॥ वाग् यज्ञेन कल्पताम् ॥

See Listen and Chant

These Chanting are to Inspire You for, to Practice and Learn to Chanting Bhagavat Stotram. The occasional drift while highlighting is negligible and unavoidable because of the chanting styles. Some Chanting are collected from Internet, for educative and guided chanting practice and not to infringe any Copyrights.

Ready... Play...

Bhagavata Puranam C9S20

पूरुवंशवर्णनम् तत्र दुष्यन्तभरतयॊश्चरितम् । The history of Puru Clan and the story of Dhushyanta and Bharata etc.

॥ श्रीमद्भागवतमहापुराणम् ॥

ॐ श्रीमद्भागवते नवमस्कन्धे अथ विंशॊऽध्यायः।
श्रीशुक उवाच।
पूरोर्वंशं प्रवक्ष्यामि यत्र जातोऽसि भारत।
यत्र राजर्षयो वंश्या ब्रह्मवंश्याश्च जज्ञिरे॥
जनमेजयो ह्यभूत्पूरोः प्रचिन्वांस्तत्सुतस्ततः।
प्रवीरोऽथ नमस्युर्वै तस्माच्चारुपदोऽभवत्॥
तस्य सुद्युरभूत्पुत्रस्तस्माद्बहुगवस्ततः।
संयातिस्तस्याहंयाती रौद्राश्वस्तत्सुतः स्मृतः॥
ऋतेयुस्तस्य कक्षेयुः स्थण्डिलेयुः कृतेयुकः।
जलेयुः सन्ततेयुश्च धर्मसत्यव्रतेयवः॥
दशैतेऽप्सरसः पुत्रा वनेयुश्चावमः स्मृतः।
घृताच्यामिन्द्रियाणीव मुख्यस्य जगदात्मनः॥
ऋतेयो रन्तिभारोऽभूत्त्रयस्तस्यात्मजा नृप।
सुमतिर्ध्रुवोऽप्रतिरथः कण्वोऽप्रतिरथात्मजः॥
तस्य मेधातिथिस्तस्मात्प्रस्कण्वाद्या द्विजातयः।
पुत्रोऽभूत्सुमते रैभ्यो दुष्यन्तस्तत्सुतो मतः॥
दुष्यन्तो मृगयां यातः कण्वाश्रमपदं गतः।
तत्रासीनां स्वप्रभया मण्डयन्तीं रमामिव॥
विलोक्य सद्यो मुमुहे देवमायामिव स्त्रियम्।
बभाषे तां वरारोहां भटैः कतिपयैर्वृतः॥
तद्दर्शनप्रमुदितः सन्निवृत्तपरिश्रमः।
पप्रच्छ कामसन्तप्तः प्रहसञ्श्लक्ष्णया गिरा॥
का त्वं कमलपत्राक्षि कस्यासि हृदयङ्गमे।
किं वा चिकीर्षितं त्वत्र भवत्या निर्जने वने॥
व्यक्तं राजन्यतनयां वेद्म्यहं त्वां सुमध्यमे।
न हि चेतः पौरवाणामधर्मे रमते क्वचित्॥
शकुन्तलोवाच।
विश्वामित्रात्मजैवाहं त्यक्ता मेनकया वने।
वेदैतद्भगवान् कण्वो वीर किं करवाम ते॥
आस्यतां ह्यरविन्दाक्ष गृह्यतामर्हणं च नः।
भुज्यतां सन्ति नीवारा उष्यतां यदि रोचते॥
दुष्यन्त उवाच।
उपपन्नमिदं सुभ्रु जातायाः कुशिकान्वये।
स्वयं हि वृणुते राज्ञां कन्यकाः सदृशं वरम्॥
ओमित्युक्ते यथाधर्ममुपयेमे शकुन्तलाम्।
गान्धर्वविधिना राजा देशकालविधानवित्॥
अमोघवीर्यो राजर्षिर्महिष्यां वीर्यमादधे।
श्वोभूते स्वपुरं यातः कालेनासूत सा सुतम्॥
कण्वः कुमारस्य वने चक्रे समुचिताः क्रियाः।
बद्ध्वा मृगेन्द्रांस्तरसा क्रीडति स्म स बालकः॥
तं दुरत्ययविक्रान्तमादाय प्रमदोत्तमा।
हरेरंशांशसम्भूतं भर्तुरन्तिकमागमत्॥
यदा न जगृहे राजा भार्यापुत्रावनिन्दितौ।
श‍ृण्वतां सर्वभूतानां खे वागाहाशरीरिणी॥
माता भस्त्रा पितुः पुत्रो येन जातः स एव सः।
भरस्व पुत्रं दुष्यन्त मावमंस्थाः शकुन्तलाम्॥
रेतोधाः पुत्रो नयति नरदेव यमक्षयात्।
