।
प्रायो भूम्न्यन्तगमने मन्युर्दैन्ये क्रतौ क्रुधि॥
रहस्योपस्थयोर्गुह्यं सत्यं शपथतथ्ययोः।
वीर्यं बले प्रभावे च द्रव्यं भव्ये गुणाऽऽश्रये॥
धिष्ण्यं स्थाने गृहे भेऽग्नौ भाग्यं कर्म शुभाऽशुभम्।
कशेरु हेम्नोर्गाङ्गेयं विशल्या दन्तिकाऽपि च॥
वृषाकपायी श्रीगौर्योः अभिज्ञा नामशोभयोः।
उपायः कर्म चेष्टा च चिकित्सा च नव क्रियाः॥
छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः।
कक्ष्या प्रकोष्ठे हर्म्याऽऽदेः काञ्च्यां मध्येभबन्धने॥
कृत्या क्रियादेवतयोः त्रिषु भेद्ये धनाऽऽदिभिः।
जन्यं स्याज्जनवादेऽपि जघन्योऽन्त्येऽधमेऽपि च॥
गर्ह्याऽधीनौ च वक्तव्यौ कल्यौ सज्जनिरामयौ।
आत्मवाननपेतोऽर्थात् अर्थ्यौ पुण्यं तु चार्वपि॥
रूप्यं प्रशस्तरूपेऽपि वदान्यो वल्गुवागपि।
न्याय्येऽपि मध्यं सौम्यं तु सुन्दरे सोमदैवते॥
निवहाऽवसरौ वारौ संस्तरौ प्रस्तराऽध्वरौ।
गुरू गोष्पतिपित्राद्यौ द्वापरौ युगसंशयौ॥
प्रकारौ भेदसादृश्ये आकाराविङ्गिताऽऽकृती।
किंशारू सस्यशूकेषु मरू धन्वधराधरौ॥
अद्रयो द्रुमशैलाऽर्काः स्त्रीस्तनाऽब्दौ पयोधरौ।
ध्वान्ताऽरिदानवा वृत्रा बलिहस्तांशवः कराः॥
प्रदरा भङ्गनारीरुक्बाणा अस्राः कचा अपि।
अजातशृङ्गो गौः काले अप्यश्मश्रुर्ना च तूबरौ॥
स्वर्णेऽपि राः परिकरः पर्यङ्कपरिवारयोः।
मुक्ताशुद्धौ च तारः स्यात् छारो वायौ स तु त्रिषु॥
कर्बुरेऽथ प्रतिज्ञाऽऽजिसंविदापत्सु संगरः।
वेदभेदे गुप्तवादे मन्त्रो मित्रो रवावपि॥
मखेषु यूपखण्डेऽपि स्वरुर्गुह्येऽप्यवस्करः।
आडम्बरस्तूर्यरवे गजेन्द्राणां च गर्जिते॥
अभिहारोऽभियोगे च चौर्ये संनहनेऽपि च।
स्याज्जङ्गमे परीवारः खड्गकोशे परिच्छदे॥
विष्टरो विटपी दर्भमुष्टिः पीठाऽऽद्यमासनम्।
द्वारि द्वाः स्थे प्रतीहारः प्रतीहार्यप्यनन्तरे॥
विपुले नकुले विष्णौ बभ्रुर्ना पिङ्गले त्रिषु।
सारो बले स्थिरांशे च न्याय्ये क्लीबं वरे त्रिषु॥
दुरोदरो द्यूतकारे पणे द्यूते दुरोदरम्।
महाऽरण्ये दुर्गपथे कान्तारं पुन्नपुंसकम्॥
मत्सरोऽन्यशुभद्वेषे तद्वत्कृपणयोस्त्रिषु।
दैवाद्वृते वरः श्रेष्ठे त्रिषु क्लीबं मनाक्प्रिये॥
वंशाङ्कुरे करीरोऽस्त्री तरुभेदे घटे च ना।
ना चमूजघने हस्तसूत्रे प्रतिसरोऽस्त्रियाम्॥
