॥ वाग् यज्ञेन कल्पताम् ॥

See Listen and Chant

These Chanting are to Inspire You for, to Practice and Learn to Chanting Bhagavat Stotram. The occasional drift while highlighting is negligible and unavoidable because of the chanting styles. Some Chanting are collected from Internet, for educative and guided chanting practice and not to infringe any Copyrights.

Ready... Play...

Bhagavata Puranam C5S3

नाभॆश्चरितम् – यज्ञॆ दत्तवरस्य भगवतॊ नाभॆर्मॆरुदॆव्यामृषभदेवाख्यावतारग्रहणम् – Nabhi’s history and related stories etc.

॥ श्रीमद्भागवतमहापुराणम् ॥

ॐ श्रीमद्भागवते पञ्चमस्कन्धे अथ तृतीयोऽध्यायः।
श्रीशुक उवाच।
नाभिरपत्यकामोऽप्रजया मेरुदेव्या भगवन्तं
यज्ञपुरुषमवहितात्मायजत॥१॥
तस्य ह वाव श्रद्धया विशुद्धभावेन यजतः प्रवर्ग्येषु
प्रचरत्सु द्रव्यदेशकालमन्त्रर्त्विग्दक्षिणाविधानयोगो-
पपत्त्या दुरधिगमोऽपि भगवान् भागवतवात्सल्यतया
सुप्रतीक आत्मानमपराजितं निजजनाभिप्रेतार्थ-
विधित्सया गृहीतहृदयो हृदयङ्गमं मनोनयनानन्दना-
वयवाभिराममाविश्चकार॥२॥
अथ ह तमाविष्कृतभुजयुगलद्वयं हिरण्मयं पुरुषविशेषं
कपिशकौशेयाम्बरधरमुरसि विलसच्छ्रीवत्सललामं
दरवरवनरुहवनमालाच्छूर्यमृतमणिगदादिभिरुपलक्षितं
स्फुटकिरणप्रवरमुकुटकुण्डलकटककटिसूत्रहारकेयूर-
नूपुराद्यङ्गभूषणविभूषितमृत्विक्सदस्यगृहपतयोऽधना
इवोत्तमधनमुपलभ्य सबहुमानमर्हणेनावनतशीर्षाण
उपतस्थुः॥३॥
ऋत्विज ऊचुः।
अर्हसि मुहुरर्हत्तमार्हणमस्माकमनुपथानां नमो नम
इत्येतावत्सदुपशिक्षितं कोऽर्हति पुमान् प्रकृतिगुण-
व्यतिकरमतिरनीश ईश्वरस्य परस्य प्रकृतिपुरुषयो-
रर्वाक्तनाभिर्नामरूपाकृतिभी रूपनिरूपणम्॥४॥
सकलजननिकायवृजिननिरसनशिवतमप्रवर-
गुणगणैकदेशकथनादृते॥५॥
परिजनानुरागविरचितशबलसंशब्दसलिलसित-
किसलयतुलसिकादूर्वाङ्कुरैरपि सम्भृतया सपर्यया
किल परम परितुष्यसि॥६॥
अथानयापि न भवत इज्ययोरुभारभरया समुचित-
मर्थमिहोपलभामहे॥७॥
आत्मन एवानुसवनमञ्जसाव्यतिरेकेण बोभूयमा-
नाशेषपुरुषार्थस्वरूपस्य किन्तु नाथाशिष
आशासानानामेतदभिसंराधनमात्रं भवितुमर्हति॥८॥
तद्यथा बालिशानां स्वयमात्मनः श्रेयः पर-मविदुषां
परम परमपुरुष प्रकर्षकरुणया स्वमहिमानं
चापवर्गाख्यमुपकल्पयिष्यन् स्वयं नापचित
एवेतरवदिहोपलक्षितः॥९॥
अथायमेव वरो ह्यर्हत्तम यर्हि बर्हिषि राजर्षेर्वरदर्षभो
भवान् निजपुरुषेक्षणविषय आसीत्॥१०॥
असङ्गनिशितज्ञानानलविधूताशेषमलानां
भवत्स्वभावानामात्मारामाणां मुनीनामनवरत-