त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला॥
पितर्युपरते सोऽपि चक्रवर्ती महायशाः।
महिमा गीयते तस्य हरेरंशभुवो भुवि॥
चक्रं दक्षिणहस्तेऽस्य पद्मकोशोऽस्य पादयोः।
ईजे महाभिषेकेण सोऽभिषिक्तोऽधिराड्विभुः॥
पञ्चपञ्चाशता मेध्यैर्गङ्गायामनु वाजिभिः।
मामतेयं पुरोधाय यमुनायामनु प्रभुः॥
अष्टसप्ततिमेध्याश्वान् बबन्ध प्रददद्वसु।
भरतस्य हि दौष्यन्तेरग्निः साचीगुणे चितः।
सहस्रं बद्वशो यस्मिन् ब्राह्मणा गा विभेजिरे॥
त्रयस्त्रिंशच्छतं ह्यश्वान् बद्ध्वा विस्मापयन् नृपान्।
दौष्यन्तिरत्यगान्मायां देवानां गुरुमाययौ॥
मृगान् शुक्लदतः कृष्णान् हिरण्येन परीवृतान्।
अदात्कर्मणि मष्णारे नियुतानि चतुर्दश॥
भरतस्य महत्कर्म न पूर्वे नापरे नृपाः।
नैवापुर्नैव प्राप्स्यन्ति बाहुभ्यां त्रिदिवं यथा॥
किरातहूणान् यवनानन्ध्रान् कङ्कान् खशान् छकान्।
अब्रह्मण्यान् नृपांश्चाहन् म्लेच्छान् दिग्विजयेऽखिलान्॥
जित्वा पुरासुरा देवान् ये रसौकांसि भेजिरे।
देवस्त्रियो रसां नीताः प्राणिभिः पुनराहरत्॥
सर्वान् कामान् दुदुहतुः प्रजानां तस्य रोदसी।
समास्त्रिणवसाहस्रीर्दिक्षु चक्रमवर्तयत्॥
स सम्राड् लोकपालाख्यमैश्वर्यमधिराट् श्रियम्।
चक्रं चास्खलितं प्राणान् मृषेत्युपरराम ह॥
तस्यासन् नृप वैदर्भ्यः पत्न्यस्तिस्रः सुसम्मताः।
जघ्नुस्त्यागभयात्पुत्रान् नानुरूपा इतीरिते॥
तस्यैवं वितथे वंशे तदर्थं यजतः सुतम्।
मरुत्स्तोमेन मरुतो भरद्वाजमुपाददुः॥
अन्तर्वत्न्यां भ्रातृपत्न्यां मैथुनाय बृहस्पतिः।
प्रवृत्तो वारितो गर्भं शप्त्वा वीर्यमवासृजत्॥
तं त्यक्तुकामां ममतां भर्तृत्यागविशङ्किताम्।
नामनिर्वाचनं तस्य श्लोकमेनं सुरा जगुः॥
मूढे भर द्वाजमिमं भर द्वाजं बृहस्पते।
यातौ यदुक्त्वा पितरौ भरद्वाजस्ततस्त्वयम्॥
चोद्यमाना सुरैरेवं मत्वा वितथमात्मजम्।
व्यसृजन्मरुतोऽबिभ्रन् दत्तोऽयं वितथेऽन्वये॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायां नवमस्कन्धे विंशोऽध्यायः॥

अक्रूरस्य हस्तिनापुरॆ गमनं कुन्त्याः करुणॊद्गारः अक्रूरधृतराष्ट्रसंवादः अक्रूरस्य पुनर्यदुपुर्यामागमनं च । Akrura reaching Hastinapura, meeeting Kunti ...
भगवता कुब्जामनॊरथपूर्तिः अक्रूरगृहं गत्वा पाण्डवसमाचारज्ञानायाक्रूरस्य हस्तिनापुरं प्रति प्रस्थापनं च । Blessing the wishes of Dward ...
उद्धवगॊपीसंवादः भ्रमरगीतम् उद्धवस्य मथुरागमनं च । Conversation between herdswomen and Uddhava and songs in praise ...
स्वविरहार्तगॊपगॊपीनां सन्त्वनाय भगवतॊद्धवस्य प्रस्थापनम् नन्दॊद्धवसंवादश्च । Uddhava is sent to console the herdswomen in Gokula ...
Loading story text...
https://www.krishnadhevalipi.org/wp-content/uploads/stories/txt/ra_story_words3196.txt
https://www.krishnadhevalipi.org/wp-content/uploads/stories/json/ra_story3196.json

Details of update

last updated - 12th November, 2026