यमाऽनिलेन्द्रचन्द्रार्कविष्णुसिंहांशुवाजिषु।
शुकाऽहिकपिभेकेषु हरिर्ना कपिले त्रिषु॥
शर्करा कर्परांशेऽपि यात्रा स्याद्यापने गतौ।
इरा भूवाक्सुराऽप्सुस्यात् तन्द्री निद्राप्रमीलयोः॥
धात्री स्यादुपमाताऽपि क्षितिरप्यामलक्यपि।
क्षुद्रा व्यङ्गा नटी वेश्या सरघा कण्टकारिका॥
त्रिषु क्रूरेऽधमेऽल्पेऽपि क्षुद्रं मात्रा परिच्छदे।
अल्पे च परिमाणे सा मात्रं कार्त्स्न्येऽवधारणे॥
आलेख्याऽऽश्चर्ययोश्चित्रं कलत्रं श्रोणिभार्ययोः।
योग्यभाजनयोः पात्रं पत्रं वाहनपक्षयोः॥
निदेशग्रन्थयोः शास्त्रं शस्त्रमायुधलोहयोः।
स्याज्जटांशुकयोर्नेत्रं क्षेत्रं पत्नीशरीरयोः॥
मुखाग्रे क्रोडहलयोः पोत्रं गोत्रं तु नाम्नि च।
सत्रमाच्छादने यज्ञे सदादाने वनेऽपि च॥
अजिरं विषये कायेपि अंबरं व्योम्नि वाससि।
चक्रं राष्ट्रेऽप्यक्षरं तु मोक्षेऽपि क्षीरमप्सु च॥
स्वर्णेऽपि भूरिचन्द्रौ द्वौ द्वारमात्रेऽपि गोपुरम्।
गुहादम्भौ गह्वरे द्वे रहोऽन्तिकमुपह्वरे॥
पुरोऽधिकमुपर्यग्राणि अगारे नगरे पुरम्।
मन्दिरं चाथ राष्ट्रोऽस्त्री विषये स्यादुपद्रवे॥
दरोऽस्त्रियां भये श्वभ्रे वज्रोऽस्त्री हीरके पवौ।
तन्त्रं प्रधाने सिद्धान्ते सूत्रवाये परिच्छदे॥
औशीरश्चामरे दण्डे अप्यौशीरं शयनाऽऽसने।
पुष्करं करिहस्ताऽग्रे वाद्यभाण्डमुखे जले॥
व्योम्नि खड्गफले पद्मे तीर्थौषधिविशेषयोः।
अन्तरमवकाशाऽवधिपरिधानान्तर्धिभेदतादर्थ्ये॥
छिद्राऽऽत्मीयविनाबहिरवसरमध्ये अन्तरात्मनि च।
मुस्तेऽपि पिठरं राजकशेरुण्यपि नागरम्॥
शार्वरं त्वन्धतमसे घातुके भेद्यलिङ्गकम्।
गौरोऽरुणे सिते पीते व्रणकार्यप्यरुष्करः॥
जठरः कठिनेऽपि स्यात् अधस्तादपि चाऽधरः।
अनाकुलेऽपि चैकाग्रः व्यग्रो व्यासक्त आकुले॥
उपरुदीच्यश्रेष्ठेषु अप्युत्तरः स्यादनुत्तरः।
एषां विपर्यये श्रेष्ठे दूराऽनात्मोत्तमाः पराः॥
स्वादुप्रियौ तु मधुरौ क्रूरौ कठिननिर्दयौ।
उदारौ दातृमहतोः इतरस्त्वन्यनीचयोः॥
मन्दस्वच्छन्दयोः स्वैरः शुभ्रमुद्दीप्तशुक्लयोः।
चूडा किरीटम् केशाश्च संयता मौलयस्त्रयः॥
द्रुमप्रभेदमातङ्ग काण्डपुष्पाणि पीलवः।
कृतान्ताऽनेहसोः कालः चतुर्थेऽपि युगे कलिः॥
स्यात्कुरङ्गेऽपि कमलः प्रावारेऽपि च कम्बलः।
करोपहारयोः पुंसि बलिः प्राण्यङ्गजे स्त्रियाम्॥
