॥ वाग् यज्ञेन कल्पताम् ॥

See Listen and Chant

These Chanting are to Inspire You for, to Practice and Learn to Chanting Bhagavat Stotram. The occasional drift while highlighting is negligible and unavoidable because of the chanting styles. Some Chanting are collected from Internet, for educative and guided chanting practice and not to infringe any Copyrights.

Ready... Play...

Amara Kosha Bhumi Varga

Amara Kosha is one of the most popular Sanaskrit kosha which is by-heart memorized and this page will facilitate you to learn, listen, see and chant. There are about 25 Varga and each varga is shown in individual page.

॥ अमरकोषः ॥

॥श्री अमरसिंहविरचितं नामलिङ्गानुशासनम्॥
॥द्वितीयं काण्डम्॥
॥वर्गभेदाः॥
वर्गाः पृथ्वीपुरक्ष्माभृद् वनौषधिमृगादिभिः।
नृब्रह्मक्षत्रविट्शूद्रैः साङ्गोपाङ्गैरिहोदिताः॥
॥अथ भूमिवर्गः॥
भूर्भूमिरचलाऽनन्ता रसा विश्वम्भरा स्थिता।
धरा धरित्री धरणिः क्षोणिर्ज्या काश्यपी क्षितिः॥
सर्वंसहा वसुमती वसुधोर्वी वसुन्धरा।
गोत्रा कुः पृथिवी पृथ्वी क्ष्माऽवनिर्मेदिनी मही॥
विपुला गह्वरी धात्री गौरिला कुम्भिनी क्षमा।
भूतधात्री रत्नगर्भा जगती सागराम्बरा॥
मृन्मृत्तिका प्रशस्ता तु मृत्सा मृत्स्ना च मृत्तिका।
उर्वरा सर्वसस्याढ्या स्यादूषः क्षारमृत्तिका॥
ऊषवानूषरो द्वावपि अन्यलिङ्गौ स्थलं स्थली।
समानौ मरुधन्वानौ द्वे खिलाप्रहते समे॥
त्रिष्वथो जगती लोकः विष्टपं भुवनं जगत्।
लोकोऽयं भारतं वर्षं शरावत्यास्तु योऽवधेः॥
देशः प्राग्दक्षिणः प्राच्य उदीच्यः पश्चिमोत्तरः।
प्रत्यन्तो म्लेच्छदेशः स्यात् मध्यद्देशस्तु मध्यमः॥
आर्यावर्तः पुण्यभूमिः मध्यं विन्ध्यहिमालयोः।
नीवृज्जनपदो देशः विषयौ तूऽपवर्तनम्॥
त्रिष्वागोष्ठान्नडप्राये नड्वान्नड्वल इत्यपि।
कुमुद्वान्कुमुदप्राये वेतस्वान्बहुवेतसे॥
शाद्वलः शादहरिते सजम्बाले तु पङ्किलः।
जलप्रायमनूपं स्यात् पुंसि कच्छस्तथाविधः॥
स्त्री शर्करा शर्करिलः शार्करः शर्करावति।
देश एवादिमावेववम् उन्नेयाः सिकतावति॥
देशो नद्यम्बुवृष्ट्यम्बु संपन्नव्रीहिपालितः।
स्यान्नदीमातृको देव मातृकश्च यथाक्रमम्॥
सुराज्ञि देशे राजन्वान् स्यात्ततोऽन्यत्र राजवान्।
गोष्ठं गोस्थानकं तत्तु गौष्ठीनं भूतपूर्वकम्॥
पर्यन्तभूः परिसरः सेतुरालौ स्त्रियां पुमान्।
वामलूरश्च नाकुश्च वल्मीकं पुंनपुंसकम्॥
अयनम् वर्त्म मार्गाध्व पन्थानः पदवी सृतिः।
सरणिः पद्धतिः पद्या वर्तन्येकपदीति च॥
अतिपन्थाः सुपन्थाश्च सत्पथश्चार्चितेऽध्वनि।
व्यध्वो दुरध्वो विपथः कदध्वा कापथः समाः॥
अपन्थास्त्वपथं तुल्ये श‍ृङ्गाटकचतुष्पथे।
प्रान्तरं दूरशून्योऽध्वा कान्तारं वर्त्म दुर्गमम्॥
गव्यूतिः स्त्री क्रोशयुगं नल्वः किष्कुचतुःशतम्।
घण्टापथः संसरणं तत्पुरस्योपनिष्करम्॥
द्यावापृथिव्यौ रोदस्यौ द्यावाभूमी च रोदसी।
दिवस्पृथिव्यौ गञ्जा तु रुमा स्याल्लवणाकरः॥
॥इति भूमिवर्गः॥

नारदव्याससंवादः भगवद्गुणकर्मवर्णनस्य महत्त्वं देवर्षिनारदकर्तृकं स्वकीयपूर्वजन्मवृत्तान्ताकथनं च - The conversation between Maharshi Vyasa and Dhevarshi Narada, ...
महर्षेर्व्यासस्यापरितोषः तदाश्रमे देवर्शिनारदस्यागमनं च - Maharshi Vyasa's ashrama visited by Dhevarshi Narada. ...
भगवतचतुर्विंशत्यवताराणां संक्षेपतो वर्णनम् - A brief intro about the 24 various incarnation of God Vishnu. ...
सूतप्रतिवचनम् - भगवत्कथायाः श्रवणकीर्तनयोर्निःश्रेयसकरत्वं भवगवद्भक्तेर्माहात्म्यवर्णनं च - The answer given by Suta Maharishi - The ...
Loading story text...
https://www.krishnadhevalipi.org/wp-content/uploads/stories/txt/ra_story_words1910.txt
https://www.krishnadhevalipi.org/wp-content/uploads/stories/json/ra_story1910.json

Details of update

last updated - 23rd May, 2026