परिगुणितगुणगणपरममङ्गलायनगुणगण
कथनोऽसि॥११॥
अथ कथञ्चित्स्खलनक्षुत्पतनजृम्भणदुरवस्थानादिषु
विवशानां नः स्मरणाय ज्वरमरणदशायामपि सकल-
कश्मलनिरसनानि तव गुणकृतनामधेयानि
वचनगोचराणि भवन्तु॥१२॥
किञ्चायं राजर्षिरपत्यकामः प्रजां भवादृशीमाशासान
ईश्वरमाशिषां स्वर्गापवर्गयोरपि भवन्तमुपधावति
प्रजायामर्थप्रत्ययो धनदमिवाधनः फलीकरणम्॥१३॥
को वा इह तेऽपराजितोऽपराजितया मायया-
नवसितपदव्यानावृतमतिर्विषयविषरयानावृत-
प्रकृतिरनुपासितमहच्चरणः॥१४॥
यदु ह वाव तव पुनरदभ्रकर्तरिह समाहूत-
स्तत्रार्थधियां मन्दानां नस्तद्यद्देवहेलनं देवदेवार्हसि
साम्येन सर्वान् प्रतिवोढुमविदुषाम्॥१५॥
श्रीशुक उवाच।
इति निगदेनाभिष्टूयमानो भगवाननिमिषर्षभो
वर्षधराभिवादिताभिवन्दितचरणः सदयमिदमाह॥१६॥
श्रीभगवानुवाच।
अहो बताहमृषयो भवद्भिरवितथगीर्भिर्वरमसुलभ-
मभियाचितो यदमुष्यात्मजो मया सदृशो भूयादिति
ममाहमेवाभिरूपः कैवल्यादथापि ब्रह्मवादो न मृषा
भवितुमर्हति ममैव हि मुखं यद्द्विजदेवकुलम्॥१७॥
तत आग्नीध्रीयेंऽशकलयावतरिष्याम्यात्मतुल्य-
मनुपलभमानः॥१८॥
श्रीशुक उवाच।
इति निशामयन्त्या मेरुदेव्याः पतिमभिधाया-
न्तर्दधे भगवान्॥१९॥
बर्हिषि तस्मिन्नेव विष्णुदत्त भगवान् परमर्षिभिः
प्रसादितो नाभेः प्रियचिकीर्षया तदवरोधायने
मेरुदेव्यां धर्मान् दर्शयितुकामो वातरशनानां
श्रमणानामृषीणामूर्ध्वमन्थिनां शुक्लया
तनुवावततार॥२०॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे नाभिचरिते ऋषभावतारो नाम तृतीयोऽध्यायः॥३॥

अक्रूरस्य हस्तिनापुरॆ गमनं कुन्त्याः करुणॊद्गारः अक्रूरधृतराष्ट्रसंवादः अक्रूरस्य पुनर्यदुपुर्यामागमनं च । Akrura reaching Hastinapura, meeeting Kunti ...
भगवता कुब्जामनॊरथपूर्तिः अक्रूरगृहं गत्वा पाण्डवसमाचारज्ञानायाक्रूरस्य हस्तिनापुरं प्रति प्रस्थापनं च । Blessing the wishes of Dward ...
उद्धवगॊपीसंवादः भ्रमरगीतम् उद्धवस्य मथुरागमनं च । Conversation between herdswomen and Uddhava and songs in praise ...
स्वविरहार्तगॊपगॊपीनां सन्त्वनाय भगवतॊद्धवस्य प्रस्थापनम् नन्दॊद्धवसंवादश्च । Uddhava is sent to console the herdswomen in Gokula ...
Loading story text...
https://www.krishnadhevalipi.org/wp-content/uploads/stories/txt/ra_story_words3095.txt
https://www.krishnadhevalipi.org/wp-content/uploads/stories/json/ra_story3095.json

Details of update

last updated - 12th November, 2026