॥ वाग् यज्ञेन कल्पताम् ॥

Read Aloud Sanskrit

As I read story, you can choose your language script ... Select a part and read aloud also ... Enjoy learning Sanskrit ...
Ready... Play...

Real Secret

A friend in need is a friend in deed is the well known quote. Many a times, we loose our friends because of misunderstanding. In this story two merchants, after doing overseas trading were returning to their home. Enroute, pirates robbed diamonds of one friend …

वास्तविकं रहस्यम्

You can watch this Sanskrit Story Explanation in the Video below.

समुद्रगुप्तः धनगुप्तः च सिरिपुरस्य्स वणिजौ। चिरकालतः तयोः परस्परं मैत्री आसीत्। तौ तदा तदा वाणिज्यार्थं नौकायानेन देशान्तरेषु सञ्चारं कुरुतः स्म। एकदा तौ देशान्तरेषु वाणिज्यं समाप्य सिरिपुरं प्रति प्रस्थितौ। समुद्रमार्गमध्ये धनगुप्तः स्वीयं वज्रद्वयं प्रदर्श्य समुद्रगुप्तम् इदं प्रथमतया अहं मदीयं सर्वधनं दत्त्वा एतत् वज्रद्वयं क्रीतवान्। किन्तु इदानीं सहसा मम मनः समुद्रचोरेभ्यः भीतम् अस्ति। किं वा करोमि इति पृष्टवान्। भीतिः मास्तु। कटिबन्धनवस्त्रम् अस्ति किल। तस्मिन् वस्त्रे तत् वज्रद्वयं स्थापयतु इति समुद्रगुप्तः सूचितवान्।

परेद्युः धनगुप्तस्य भीतिः यथार्था जाता। समुद्रचोराः नौकाम् आक्रम्य तयोः समीपम् आगतवन्तः। चोराणां नायकः तयोः पुरतः खड्गं प्रदर्शयन् वृथा दुर्मरणस्य इच्छा नास्ति खलु। भवत्समीपे यानि यानि अमूल्यवस्तूनि सन्ति तानि सर्वाणि यच्छन्तु इति गर्जितवान्। समुद्रगुप्तः धनगुप्तः च निरुपायौ जातौ। अनेकेषु स्यूतेषु पेटिकासु च स्थापितानि सर्वाणि वस्तूनि चोरेभ्यः समर्पितानि। सर्वं दत्तं खलु। अथवा इतोऽपि यत्किञ्चित् गुप्तरूपेण स्थापितं वा इति पृच्छन् चोरनायकः तयोः समीपम् आगन्तुं प्रवृत्तः। तदा समुद्रगुप्तः धनगुप्तं प्राणानाम् अपेक्षया प्रियतरं किं वा अस्ति। तत् वज्रद्वयम् अपि ददातु इति उक्तवान्।

तदा समुद्रगुप्तः कटिभागे गुप्तरूपेण स्थापितं वज्रद्वयम् अपि चोराणां नायकाय दत्तवान्। सर्वे चोराः ततः निर्गताः। अनन्तरं धनगुप्तः समुद्रगुप्तं क्रोधेन पश्यन् भवान् एतादृशः विस्वासघातकः इति अहं पूर्वं न ज्ञातवान् इति निन्दितवान्। समुद्रगुप्तः स्वीयकट्यां वद्धां चर्मपट्टिकाम् अपनीय प्रदर्शितवान् उक्तवान् च अत्र पश्यतु। अत्र विंशतिः वज्राणि सन्ति। तेषु प्रत्येकस्य अपि वज्रस्य भवतः वज्रयोः अपेक्षया अधिकं मूल्यं भवति। चत्वारि वज्राणि भवान् सीवीकरोतु। चोराणां नायकस्य पुरतः अहं यत् उक्तवान् तस्य वास्तविकरहस्यम् एतत् एव। यदि अहं तथा न वदेयम् तर्हि सः मम शरीरम् अपि सम्यक् परीक्षेत तदा आवयोः द्वयोः अपि सर्वाणि वज्राणि अपहृत्य गच्छेत् खलु इति।

Source:
Sanskrit Chandamama
Month:
April
Year:
1985
Loading story text...
https://www.krishnadhevalipi.org/wp-content/uploads/stories/txt/ra_story_words003.txt
https://www.krishnadhevalipi.org/wp-content/uploads/stories/json/ra_story003.json

Details of update

last updated on - 22nd April, 2026

Be Informed!! Translation may have contextual mistakes!