स्थौल्यसामर्थ्यसैन्येषु बलं ना काकसीरिणोः।
वातूलः पुंसि वात्यायाम् अपि वाताऽसहे त्रिषु॥
भेद्यलिङ्गः शठे व्यालः पुंसि श्वापदसर्पयोः।
मलोऽस्त्री पापविट्किट्टान्यस्त्री शूलं रुगायुधम्॥
शङ्कावपि द्वयोः कीलः पालिः स्त्र्यश्र्यङ्कपङ्क्तिषु।
कला शिल्पे कालभेदे अप्याली सख्यावली अपि॥
अब्ध्यम्बुविकृतौ वेला कालमर्यादयोरपि।
बहुलाः कृत्तिका गावः बहुलोऽग्नौ शितौ त्रिषु॥
लीला विलासक्रिययोः उपला शर्कराऽपि च।
शोणितेऽम्भसि कीलालं मूलमाद्ये शिफाभयोः॥
जालं समूह आनायगवाक्षक्षारकेष्वपि।
शीलं स्वभावे सद्वृत्ते सस्ये हेतुकृते फलम्॥
छदिर्नेत्ररुजोः क्लीबं समूहे पटलं न ना।
अधस्स्वरूपयोरस्त्री तलं स्याच्चामिषे पलम्॥
और्वाऽनलेऽपि पातालं चैलं वस्त्रेऽधमे त्रिषु।
कुकूलं शङ्कुभिः कीर्णे श्वभ्रे ना तु तुषाऽनले॥
निर्णीते केवलमिति त्रिलिङ्गं त्वेककृत्स्नयोः।
पर्याप्तिक्षेमपुण्येषु कुशलं शिक्षिते त्रिषु॥
प्रवालमङ्कुरेऽप्यस्त्री त्रिषु स्थूलं जडेऽपि च।
करालो दन्तुरे तुङ्गे चारौ दक्षे च पेशलः॥
मूर्खेऽर्भकेऽपि बालः स्यात् लोलश्चलसतृष्णयोः।
दवदावौ वनाऽरण्यवह्नी जन्महरौ भवौ॥
मन्त्री सहायः सचिवौ पतिशाखिनरा धवाः।
अवयः शैलमेषाऽर्काः आज्ञाऽऽह्वानाध्वरा हवाः॥
भावः सत्तास्वभावाऽभिप्रायचेष्टाऽऽत्मजन्मसु।
स्यादुत्पादे फले पुष्पे प्रसवो गर्भमोचने॥
अविश्वासेऽपह्नवेऽपि निकृतावपि निह्नवः।
उत्सेकाऽमर्षयोरिच्छा प्रसरे मह उत्सवः॥
अनुभावः प्रभावे च सतां च मतिनिश्चये।
स्याज्जन्महेतुः प्रभवः स्थानं चाऽऽद्योपलब्धये॥
शूद्रायां विप्रतनये शस्त्रे पारशवो मतः।
ध्रुवो भभेदे क्लीबं तु निश्चिते शाश्वते त्रिषु॥
स्वो ज्ञातावात्मनि स्वं त्रिषु आत्मीये स्वोऽस्त्रियां धने।
स्त्रीकटीवस्त्रबन्धेऽपि नीवी परिपणेऽपि च॥
शिवा गौरीफेरवयोः द्वन्द्वं कलहयुग्मयोः।
द्रव्याऽसु व्यवसायेषु सत्त्वमस्त्री तु जन्तुषु॥
क्लीबं नपुंसकं षण्डे वाच्यलिङ्गमविक्रमे।
द्वौ विशौ वैश्यमनुजौ द्वौ चराभिमरौ स्पशौ॥
द्वौ राशी पुञ्जमेषाऽऽद्यौ द्वौ वंशौ कुलमस्करौ।
रहः प्रकाशौ वीकाशौ निर्वेशो भृतिभोगयोः॥
कृतान्ते पुंसि कीनाशः क्षुद्रकर्षकयोस्त्रिषु।
पदे लक्ष्ये निमित्तेऽपदेशः स्यात्कुशमप्सु च॥
