॥ वाग् यज्ञेन कल्पताम् ॥

See Listen and Chant

These Chanting are to Inspire You for, to Practice and Learn to Chanting Bhagavat Stotram. The occasional drift while highlighting is negligible and unavoidable because of the chanting styles. Some Chanting are collected from Internet, for educative and guided chanting practice and not to infringe any Copyrights.

Ready... Play...

Bhagavata Puranam C10S19

मुञ्जाटव्यां गवां गॊपानां च दावानलाद्रक्षणम् । Safeguarding Munja Grass, and herds men and women from forestfire.

॥ श्रीमद्भागवतमहापुराणम् ॥

ॐ श्रीमद्भागवते दशमस्कन्धे पूर्वार्धॆ अथ एकॊनविंशॊऽध्यायः।
श्रीशुक उवाच।
क्रीडासक्तेषु गोपेषु तद्गावो दूरचारिणीः।
स्वैरं चरन्त्यो विविशुस्तृणलोभेन गह्वरम्॥
अजा गावो महिष्यश्च निर्विशन्त्यो वनाद्वनम्।
इषीकाटवीं निर्विविशुः क्रन्दन्त्यो दावतर्षिताः॥
तेऽपश्यन्तः पशून् गोपाः कृष्णरामादयस्तदा।
जातानुतापा न विदुर्विचिन्वन्तो गवां गतिम्॥
तृणैस्तत्खुरदच्छिन्नैर्गोष्पदैरङ्कितैर्गवाम्।
मार्गमन्वगमन् सर्वे नष्टाजीव्या विचेतसः॥
मुञ्जाटव्यां भ्रष्टमार्गं क्रन्दमानं स्वगोधनम्।
सम्प्राप्य तृषिताः श्रान्तास्ततस्ते सन्न्यवर्तयन्॥
ता आहूता भगवता मेघगम्भीरया गिरा।
स्वनाम्नां निनदं श्रुत्वा प्रतिनेदुः प्रहर्षिताः॥
ततः समन्ताद्वनधूमकेतु-
र्यदृच्छयाभूत्क्षयकृद्वनौकसाम्।
समीरितः सारथिनोल्बणोल्मुकै-
र्विलेलिहानः स्थिरजङ्गमान् महान्॥
तमापतन्तं परितो दवाग्निं
गोपाश्च गावः प्रसमीक्ष्य भीताः।
ऊचुश्च कृष्णं सबलं प्रपन्ना
यथा हरिं मृत्युभयार्दिता जनाः॥
कृष्ण कृष्ण महावीर हे रामामितविक्रम।
दावाग्निना दह्यमानान् प्रपन्नांस्त्रातुमर्हथः॥
नूनं त्वद्बान्धवाः कृष्ण न चार्हन्त्यवसादितुम्।
वयं हि सर्वधर्मज्ञ त्वन्नाथास्त्वत्परायणाः॥
श्रीशुक उवाच।
वचो निशम्य कृपणं बन्धूनां भगवान् हरिः।
निमीलयत मा भैष्ट लोचनानीत्यभाषत॥
तथेति मीलिताक्षेषु भगवानग्निमुल्बणम्।
पीत्वा मुखेन तान् कृच्छ्राद्योगाधीशो व्यमोचयत्॥
ततश्च तेऽक्षीण्युन्मील्य पुनर्भाण्डीरमापिताः।
निशाम्य विस्मिता आसन्नात्मानं गाश्च मोचिताः॥
कृष्णस्य योगवीर्यं तद्योगमायानुभावितम्।
दावाग्नेरात्मनः क्षेमं वीक्ष्य ते मेनिरेऽमरम्॥
गाः सन्निवर्त्य सायाह्ने सह रामो जनार्दनः।
वेणुं विरणयन् गोष्ठमगाद्गोपैरभिष्टुतः॥
गोपीनां परमानन्द आसीद्गोविन्ददर्शने।
क्षणं युगशतमिव यासां येन विनाभवत्॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
दशमस्कन्धे पूर्वार्धे दावाग्निपानं नामैकोनविंशोऽध्यायः॥

अक्रूरस्य हस्तिनापुरॆ गमनं कुन्त्याः करुणॊद्गारः अक्रूरधृतराष्ट्रसंवादः अक्रूरस्य पुनर्यदुपुर्यामागमनं च । Akrura reaching Hastinapura, meeeting Kunti ...
भगवता कुब्जामनॊरथपूर्तिः अक्रूरगृहं गत्वा पाण्डवसमाचारज्ञानायाक्रूरस्य हस्तिनापुरं प्रति प्रस्थापनं च । Blessing the wishes of Dward ...
उद्धवगॊपीसंवादः भ्रमरगीतम् उद्धवस्य मथुरागमनं च । Conversation between herdswomen and Uddhava and songs in praise ...
स्वविरहार्तगॊपगॊपीनां सन्त्वनाय भगवतॊद्धवस्य प्रस्थापनम् नन्दॊद्धवसंवादश्च । Uddhava is sent to console the herdswomen in Gokula ...
Loading story text...
https://www.krishnadhevalipi.org/wp-content/uploads/stories/txt/ra_story_words3219.txt
https://www.krishnadhevalipi.org/wp-content/uploads/stories/json/ra_story3219.json

Details of update

last updated - 12th November, 2026