Ready

समुद्रगुप्तः धनगुप्तः च सिरिपुरस्य्स वणिजौ। चिरकालतः तयोः परस्परं मैत्री आसीत्। तौ तदा तदा वाणिज्यार्थं नौकायानेन देशान्तरेषु सञ्चारं कुरुतः स्म। एकदा तौ देशान्तरेषु वाणिज्यं समाप्य सिरिपुरं प्रति प्रस्थितौ। समुद्रमार्गमध्ये धनगुप्तः स्वीयं वज्रद्वयं प्रदर्श्य समुद्रगुप्तम् इदं प्रथमतया अहं मदीयं सर्वधनं दत्त्वा एतत् वज्रद्वयं क्रीतवान्। किन्तु इदानीं सहसा मम मनः समुद्रचोरेभ्यः भीतम् अस्ति। किं वा करोमि इति पृष्टवान्। भीतिः मास्तु। कटिबन्धनवस्त्रम् अस्ति किल। तस्मिन् वस्त्रे तत् वज्रद्वयं स्थापयतु इति समुद्रगुप्तः सूचितवान्।

परेद्युः धनगुप्तस्य भीतिः यथार्था जाता। समुद्रचोराः नौकाम् आक्रम्य तयोः समीपम् आगतवन्तः। चोराणां नायकः तयोः पुरतः खड्गं प्रदर्शयन् वृथा दुर्मरणस्य इच्छा नास्ति खलु। भवत्समीपे यानि यानि अमूल्यवस्तूनि सन्ति तानि सर्वाणि यच्छन्तु इति गर्जितवान्। समुद्रगुप्तः धनगुप्तः च निरुपायौ जातौ। अनेकेषु स्यूतेषु पेटिकासु च स्थापितानि सर्वाणि वस्तूनि चोरेभ्यः समर्पितानि। सर्वं दत्तं खलु। अथवा इतोऽपि यत्किञ्चित् गुप्तरूपेण स्थापितं वा इति पृच्छन् चोरनायकः तयोः समीपम् आगन्तुं प्रवृत्तः। तदा समुद्रगुप्तः धनगुप्तं प्राणानाम् अपेक्षया प्रियतरं किं वा अस्ति। तत् वज्रद्वयम् अपि ददातु इति उक्तवान्।

तदा समुद्रगुप्तः कटिभागे गुप्तरूपेण स्थापितं वज्रद्वयम् अपि चोराणां नायकाय दत्तवान्। सर्वे चोराः ततः निर्गताः। अनन्तरं धनगुप्तः समुद्रगुप्तं क्रोधेन पश्यन् भवान् एतादृशः विस्वासघातकः इति अहं पूर्वं न ज्ञातवान् इति निन्दितवान्। समुद्रगुप्तः स्वीयकट्यां वद्धां चर्मपट्टिकाम् अपनीय प्रदर्शितवान् उक्तवान् च अत्र पश्यतु। अत्र विंशतिः वज्राणि सन्ति। तेषु प्रत्येकस्य अपि वज्रस्य भवतः वज्रयोः अपेक्षया अधिकं मूल्यं भवति। चत्वारि वज्राणि भवान् सीवीकरोतु। चोराणां नायकस्य पुरतः अहं यत् उक्तवान् तस्य वास्तविकरहस्यम् एतत् एव। यदि अहं तथा न वदेयम् तर्हि सः मम शरीरम् अपि सम्यक् परीक्षेत तदा आवयोः द्वयोः अपि सर्वाणि वज्राणि अपहृत्य गच्छेत् खलु इति।

Translation will appear here. Select a language to translate to …