दशाऽवस्थाऽनेकविधाऽप्याशा तृष्णाऽपि चाऽयता।
वशा स्त्री करिणी च स्यात् दृग्ज्ञाने ज्ञातरि त्रिषु॥
स्यात्कर्कशः साहसिकः कठोराऽमसृणावपि।
प्रकाशोऽतिप्रसिद्धेऽपि शिशावज्ञे च बालिशः॥
कोषोऽस्त्री कुड्मले खड्ग पिधानेऽर्थौघदिव्ययोः।
सुरमत्स्यावनिमिषौ पुरुषावात्ममानवौ॥
काकमत्स्यात्खगौ ध्वाङ्क्षौ कक्षौ तु तृणवीरुधौ।
अभीषुः प्रग्रहे रश्मौ प्रेषः प्रेषणमर्दने॥
पक्षः सहायेऽप्युष्णीषः शिरोवेष्टकिरीटयोः।
शुक्रले मूषिके श्रेष्टे सुकृते वृषभे वृषः॥
द्यूतेऽक्षे शारिफलके अप्याकर्षोऽथाऽक्षमिन्द्रिये।
ना द्यूताङ्गे कर्षचक्रे व्यवहारे कलिद्रुमे॥
कर्षूर्वार्त्ता करीषाऽग्निः कर्षूः कुल्याऽभिधायिनी।
पुम्भावे तत्क्रियायां च पौरुषं विषमप्सु च॥
उपादानेऽप्यामिषं स्यात् अपराधेऽपि किल्बिषम्।
स्याद्वृष्टौ लोकधात्वंशे वत्सरे वर्षमस्त्रियाम्॥
प्रेक्षा नृत्तेक्षणं प्रज्ञा भिक्षा सेवाऽर्थना भृतिः।
त्विट् शोभाऽपि त्रिषु परे न्यक्षं कार्त्स्न्यनिकृष्टयोः॥
प्रत्यक्षेऽधिकृतेऽध्यक्षः रूक्षस्त्वप्रेम्ण्यचिक्कणे।
रविश्वेतच्छदौ हंसौ सूर्यवह्नी विभावसू॥
वत्सौ तर्णकवर्षौ द्वौ सारङ्गाश्च दिवौकसः।
शृङ्गाराऽऽदौ विषे वीर्ये गुणे रागे द्रवे रसः॥
पुंस्युत्तंसावतंसौ द्वौ कर्णपूरे च शेखरे।
देवभेदेऽनले रश्मौ वसू रत्ने धने वसु॥
विष्णौ च वेधाः स्त्री त्वाशीः हिताऽऽशंसाऽहिदंष्ट्रयोः।
लालसे प्रार्थनौत्सुक्ये हिंसा चौर्याऽऽदिकर्म च॥
प्रसूरश्वाऽपि भूद्यावौ रोदस्यौ रोदसी च ते।
ज्वालाभासौ न पुंस्यर्चिः र्ज्योतिर्भद्योतदृष्टिषु॥
पापाऽपराधयोरागः खगबाल्याऽऽदिनोर्वयः।
तेजः पुरीषयोर्वर्चः महश्चोत्सवतेजसोः॥
रजो गुणे च स्त्रीपुष्पे राहौ ध्वान्ते गुणे तमः।
छन्दः पद्येऽभिलाषे च तपः कृच्छ्राऽऽदिकर्म च॥
सहो बलं सहा मार्गः नभः खं श्रावणो नभाः।
ओकः सद्माऽऽश्रयश्चौकाः पय: क्षीरं पयोंबु च॥
ओजो दीप्तौ बले स्रोतः इन्द्रिये निम्नगारये।
तेजः प्रभावे दीप्तौ च बले शुक्रेऽप्यतस्त्रिषु॥
विद्वान् विदंश्च बीभत्सः हिंस्रोऽप्यतिशयेत्वमी।
वृद्धप्रशंसयोर्ज्यायान् कनीयांस्तु युवाऽल्पयोः॥
वरीयांस्तूरुवरयोः साधीयान् साधुबाढयोः।
दलेऽपि बर्हं निर्बन्धः उपरागाऽर्काऽऽदयो ग्रहाः॥
द्वार्यापीडे क्वाथरसे निर्यूहो नागदन्तके।
तुलासूत्रेऽश्वाऽऽदिरश्मौ प्रग्राहः प्रग्रहोऽपि च॥
पत्नीपरिजनाऽऽदानमूलशापाः परिग्रहाः।
दारेषु च गृहाः श्रोण्यामप्यारोहो वरस्त्रियाः॥
व्यूहो वृन्देऽप्यहिर्वृत्रे अप्यग्नीन्द्वर्कास्तमोपहाः।
परिच्छदे नृपार्हेऽर्थे परिबर्होऽव्ययाः परे॥
आङीषदर्थेऽभिव्याप्तौ सीमार्थे धातुयोगजे।
आप्रगृह्यस्स्मृतौ वाक्ये अप्यास्तु स्यात्कोपपीडयोः॥
पापकुत्सेषदर्थे कु धिङ् निर्भर्त्सननिन्दयोः।
चाऽन्वाचयसमाहारेतरेतरसमुच्चये॥
स्वस्त्याशीः क्षेमपुण्याऽऽदौ प्रकर्षे लङ्घनेऽप्यति।
स्वित्प्रश्ने च वितर्के च तु स्याद्भेदेऽवधारणे॥
सकृत् सहैकवारे च अप्याराद्दूरसमीपयोः।
प्रतीच्यां चरमे पश्चात् उताऽप्यर्थविकल्पयोः॥
पुनस्सहाऽर्थयोः शश्वत् साक्षात्प्रत्यक्षतुल्ययोः।
खेदाऽनुकम्पासंतोषविस्मयाऽऽमन्त्रणे बत॥
हन्त हर्षेऽऽनुकम्पायां वाक्याऽऽरम्भविषादयोः।
प्रति प्रतिनिधौ वीप्सालक्षणाऽऽदौ प्रयोगतः॥
इति हेतुप्रकरणप्रकर्षाऽऽदिसमाप्तिषु।
प्राच्यां पुरस्तात्प्रथमे पुराऽर्थेऽग्रत इत्यपि॥
यावत्तावच्च साकल्ये अवधौ मानेऽवधारणे।
मङ्गलाऽनन्तरारम्भप्रश्नकार्त्स्न्येष्वथो अथ॥
वृथा निरर्थकाऽविध्योर्नानाऽनेकोभयाऽर्थयोः।
नु पृच्छायां विकल्पे च पश्चात्सादृश्ययोरनु॥
प्रश्नाऽवधारणाऽनुज्ञाऽनुनयाऽऽमन्त्रणे ननु।
गर्हासमुच्चयप्रश्नशङ्कासंभावनास्वपि॥
उपमायां विकल्पे वा सामि त्वर्धे जुगुप्सिते।
अमा सह समीपे च कं वारिणि च मूर्धनि॥
इवेत्थमर्थयोरेवं नूनं तर्केऽर्थनिश्चये।
तूष्णीमर्थे सुखे जोषं किं पृच्छायां जुगुप्सने॥
नाम प्राकाश्यसंभाव्य क्रोधोपगमकुत्सने।
अलं भूषणपर्याप्तिशक्तिवारणवाचकम्॥
हुं वितर्के परिप्रश्ने समयाऽन्तिकमध्ययोः।
पुनरप्रथमे भेदे निर्निश्चयनिषेधयोः॥
स्यात्प्रबन्धे चिराऽतीते निकटाऽऽगामिके पुरा।
ऊरर्यूरी चोररी च विस्तारेऽङ्गीकृतौ त्रयम्॥
स्वर्गे परे च लोके स्वर्वार्तासंभाव्ययोः किल।
निषेधवाक्याऽलङ्कारजिज्ञासाऽनुनये खलु॥
समीपोभयतश्शीघ्रसाकल्याऽभिमुखेऽभितः।
नामप्राकाश्ययोः प्रदुः मिथोऽन्योन्यं रहस्यपि॥
तिरोऽन्तर्धौ तिर्यगर्थे हा विषादशुगर्तिषु।
अहहेत्यद्भुते खेदे हि हेताववधारणे॥
॥इति नानार्थवर्गः॥